मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 114, कुल 804 में से
संदर्भ में पढ़ें६२ मीमांसादर्शनम् [ सू० कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् । तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥ मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् । अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥ प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः । अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥ प्राभाकरसम्मतविध्यर्थनिरूपणम् कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् । नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥ नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते । काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥ कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् । क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥ तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् । अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥ अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता । अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥ तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा । किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥ क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव । कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥ तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता । तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥ लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति । फलस्य प्रवर्त्तकत्वतिरासः नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥ साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते । तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥ नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् । अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥ फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना । फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥