भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 115, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 115

७ ] प्रथमाध्याये द्वितीयपादः ६३ अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः । फलस्य साधनेऽङ्गावातारन्यायात्प्रवर्त्तते ॥ ३३ ॥ ततः साधनबोधात्प्रागप्रवृत्तेः प्रवर्त्तना । वरं साधनतैवास्तु न क्लेशात्प्राप्तिरूपता ॥ ३४ ॥ तस्याश्च कर्म्मधर्मत्वात्कर्म्मैव स्यात्प्रवर्त्तकम् । प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्त्तकम् ॥ ३५ ॥ साध्यता फलधर्मोऽथ लिङुक्तः सन्प्रवर्त्तना । नासौ पूर्वमसिद्धत्वात्प्रवर्त्तयितुमर्हति ॥ ३६ ॥ अथानुष्ठेयरूपं कार्य्यत्वं स्यात्प्रवर्त्तकम् । ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्त्तिका । सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥ कालसंबन्धतोऽर्थानुष्ठेयत्वप्रतिबन्धनात् । तत्राप्रवृत्तिरित्येतत्किं स्यादिति निरूप्यताम् ॥ ३८ ॥ कृत्यात्मभावना या हि न कृतिव्याप्यतां विना । जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्त्तकम् ॥ ३९ ॥ अथानिष्पन्नरूपत्वं तदभावेऽपि विद्यते । तस्मात्क्रियात्मकं कार्य्यमथ वा तत्फलात्मकम् ॥ ४० ॥ न ताभ्यामतिरिक्तं वा पूर्वमस्ति प्रवर्त्तकम् । अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥ ४१ ॥ प्रवर्त्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः । शुद्धस्य च लिङर्थत्वे कर्त्तव्यत्वात् प्रतीतितः ॥ ४२ ॥ भवेन्नाकरणे दोषो निष्कामेष्वपि कर्म्मसु । न च द्रव्यगुणादीनां क्वचित्स्यादिष्टहेतुता ॥ ४३ ॥ प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः । कर्त्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥ ४४ ॥ कर्त्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः । नन्विष्टहेतुतामात्रं लिङा तावन्निरूप्यते ॥ ४५ ॥ कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया । कर्त्तृ भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥ क्रियायां चाप्रवृत्तस्य कर्त्तृ त्वानुपपत्तितः । प्रवृत्तिविषयत्वाख्यं कर्त्तव्यत्वं प्रतीयते ॥ ४७ ॥ एवं तु वर्त्तमानापदेशोऽप्येतत्प्रतीतितः । कर्त्तिष्टसाधनत्वस्य तद्बलेनैव कल्पनात् ॥ ४८ ॥