मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति ।
७ ] प्रथमाध्याये तृतीयपादः १८१ स्मृतितोऽपि सदाचारप्रामाण्यमवसीयेत इत्यतिप्रसङ्गदोषाभावं वक्ष्यमाणमभिप्रेत्याह- स्मृतिकाराश्चेति । सर्वाचारसाधारण्यप्रदर्शनार्थः सामान्यशब्दः । उत्सवात्मकस्याचारस्य द्योतकं स्मृत्यन्तरमुदाहरति-तथेति । वैदिकमप्युत्सवलिङ्गमुदाहरति-वेदेऽपि । सिद्धान्तमुपपाद्य धर्मस्य शब्दमूलत्वादिति पूर्वपक्षहेतुं साभिप्रायविवरणमनुभाष्य निराकरोति-यत्त्विति । इहाचारेष्वनन्तेषु परिमितशास्त्रमूलत्वासम्भवादशब्दत्वेनान- पेक्षत्वं यदुक्तम् । तद्— भ्रान्तेरनुभवाच्चापि पुंवाक्याद्विप्रलम्भनात् । दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥ इति पूर्वोक्तेन प्रकारेण वेदमूलत्वानुमानात्प्रत्याख्येयमित्यर्थः । आचारप्रामाण्यप्रति- पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति । नन्वनन्ताचारमूलभूतानां श्रुतीनामानन्त्यात्पठितुमशक्तेरपठितानां च मूलत्वायोगान्नि- र्मूलत्वमपरिहार्यमित्याशङ्कयाह-विस्तरेति । कथमनन्तानां संक्षेपवचनमूलत्वमित्या- शङ्कयाह-शङ्क्यं चेति । ननु स्मृत्यनुरूपाश्रुतिः कल्प्या कल्प्यमाना साध्वाचरणेनैवोपलक्षितानां धर्मत्वप्रति- पादिका कल्प्येत । तत्र शास्त्रव्यापारात्प्रागाचरणसिद्धौ शास्त्रानर्थक्यम्, असिद्धौ वा शास्त्रादाचरणं तदुपलक्षणेनैव च शास्त्रप्रवृत्तिरितीतरेतराश्रयं स्यादित्याशङ्कयाह - तथा हीति । श्लोकं विवृणोति-न हीति । ननु व्यापाररूपत्वात्प्रदानादीनां यागादिवत् स्वरूपेणापि शास्त्रगम्येन भवितव्यमित्याशङ्कयाह-यागादिष्वपि चेति । पूर्वसिद्धत्वादेव च नेतरेतराश्रयमित्याह-अत इति । ननु यदि शास्त्रप्रवृत्तिमनुपलभ्यैव शिष्टप्रवृत्तिः ततः स्वयमेवानुष्ठितप्रदानादेर्भोजनादि- वत्फलसाधनत्वसिद्धेः शास्त्रानर्थक्यमपरिहृतं स्यादित्याशङ्कानिराकरणार्थम्-क्वाचित्क- त्वेत्युक्तम् । शिष्टप्रवृत्त्युत्तरकालं तर्हि शास्त्रस्य प्रवृत्तेरादिमत्त्वं स्यादित्याशङ्क्य- सर्वकालं त्वित्युक्तम् । ननु शिष्टाचारस्यापि मातुलदुहित्युद्वाहादिषु विगानदर्शनात्कथमुप- लक्षणत्वमित्याशङ्कयाह-तेषां चेति । यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ इति मनुना सदाचारशब्दार्थस्य निर्णीतत्वादिति भावः । स्मृतिबलाच्च श्रुतिरपि विशिष्टविषयैव कल्प्येत्याह-वेदेनापीति । सरस्वत्या विनशनं तिरोभावः सारस्वतसत्रारम्भदेशस्योपलक्षणम् । तस्या एव प्लक्षात्प्रस्रवणं सारस्वतसत्रो- त्थानदेशस्योपलक्षणम् । सदाचारस्वरूपावधारणे यत्पूर्वमितरेतराश्रयत्वमुक्तम् । तदेव
३८४ मीमांसा दर्शनम् [ सू० शिष्टप्रयोज्यत्वस्योपलक्षणत्वे योजयन्परिहारायानुभाषते—नन्विति । परिहरति—श्लोकं विवृणोति प्रत्यक्षेति । ननु साक्षाद्विहितकारित्वनिबन्धनस्यापि शिष्टत्वस्य वेदाधीनत्वा द्वैदिके विधौ आत्मा- श्रयापत्तेर्नोपलक्षणत्वं सम्भवतीत्याशङ्क्य, वैदिकत्वाभेदोऽपि विशेषरूपेण भेदान्नात्मा- श्रयापत्तिरिति दृष्टान्तेनोपपादयति—यद्यथेति । यद्यप्यध्ययनविध्याक्षिप्तत्वा द्वेदाङ्गमीमां- साव्याकरणादिश्रवणवेदार्थज्ञानयोरध्यापनविधिविहितत्वाच्चाध्यापनस्य शुश्रूवान्विद्वाननू- चानश्च वैदिको वेदविहितश्रवणज्ञानप्रवचननिमित्तत्वा द्वेदाधीनः तथापि य एवं विद्वांस्वा- ध्याय॒मधीयीत त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्य इति गतश्रियं लक्षयित्वा गतश्रीरजस्रमग्नीन्धारयेत्कामं योऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्याद् इति वेदविहि- तेष्वध्ययनादिषु तेनैव तल्लक्षितः-तेन शुश्रुवत्त्वादिना कृत्वा लक्षित इति, तथापि शब्दार्थे पुनःशब्दमङ्गीकृत्य व्याख्येयम् । नन्वेवमपि वेदप्रवृत्तौ सत्यां साक्षाद्विहितकारित्वलक्षणं शिष्टत्वम्, तस्मिंश्च सति शिष्टप्रयोज्यत्वोपलक्षिताचारप्रामाण्यप्रतिपादकवेदप्रवृत्तिरितीतरे- तराश्रयं स्यादित्याशङ्कयाह - तेनेति । यत्तु स्वयमज्ञातमूलाश्चेत्यादिना मन्वादिभिराचारमूलश्रुत्यदर्शनेऽन्येषां दर्शनस्य दूरोत्सारितत्वादभाव एव प्रसज्येत, दर्शने चोपनयनादिश्रुत्यर्थवदाचारमूलश्रुत्यर्थोऽपि निबन्धनीयः स्यादित्युक्तं तन् मन्वादीनामपि सर्वशाखाध्यायित्वनियमाभावात्तद्दर्शनमात्रे- णाभावकल्पनानुपपत्तेर्दर्शनेऽपि वा सदाचारः प्रमाणमिति सामान्याभ्यनुज्ञानमात्रेण सिद्धे- र्ग्रन्थगौरवभयाद्विशेषरूपेण निबन्धनोपपत्तेर्भविष्योत्तरादौ च होलाकाद्याचाराणां निबद्ध- त्वात्परिहृतमित्याह — स्मृतिरपीति । वेदविहितकारिणां धर्मबुद्ध्याचरणस्य वेदमूलत्वं विनानुपपत्तेराचाराद्वेदमनुमायपि स्मर्तृप्रणयनमुपपन्नमित्यभिप्रेत्य—चारमित्युक्तम् । ननु विस्तरवचनानामपीत्यनेन प्रत्येकमाचारमूलश्रुतिकल्पनमुक्तम्, किमुत संक्षेपवचन- स्येत्यनेन स्मृत्यनुरूपसामान्यश्रुतिकल्पनम्, तत्कोऽनयोः पक्षयोः सम्मत इत्यपेक्षायामुभयथापि दोषाभावप्रतिपादनार्थं पक्षद्वयोपन्यासः । परमार्थतस्त्वश्रीरातनूभवत रुशती,जाययामुया पतियंदृवद्धो वाससा स्वमङ्गमभिधित्सस्त इत्याद्यानां स्त्रीवासोपरिधानाद्याचारमूलभूतानां वह्वीनां श्रुतीनां दर्शनात्प्रत्येकश्रुतिकल्पनपक्ष एव ज्यायानिति सूचयितुमाह—इत्यबोच- इति । हेतुदर्शनमनुभाष्य परिहरति—यत्त्विति । एतदेव विवृणोति—वेदेऽपि हीति । ननु दृष्टार्थत्वसम्भवेऽपि वेदमूलत्वकल्पने धर्माचारस्यार्थकामाचाराभ्यां विवेको न स्यादि- त्याशङ्कयाह—यानि त्विति । ननु म्लेच्छादिसाधारण्यात्कृष्यादेर्धर्मत्वानभ्युपगमे देवपूजा- देरपि धर्मत्वाभावापत्तेरनिन्द्यादमः क्षान्तिः सर्वेषां धर्मलक्षणमित्यादिस्मृतिविरोधः स्यादित्याशङ्कयाह—किं त्विति । ननु सर्वसाधारणस्य कथमसाधारण्येन शिष्टाचारगतत्व- मुच्यते इत्याशङ्क्य, शूद्रादिभिरपि शिष्टत्वायैव धर्मबुद्ध्याचरणादसाधारण्यसिद्धिरिति परिहरति—लोके हीति । अतोऽस्ति विवेक इत्युपसंहरति—तत्रेति ।
७ ] प्रथमाध्याये तृतीयपादः ३८५ यत्वात्मतुष्टेरपि प्रामाण्यात्तेनं स्मृतेराचारप्रामाण्यप्रतिपादनपरतेत्युक्तं तत् आत्मतुष्टेरपि प्रामाण्योपपादनेन दूषयति—एतेनेति । वेदविहितकार्याचारस्य वेदमूलत्वं विनानुपपत्तेर्वेद्- मूलतयाऽऽचारप्रामाण्यप्रतिपादनेन वेदजन्यानन्तधर्मंधीसंस्कृतान्तःकरणानामात्मतुष्टेरपि वेद- मूलत्वं विनानुपपत्तेः सन्दिग्धधर्मंनिर्णयार्थत्वेन प्रामामाण्यं वेद एव प्रसिद्धमित्यर्थः । शुद्धिशब्देन निर्णयोऽभिहितः । श्लोकं विवृणोति—तथैवेति । वेदतदर्थज्ञानस्याव्यवस्थि- तत्वनिराकरणार्थं तथैवेत्युक्तम् । प्रसिद्धिं दर्शयितुमित्याश्रित्योच्यत इति । वेदवाक्यगतार्षशब्दव्याख्यानार्थं वेद एव सम्भवतीत्युक्तम् । एतदेव दृष्टान्तेनोपपाद- यति—तथा हीति । सन्दिग्धार्थनिर्णायकत्वमात्मतुष्टेर्द्रढयितुमभियुक्तसम्मतिमाह—एवं चेति । प्रसिद्धथुपपादनाय—विद्वद्वचनादित्युक्तम् । निरूपणं दर्शयितुं कालिदासवाक्य- मुदाहरति—सतां हीति । दुष्यन्तेन शकुन्तलेयं मम परिणेतुमुचिता न वेति सन्दिह्य "असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मन" इत्यात्मतुष्ट्यौचित्यं निश्चित्य कथमात्मतुष्टि- मात्रेण निश्चय इत्याशङ्क्य—सतां हीत्युक्तम् । अस्यैव वाक्यस्याभिप्रायमाह — बहुदिनेति । एवं तावच्छिष्टात्मतुष्टेर्वेद नियतमार्गानुसारित्वात्स्मृत्याचारवद्धर्मंप्रतिज्ञापकहेतुत्वमुक्तमिदानी- मात्मतुष्ट्या स्वविषयस्य कस्यचिच्छू त्याद्यविरुद्धस्य कर्मणः श्रेयःसाधनशक्तिरूपं धर्मत्व- मुत्पाद्यत इति कारकहेतुत्वमाह—यद्धेति । वचनादेवेत्यात्मनस्तुष्टिरिवेत्यत्रानुषज्यमानस्य धर्मंमूलपदस्य धर्मोत्पादकत्ववाचित्वमभिप्रेत्योक्तम्—धर्मंतेति । अथ चोपरिष्टात्तथाचारातमतुष्ट्यादिधर्ममिति तस्मै हितमित्युपकारार्थं यत्प्रत्ययदशंना- द्धर्मोपकारिता धर्महेतुतेत्यर्थः । स्वभावभिन्नानामप्येकोषधियोगादेकशक्त्याविर्भावः सम्भव- तीति दृष्टान्तेनोपपादितं यथा भिन्नानामपि देवदत्तादीनामेकपुण्यक्रियायोगाद् ध्यायमानानां श्रेयःसाधनत्वम्, तथा भिन्नानामपि कर्मणामेकशिष्टात्मतुष्टियोगात् श्रेयःसाधनत्वमित्यर्थः । तस्माच्छब्देन पुण्यकृद्ध्यानस्य श्रेयःसाधनत्वे प्रमाणं पापं ध्यात्वा पुण्यकृतोऽध्यापयेति वचनं परामृष्टम् । आचारेऽपीमं परिहारमतिदिशति—आचारेष्वपीति । आचारश्चैव साधूनामित्येनेनापि श्रुतिस्मृत्यर्थाविरुद्धं यत्किंचिच्छिष्टैः क्रियते, तत् श्रेयःसाधनमित्युच्यत इत्यर्थः । अत्रैव दृष्टान्तान्तराण्याह—यथा चेति । भिन्नानामपि मन्त्राणामुच्चारयितृयोगादोष- धीनां नकुलदंष्ट्रायोगाद्गुवां पुण्यकृद्योगाद्येकशक्त्याविर्भावो यथेत्यर्थः । दाष्ट्रान्तिके योज- यन्नुपसंहरति—तथेति । धर्मंव्यतिक्रममनुभाष्य परिहरति—यत्त्विति । प्रजापतौ तावच्छ्रहतिसामान्यं विवृणोति— प्रजापतिस्तावदिति । इन्द्रे विवृणोति — एवमिति । नहुषे श्रुतिसामान्यमात्राद्वेति वाशब्द- सूचितं सदाचारत्वाभावं विवृणोति—नहुषेण पुनरिति । सदाचारस्य प्रमाणत्वेनाभ्युप- गतस्य व्यभिचारः परिहर्त्तव्यः । नहुषाचारस्य त्वनन्तरमेवाजगरत्वप्राप्त्या सदाचारत्वा- भावनिश्चयाद्यद्यतिक्रमेऽपि धर्मबुद्ध्या क्रियमाणस्याचारस्य व्यतिक्रमाभावान्न दोष इत्या- २५
३८६ मीमांसादर्शनम् [ सू०
श्यः । परदारामियोगोक्त्या मियुज्यमानायां शच्यामपि शङ्कितं व्यतिक्रमं निराकर्तुमाह— शच्याश्चेति । वशिष्ठाचारस्यापि पुत्रशोकजनितव्यामोहनिमित्तवारुणाद्यादमंबुद्ध्या क्रिय- माणत्वाभावात्सदाचारत्वाभावनिश्चय इत्याह—वशिष्ठस्यापीति । श्लोकं व्याचष्टे - यो हीति । विश्वामित्रे तेजोबलवशेनेति परिहारं विवृणोति—तेनेति । स हि व्यामोहाभावेऽप्या- पदि मत्कुटुम्बं भृतवतस्त्रिशङ्कोः प्रत्युपकर्त्तव्यं मयेति प्रत्युपकारेच्छया चण्डालमपि वा सशरीरं स्वर्गं नयामीति स्वप्रभावख्यापनेच्छया त्रिशङ्कुद्वेषिरि वशिष्ठे द्वेषाच्च तपोबलेन पापं नाशयामीत्यध्यवसाय चण्डालं याजयामास । येन कारणेन कामादिहेतुकस्याचारस्य धर्मादर्शनं नास्ति, तेन कारणेन विश्वामित्रचरितमपि न धर्मादर्शंत्वं प्रतिपद्यत इत्येवं तेन शब्दो योज्यः । सर्वं बलवतः पथ्यमित्येतमेव न्यायं प्रकृते योजयितुमाह--महान्ति चेति । द्वैपायने गर्हानिरासार्थं यथा वा न विरुद्धत्वमिति परिहारमुपक्रम्य अपरितोषात्तेजोबलवशेन वेत्ये- तमेव परिहारं दर्शयति—द्वैपायनस्यापीति । कथं पराशरपुत्रस्य द्वैपायनस्य शन्तनुपुत्रो विचित्रवीर्यो भ्रातेत्याशङ्क्य मातृसम्बन्धवचनम् । सत्यवत्यामनूढायां पराशराद् द्वैपायनो जातः शन्तनुना पश्चादूढायां विचित्रवीर्यः । एवमपि । 'यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥' मनु० ९।६९ इति नियोगस्य वाग्दत्ताविषयत्वादम्बिकाम्बालिकयोश्च विचित्रवीर्येण परिणीतत्वाद्वा- स्याश्च भ्रातृजायात्वाभावाद् ब्रह्मचारिणश्च मंथुनस्य निषिद्धत्वादपरितोषेण प्राक्कृतेत्युक्तम् । रामभीष्मयोर्यंथा वा न विरुद्धत्वमिति परिहारं विवृणोति—रामेति । रतिपुत्रार्थत्वनिरा- साय मातृशब्दः—नन्वेवं सति । 'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति विहितातिक्रमात्प्रत्यवायः स्यादित्याशङ्क्य, स्नेह-पितृ—भक्तिवशादित्युक्तम् । रामेण सीतास्नेहाद्भार्यान्तरागमनव्रतग्रहणात्, भीष्मेण च शन्तन्वे सत्यवतीं तत्पितरं याचता त्वयि महाबले राज्याभिलाषुके तिष्ठत्येतरयाः पुत्राणां राज्यालाभान्नेमां ददामीति तत्पित्रा प्रत्याख्यातेन राज्यं नाहं करिष्यामीति प्रतिज्ञाते, त्वय्यनिच्छत्यपि त्वत्सन्तति- भयान्नैतस्याः सन्तती राज्यभागिनी स्यादिति, तत्पित्रा पुनः प्रत्याख्यातेन । अपत्यहेतोरपि च करोम्येतद्विनिश्चयम् । अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥ इति पितृभक्त्या ब्रह्मचर्यव्रतग्रहणात्रैमित्तिकेन च व्रतेन नित्यस्यर्त्तुकालगमनस्य बाधाद्धर्ममात्रार्थमहं भार्यां परिणेष्यामीति परिभाव्य परिणीतायामगमनेऽप्यदोषः इत्या-
७ ] प्रथमाध्याये तृतीयपादः ३८७ शयः । एवमप्यनपत्यत्वेन पितॄणामपाकरणात्प्रत्यवायः स्यादित्याशङ्क्य—साक्षादित्युक्तम् । साक्षादपत्याभ्यां कुशलवाभ्यां कृतपितॄणानृण्यो रामः व्यवहितैर्विचित्रवीर्यस्यापत्यैर्धृत- राष्ट्रादिभिः कृतपित्रानृण्यो भीष्मः । ननु रामस्य धर्मार्थंदारान्तरसद्भावे यज्ञे यज्ञे प्रकुरुते सीतां पत्नीं हिरण्मयीमिति । हिरण्मयसीताकरणमनर्थकं स्यादित्याशङ्क्याह—हिरण्मयोति । अपवादभीत्या त्यक्ता या तद्गतं तद्विषयं यदानृशंस्यम्-अनैष्ठुर्यम्, तदभावाशङ्कानिवृत्त्यर्थमित्यर्थः । रावणापहार- दूषितां सीतां रामो भजत इति लोकापवादभयमात्रेणासौ त्यक्ता, न सीताया दुष्टत्वात् नापि रामस्य सीतायां नैष्ठुर्यादिति द्योतयितुं लोकापवादभीति प्रति त्यागस्य नित्यसापे- क्षत्वदर्शनाय त्यक्तशब्दस्य सीताशब्देन सह सापेक्षसमासः कृतः । कथं व्यवहितापत्यकृतपित्रानृण्यता भीष्मस्येत्यपेक्षायामाह—भीष्मश्चेति । ननु तयो- र्द्धमंमात्रार्थंदारसद्भावः, क्वचिदपि पुराणेतिहासयोरनुक्तः । केवलप्रमाणेनावगम्येतेत्या- शङ्कयाह-केवलेति । अपिशब्देनापत्यहेतोरद्य प्रभृतीति च विशेषणसामर्थ्यादप्येवमवगम्यत- इति सूचितम्, ननु मोहादप्यनुष्ठानोपपत्तेर्नैकान्तोऽर्थापत्तिः संभवतीत्याशङ्क्य । श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः । तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् । कुशेष्वेव तदा पिण्डं दत्तवानविचारयन् ॥ इति भीष्मस्यात्यन्तनैपुण्यान्मोहासम्भवं दर्शयितुमाह—यो वेति । धृतराष्ट्रेऽप्येतमेव परिहारं दर्शयति—धृतराष्ट्रोऽपीति । हतेषु पुत्रेषु शोकार्तेन धृतराष्ट्रेण सकृत्पुत्रदर्शनं प्रार्थितम् । व्यासेन योगबलात्सम्पादितमित्याश्चर्यपर्वणि कथापरिहारवैभवाय प्रकारान्तरे- णाविरोधमाह—यद्वेति । नन्वेवं सति अश्वमेधशतैर्रीजे धृतराष्ट्रो महामखैरित्यश्वमेध- शब्दानुपत्तिमाशङ्क्योपचारिकत्वेनोपपादयति—ऋतुफलेति । युधिष्ठिरग्रहणेन पञ्चानामप्येकपत्नीत्वलक्षणस्य धर्मव्यतिक्रमस्य सूचितत्वात्तत्र मनुष्य- प्रतिषेधाद्धेति परिहारं दर्शयितुमाह—या चेति । प्रतिकूलतयाऽपादितागमिता निराकृतेत्यर्थः । द्वैऽऽरायणीयमुपपादनप्रकारमाह - यौवनेति । कुमारी चैव तन्वङ्गी वेदिमध्यात्समुत्थिता । श्यामा पद्मपलाशाक्षी पीनोन्नतपयोधरा ॥ १ ॥ द्रौपद्येषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्वत्यनिन्दिता ॥ २ ॥ स्वर्गस्त्रीपाण्डवार्थाय समुत्पन्ना महामखे । इत्यादिबहुप्रकारममनुष्यत्वोपपादनादविरोध इत्याशयः ।
३८८ मीमांसादर्शनम् [ सू० नन्वमनुष्यत्वात्तस्या निषेधाभावेऽपि पाण्डवानां मनुष्यकुन्तीमाद्रीयोनिजत्वेन मनुष्य- त्वान्निषेधो भविष्यतीत्याशङ्कयाह—सा चेति । लक्ष्मीश्चैषा पूर्वमेवोपदिष्टा भार्या चैषां द्रौपदी दिव्यरूप । कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यथा दैवयोगात् ॥ इति द्वैपायनेनैव तस्या स्त्रीत्वव्युत्पादनाच्छ्रिया सर्वसेव्यत्वान्ननिषेध इत्यर्थः। द्वैपाय- नीयस्य वेदिमध्योद्भूतवाद्यभिधानस्यानिषिद्धत्वायामनुष्यत्वोपपादनाथंतमभियुक्तवचनेन द्रढयितुमाह—अत एव चेति । यदि मे पतयः पञ्च वरमिच्छामि याचितुम् । कौमारमेव तत्सवं सङ्गमे सङ्गमे भवेत् ॥' इति पूर्वजन्मनि तया च पञ्चकृत्वः पतिं मे देहीति याचितेनेश्वरेण पञ्च ते पतयो भविष्यन्तीत्युक्ते पुरुषसंयोगजयोनिक्षताभावरूपं कौमारं प्रार्थितमित्यभिधानात्प्रत्यहमक्षत- योनित्वरूपं कन्यात्वं तस्याः सूचितमिति मत्वा जगाद विप्रर्षिः कृष्णद्वैपायन इत्युक्तम् । कृष्णेनापि कर्णं भेदयितुं पाण्डवास्त्वामेव मातृसम्बन्धाज्ज्येष्ठं भ्रातरं मत्वा राज्ये ऽभिषेक्ष्यन्तीत्यादिप्रलोभयित्वा 'षष्ठे च त्वामहनि द्रौपद्यागमिष्यतीत्यभिधानादमनुष्यत्वेना- निषिद्धत्वं तस्याः सूचितमित्याह—अत एव चेति । यस्त्वश्रद्दधानतयेममागमिकमपि परिहारं नानुमन्यते, तं प्रत्येकपत्नीत्वमेव पञ्चानामसिद्धमिति दर्शयंन्नन्यथा परिहार- द्वयमाह—अथ वेति । निश्छद्रत्वायापारमार्थिकोऽपि साधारणव्यवहारः पाण्डवानां नीतिशास्त्रानुसारात्सम्भवन्तीति दृष्टान्तेनोपपादयन्नाह—यथेति । रजस्वलायाः स्वयं समागमनस्यात्यन्तमसम्भवाद् दुःशासनस्य चाप्रभुत्वाद् धृतराष्ट्र एव मामानयतीति ख्यापयितुं रजस्वलावेषं कृतवतीत्यर्थः । आनयनख्यापनप्रयोजनं सपुत्रकस्येत्युक्तं दुःशासनस्यानेतृत्व- ख्यापनेनाऽयशोऽतिशयोत्पादनं चशब्देन सूचितम् । अन्याय्यानमानमिति पाठे दुःशासनो मां प्रत्यन्याय्यं करोतीत्यस्मिन्नर्थेऽन्याय्यप्रातिपदिकात्तत्करोति तदाचष्ट इति णिच्मुत्पाद्यातो लोप इत्यकारलोपे कृते, णेरनितीति णिलोपादद्रूपसिद्धिः, स्वापमानख्यापनप्रयोजनं च पाण्डवानां कोपातिशयोत्पादनं श्रीत्वदर्शनप्रयोजनं श्रीपतेर्नारायणस्यैवांशा वयमिति शत्रून्प्रति ख्यापनं परिहारवैभवमात्रार्थमस्य परिहारद्वयस्य सूचयितुमादिशब्देनानवक्लृप्त्य- मिधानं दुराचारत्वाभ्युपगमेन धर्मबुद्धानाचरणमदसङ्कर इति परिहारवैभवार्थमेव रागेति परिहारान्तरं दत्तम् । युधिष्ठिरस्याचार्यब्राह्मणवधार्थनृतभाषणे रागादिकृतत्वमेव परिहार इति प्रायश्चित्त- करणेव दर्शयति—तथा चेति । ननु 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयत इति स्मृतेः कामकृते प्रायश्चितं नास्तीत्याशङ्क्य कामकृतेऽप्येक' इति स्मृतिरुदाहृता । अन्तेऽपीत्यपि- शब्देनास्य दुराचारत्वेनापि युद्धान्ते प्रायश्चित्तकरणान्नातिगर्हणीयो युधिष्ठिर इत्युक्तम् ।
७ ] प्रथमाध्याये तृतीयपादः ३८९ कृष्णार्जुनयोर्मद्यपानमातुलदुहितृपरिणयने यथा वा न विरुद्धत्वमित्येतं परिहारमाह— यस्त्विति । ननु' सर्वा न पेया ब्रह्मवादिभिरि'ति वेदाध्ययनयोगात्त्रैवर्णिकमात्रस्य त्रिविधसुरा- निषेधावधारणेन ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदिति सामान्यशब्दस्यापि त्रिविधसु- राविषयत्वनिश्चयान्न 'सुरा वै मलमन्नानामि'ति वाक्यशेषानुरोधेन पैष्टीमात्रविषयत्वं युक्त- मित्याशङ्कयाह—मधुसीधुनोस्त्विति । सीधुः = गोडी । त्रिविधसुराव्यतिरिक्तताडादि- प्रभवमद्यमात्रनिषेधो गौतमीये । यथा केवलब्राह्मणविषयः तथा मानवीयोऽपि त्रिविधसुरा- निषेधो ब्रह्मवादिशब्दस्य ब्राह्मणमात्रविषयत्वात्केवलब्राह्मणविषय इत्यर्थं । कोऽसौ मानवीयो निषेधः केवलब्राह्मणविषय इत्यपेक्षायामाह—यदपीति । एतदपि मनुवचनं गौतमवचनव- त्केवलब्राह्मणविषयमिति विपरिणमत्तानुषक्तेन पूर्वेण समापनीयं कथमस्य केवलब्राह्मण- विषयतेत्यपेक्षायामाह - ब्रह्मेति । ननु ब्रह्मवचनशीलत्वादेरपि त्रिष्वपि वर्णेषूपपत्तेस्तन्नि- मित्तत्वेऽपि कथं ब्राह्मणमात्रविषयतेत्याशङ्कयाह - प्रवचनेति । वदतेरुच्चारणमात्रार्थत्वे त्रयाणामपि तच्छीलत्वादिसम्भवात्ताच्छील्यादिवचनस्य णिनेरविशेषकत्वेनानर्थक्यापत्तेः । शूद्रनिवृत्तेश्च कर्तृमात्रवचनतृजादिप्रत्ययप्रयोगमात्रेण सिद्धेः । प्रवचनार्थे वदत्याश्रवणेन यस्यैव प्रवचनम् अध्यापनमस्ति, स एवाध्यापनरूपब्रह्मवदनप्रवृत्तिस्वभावत्वात् ब्रह्मवदनशीलस्त- स्यैवाध्यापनं स्वधर्म इति, ब्रह्मवदनधर्मा स एवाभ्यासवसेनास्खलिताध्यापनशक्तत्वाद् ब्रह्म- वदनसाधुकारी वा ब्रह्मवादिशब्देन विवक्षितो भवतीत्यर्थः । कथं वदतेः प्रवचनार्थतेत्या- शङ्क्य ब्रूञ्वदत्योः - एकार्थत्वादित्युक्तम् । प्रवचनमपि वर्णत्रयसाधारणं कस्मान्न भवती- त्याशङ्क्य प्रब्रूयाद् ब्राह्मणस्तेषां नेतराविति निश्चय इति स्मृतिरुपन्यस्ता उपसंहरति -- तस्मादिति । केवलब्राह्मणविषयत्वमेवास्य वचनान्तरे ब्राह्मणग्रहणेन द्रढयति - तथा चेति । न तु पैष्टीनिषेधस्य वर्णत्रयविषयत्वाभ्युपगमाद्यथैवैका तथा सर्वेति सुरामात्रनिषेधस्य वर्णत्रय- विषयत्वप्रतीतेर्न केवलब्राह्मणविषयत्वं युक्तमित्याशङ्क्यैतद्वचनं ब्राह्मणविषयत्वे योजयति -- तस्मादिति । ननु मद्यान्तरनिषेधस्यापि ब्राह्मणमात्रविषयत्वशङ्कानिवृत्त्यर्थं पदद्वयमप्यर्थ- वद्भविव्यतीत्याशङ्क्य पूर्वोदाहृतेन मानवीयेनैव श्लोकेनतच्छङ्कानिवृत्तेरानर्थक्यं समर्थयते—श्लोकान्तरेति । नन्वेवमपि कृष्णार्जुनयोः क्षत्रियत्वात्पैष्टीपानं विरुद्धमे- वेत्याशङ्कय तयोर्माध्वीपानस्मरणान्न पैष्टीपानशङ्कास्तीति परिहरति—तेनेति । केशवा- र्जुनयोर्मध्वासवपानस्याविरुद्धत्वमेव द्रढयितुं वेदवाक्यमुपन्यस्यति—तथा चेति । क्षत्रियस्य मधुसीधुनिषेधाभावेनाभ्यनुज्ञानर्थक्यादन्यार्थदर्शनमेवदम् । अथापि केनचित्सामान्यवचनेन क्षत्रियेऽपि निषेधः प्रसज्येत' तथाप्यनेनानुज्ञातत्वाददोषः इति वाशब्देन सूचितम् । सत्यपि तु निषेधे प्रतिषिद्धाभ्यनुज्ञायाः विकल्पापादकत्वेन दुष्टत्वान्नायं पक्षविकल्पार्थो वाशब्दः । ननु 'नैव सुरा पीता हिनस्ती, ति सामान्यभिधानात्पैष्टीपानमपि क्षत्रियस्याविरुद्धं स्यादित्याशङ्कयाह—मध्विति । सुरा वै मलमन्नानामिति मनुना पैष्टया वर्णत्रये निषेधा- दस्याश्च श्रुतेरन्यार्थदर्शनमात्रत्वादित्याशयः ।
३९० मीमांसादर्शनम् [ सू० मातुलदुहितृपरिणयने विरोधाभावमनुभाषणपूर्वकं दर्शयति-यत्त्विति । अयमाशयः- नार्जुनमातुलस्य वसुदेवस्यात्मजा सुभद्रेति क्वचिदाख्यायते, किंत्वनुजा वासुदेवस्य सुभद्रा वरवर्णिनीत्यादिव्यवहारदर्शनात्कल्प्यं स त्वन्यथाप्युपपत्तेर्नैकान्ततः सुभद्राया वसुदेवात्मजत्वं कल्पयितुं शक्नोतीति । एतदेव विवृणोति - यद्यपीति । ननु बलदेवस्य रोहिणीसुतत्वाद्वासुदेवस्य च देवकीसुतत्वादेकानंशायाश्च यशोदाकन्यात्वान्नत्रयाणामपि निजत्वं नास्तीत्याशङ्क्योत्पत्तावित्युक्तम् । 'सप्तमो देवकीगर्भो योंऽशः सोऽन्यो ममाग्रजः । स संक्रामयितव्यस्ते प्रथमे मासि रोहिणीम् ॥ इति देवकीगर्भसम्भूतस्यैव बलदेवस्य रोहिणीगर्भसङ्कर्षणे निद्रया विष्णुना प्रेरित- त्वात्तया च तथाकृतत्वादेकानंशायाश्च । अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति । या तु सा नन्दगोपस्य दयिता कंसगोपतेः ॥ यशोदा नाम भद्रं ते भार्यागोपकुलोद्भवा । तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि ॥ इति यशोदागर्भसम्भूताया अप्येकानंशाख्याया निद्रया नवसंख्यापूरणेन विष्णुनेव निजत्वान्वाख्यानाद्देवक्या अपि दारिका मम जातेति कंसं प्रोवाच देवकीति स्वगर्भसम्भूतत्वा- न्वाख्यानानिजत्वमित्याशयः । सुभद्रा तु यद्यपि रोहिणीदुहितृत्वेनान्वाख्यायते, तथापि वसुदेवात्मजातत्वे तद्भागिनेयस्यार्जुनस्य परिणयनविरोधाद्वासुदेवस्य सापत्समातू रोहिण्याः स्वसुः सुभद्रा दुहिता रोहिण्या एव वा पितृष्वस्त्रीयाया लाटादिषु भगिनीशब्दामिलप्यत्वेन प्रसिद्धा या दुहिता तत्सपत्नोसुतस्य वासुदेवस्य भगिनीति व्यपदिश्यत इति यथासम्भवं व्यवधानं कल्पनीयमित्यर्थः । न त्वर्जुनमातुः पृथाया वसुदेवभगिन्याः पित्रा शूरेण कुन्ती- भोजाय दुहितृत्वेन दत्तत्वात्पिण्डगोत्रे जनयितुनं भजेद्कृत्रिमः क्वचिदितिवचनात्सापिण्ड्य- निवृत्तेर्वसुदेवाङ्गजाताया अपि सुभद्रायाः पृथात्मजस्यार्जुनस्य परिणयनविरोधपरिहार- सम्भवाद्व्यवधानकल्पनमनर्थकमित्याशङ्कयाह - वसुदेवेति । कुन्तीभोजदुहितृत्वनिमित्तः पृथायां कुन्तीव्यपदेशः यद्यप्यर्जुनः कुन्तीभोजदत्तायाः पुत्रः तथापि 'ऊर्द्धं सप्तमात्पितृबन्धुभ्यो बीजिनश्चेति निषेधाद्वसुदेवाङ्गजातस्यापरिणेयेत्याशयः । ननु विरुद्धोऽप्ययमाचारो वासुदेवेनार्जुनप्रीत्या प्रवर्त्तित इत्यपि परिहारोपपत्तेरनुक्तव्यवधानकल्पना न युक्तेत्या- शङ्कयाह - येन हीति । एतमेव विरोधपरिहारन्यायं रुक्मिणीपरिणयनेऽप्यतिदिशति - एतेनेति । अद्यतना- चाराणामपि श्रुतिस्मृतिविरोधाविरोधाभ्यां प्रामाण्याप्रामाण्यव्यवस्थासिद्धेरसङ्कर इति परिहारं वक्तुमनुभाषणं तावत्करोति-यत्त्विति । परसतेन परिहारान्तरमुपन्यस्य दूषयितुमाह - तत्रेति । विरुद्धानामप्याचाराणां देशव्यवस्थया प्रामाण्यमिति परिहान्तर-
७ ] प्रथमाध्याये तृतीयपादः ३९१ मुपन्यस्यति—अन्ये त्विति । आपस्तम्बवचनं प्रपञ्चयति—येषामिति । (एतदेव परिहारं मनुवचनेन द्रढयन्नाह—तथेति ।) एतमपि परिहारं देशाचारकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणमिति गौतमवचनबलेन—निराकरोति । ननु चेति एतत् परिहारवादी स्वाभिप्रायमाशङ्कते—आहेति । निराकरोति—न त्विति । प्रयोगं दर्शयति—स्मार्त्तैति । एतदेव व्याचष्टे—ग्रन्थेति । मन्वादयो ये ग्रन्थ- काराः तद्गतायाः स्मृतेर्मूलाद्यो मन्वादिकृतो ग्रन्थ आम्नायशब्दवाच्यः, स स्मृतिग्रन्था- ध्यायिनां तस्या एव मन्वादिगताया एव स्मृतेः ग्रन्थमूलत्वेनानुमेयाया धारणार्थत्वेनोक्त इत्यर्थः । अनेन च य आम्नायः, स स्मृतिधारक इति शङ्खलिखितवाक्यस्य वचनव्यक्ति- र्दर्शिता । ततश्चार्थायः स्मृतिधारको ग्रन्थः, स आम्नाय इत्युक्तं भवति । यद्वा यः स्मृतिधारकः, स आम्नाय इति वचनव्यक्त्या स्मृतिधारणार्थत्वेन य आम्नाय स किं गतायाः स्मृतेः; किं रूपः; केषां चेत्यपेक्षिते—ग्रन्थकारेत्याद्युक्तम् । अविभक्तिकाम्नायशब्दपाठे त्वाम्नायेन स्मृतिधारको ग्रन्थ इत्युक्ते किं गतायाः स्मृतेः; को ग्रन्थः; केषां चेत्याकाङ्क्षानिवृत्त्यर्थत्वेनैतद्व्याख्येयं स्मार्त्तधर्माधिकारादल्पाच्तरत्वेन घ्यन्तत्वेन च स्मृतिशब्दस्य पूर्वनिपातोपपत्तेर्न द्वन्द्वसमासाशङ्का । स्वमतमुपसंहरति—ततश्चेति । नन्वापस्तम्बवचनस्य तर्हि का गतिरित्याशङ्कयाह— आपस्तम्बेति । पञ्चधा विप्रतिपत्तिर्दक्षिणतोऽनुप्रतीतेन मार्यया च सैह भोजनम्, पर्युषित- भोजनमुच्छिष्टभोजनम्, पितृष्वस्तृमातुलदुहितृपरिणयनमिति । तथोत्तरतः पञ्चधा-ऊर्णा- विक्रयः, सीधुपानमुभयतो दद्भिर्व्यवहार, आयुधीयकम्, समुद्रयानमितीति बौधायनेन स्मृतिविरुद्धदृष्टाचारोदाहरणानि दत्वेतर इतरस्मिन्कुर्वन्दूष्यति नेतरस्मिन्देशप्रामाण्य- व्यवस्थया प्रामाण्यमापस्तम्बेनोपन्यस्यति—मिथ्यैतदिति । गौतम उभयन्त्वेतन्नाद्रियते शिष्टस्मृतिविरोधादिति निराकृतत्वादापस्तम्बस्यापि मन्वादिवद्धर्मशास्त्रप्रवक्तृतया याज्ञ- वल्क्येन स्मरणात्तद्वचनस्य मिथ्यात्वायोगाेऽपि गर्हानिराकरणमात्रपरतया तद्व्याख्येयमित्या- शयः । मनुवचनं तु तेन यायात्सतां मार्गमिति विशेषणादविरुद्धकुलधर्मविषयत्वेना- विरुद्धम्, ननु विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वं विना कथं प्रवृत्तिरित्या- शङ्कयाह—दृष्टेति । पुंस्त्वस्य विवक्षिताशंकासमाधाने ननूपादेयगतत्वेन सुरापाननिषेधे पुंस्त्वस्य विवक्षितत्वान्न ब्राह्मणानां निषिद्धमित्या- शङ्कते—आहेति । अनुवादगतत्वेनाविवक्षामभिप्रेत्य परिहरति—उच्यत इति । आशङ्कित- स्वाभिप्रायमाह—नन्विति । पाश्र्वंस्थो हननप्रतिषेधेऽपि भूतभाव्युपयोगित्वाभावेना- संस्कार्यत्वाद् ब्राह्मणस्यानुपादेयपञ्चकव्यतिरिक्तत्वेनानुद्देश्यत्वमभिप्रेत्यातिप्रसङ्गद्वयमापा- दयति—उच्यत इति । एकत्वविवक्षाप्रसङ्गे को दोष इत्यपेक्षायामाह—अहत्वेति । पूर्वं- वच्छब्देन निषेधानतिक्रमलक्षणकृतार्थतोक्ता । आशङ्किता द्वितीयातिप्रसङ्गतं दोषं
३९२ मीमांसादर्शनम् [ सू० तावत्परिहरति—आहेति । यद्यपि जातेर्वधपानायोग्यत्वेन ब्राह्मणशब्दस्य व्यक्तिपरत्वात्तद्- गतमेकत्वमत्रोच्यते, तथाप्येकैकस्या एव व्यक्तेर्वधपानप्रसक्तेर्बहुवधपानेऽपि प्रत्येकमेकत्व- सम्बन्धान्निषेधातिक्रमापरिहारान्निषेधानतिक्रमलक्षणकृतार्थत्वदोषो नास्ति स्वपक्षे तूपा- देयार्थत्वेन ब्राह्मणशब्दस्य प्रकृतव्यक्तिविशेषाभावेन जातिपरत्वात्तस्यां चैकत्वसंख्यासम्भव- लक्षणाकारणाभावाद् बहुवधपानेऽप्येकत्वानपायात्कृतार्थत्वलक्षणो दोषः परिहार्य एवे- त्यर्थः । बहुवधपानेऽपि प्रत्येकं व्यक्तेरेकत्वसम्बन्धाज्जातेरैकत्वसम्बन्धादेकत्वविवक्षागतं यद- नैकवधपाने निषेधानतिक्रमापत्तिलक्षणं दूषणमुच्यते; तन्न दूषणमिति योज्यम् । एतदेव विवृणोति—एकैकस्या एव हीति । व्यक्तिविशेषणत्वेन विवक्षितुमारभ्यमाण- मप्येकत्वं नित्यप्राप्तत्वेनानुद्यमानत्वापत्तेः प्रतिषेध्यायां वधपानक्रियायामव्यभिचाराद्विशेष- णत्वासम्भवेन प्रतिषेधेऽपि विशेषणत्वासम्भवान्निष्फल्यापत्तेर्न विवक्ष्यते । जातौ तु व्यावर्त्य- संख्यान्तराभावात्तद्विशेषकत्वेन विवक्षाशङ्कैव नास्तीत्यर्थः । प्रथममतिप्रसङ्गं वैषम्योप- पादनेन परिहरति—आहेति । पुंस्त्वविवक्षातिप्रसङ्गेऽपि स एव शङ्किता परिहारमाहेत्या- हशब्दो योज्यः । वधनिषेधे ब्राह्मणस्यानुपादेयपञ्चकव्यतिरेकेऽपि, तव्यद्वितीयाभ्यां कर्मत्व- निर्देशाच्छब्दवृत्तेनार्होद्देश्यत्वमुपपादयितुम्-कर्मभूतस्येत्युक्तम् । सुरापाननिषेधे च ब्राह्मणस्य प्रत्यवायव्यावृत्त्याऽनुग्राह्यत्वात् स्वर्गकामादिवदुद्देश्यत्वेऽपि निषेध्ये सुरापाने प्रथमातृतीया- भ्यां कर्तृत्वनिर्देशेनोपादेयत्वं वक्तुम्—सुरापाने चेत्युक्तम् । यथा स्वर्गकामस्य यागविधौ उद्देश्यत्वाल्लिङ्गाविवक्षा, औदुम्बरीसंमाने यजमानस्योपादेयत्वाद्विवक्षा तथेहापीत्यर्थः । वधनिषेधे ब्राह्मणस्योद्देश्यत्वेनाऽविवक्षितलिङ्गत्वं प्रकटयति—तथा हीति । यस्माद् ब्राह्मण- मुद्दिश्य हननस्य प्रतिषेधः तस्माद् ब्राह्मणे लिङ्गं न विधीयते, अन्यत्वेनार्थान्तरत्वेनावृत्ति- प्रसङ्गादित्याशयः । यस्माद् ब्राह्मणहननमिति चोपरिष्टाद् वधोद्देश्यस्यापि वक्ष्यमाणत्वा- त्तस्मिन्पक्षे यस्माद्धननमुद्दिश्य तस्य प्रतिषेधः तस्माद्धनने कर्मण्युत्पन्नेन प्रतिषेधशब्देनोद्देश्ये लिङ्गं न विधीयत इति योज्यम् । हननमितिपाठे हननं प्रतिषेधतो वाक्यस्य न लिङ्गं विधेयमित्यर्थः । यद्वा यो ब्राह्मण इति, यच्छब्दं नपुंसकलिङ्गत्वेन विपरिणतमनुषज्य यद्धननमित्युक्ते तत्प्रतिषेधतो वाक्यस्येति योज्यम् । सर्वत्र लिङः प्रवर्तनावाचित्वमतोपन्यासः ये तु प्रवर्त्तनावाचित्वेन क्लृप्तशक्तिकस्य लिङो नञश्चाभाववाचित्वेन क्लृप्तशक्तिकस्य निवर्त्तनावाचित्वायोगान्निषेधाधिकारेऽपि नञर्थस्य प्रागभावरूपस्य सिद्धत्वेऽपि रागाद्युपजनने विनाश्योत्पत्तौ तत्परिपालनस्य प्रयत्नापाद्यत्वेन विधेयत्वोपपत्तेः प्रवर्त्तनैव लिङर्थ इत्येतन्म- तामिप्रायमेतत् श्लोकं व्याचक्षते ।
७ ] प्रथमाध्याये तृतीयपादः ३९३ तन्मतेनैवं योज्यं यो ब्राह्मण इति ब्राह्मणमुद्दिश्य पूर्ववच्च ब्राह्मणोद्देशाभिधानस्योप- लक्षणार्थत्वाद् वधं चोद्दिश्य यो ब्राह्मणहननाभावस्तं कुर्यादिति च वचनव्यक्त्यन्तरस्यापि सम्भवाद् ब्राह्मणवधाभावं चोद्दिश्य हननस्य प्रतिषेधादभावादन्यल्लिङ्गं ब्राह्मणे प्रतिषेध- शब्दवाच्ये वाऽभावे वा शब्दाद् वधे वा न विधीयत इति । हननमिति पाठे प्रतिषेधत इति प्रथमार्थे तमङ्गीकृत्य यो ब्राह्मणो यद्धननम्, यः प्रतिषेध इत्युक्ते ब्राह्मणतद्गधतदभावानामु- द्देश्यत्वात्तद्विशेषणं लिङ्गमन्त्यत्वापत्तेर्न विधीयत इति योज्यम् । परिपालनीयत्वरूपेण च विधेयस्याप्यभावस्य स्वरूपेणोद्देश्यत्वमविरुद्धम् । ननु वधोद्देश्यपक्षे ब्राह्मणस्याप्युद्देश्यविशेषणाविवक्षायामविवक्षा प्रसज्येतेत्याशङ्कां निराकुर्वन् श्लोकं व्याचष्टे—प्रतिषेधेति । नान्तरिक्षे न दिवीत्यादिवन्निषेधानुवादाशङ्का- निराकरणार्थो विधिशब्दः, निर्विषयवधाप्रसक्तेर्मृञ्चामहे हविषा विशेषणमित्येनेन न्यायेनो- द्देश्यान्तर्गत्यङ्गीकारेण ब्राह्मण्यविवक्षा युक्तेत्याशयः । सकृच्छ्रुतप्रत्ययस्यानेकार्थविधिपर- त्वायोगात्निर्विषयस्य च लिङ्गस्य विधातुमशक्यत्वाद्यो ब्राह्मणः तं न हन्यात्तं च ब्राह्मण- युग्मं स मेति ब्राह्मणलिङ्गविधौ ब्राह्मणपदप्रत्ययोरावृत्तिः, यद् ब्राह्मणहननं तन्न कुर्यात्तं च पुंसो हननमिति वधलिङ्गविधौ हन्तिप्रत्यययोरावृत्तिरिति विवेकः । प्रतिषेधशब्दोऽपि कर्मव्युत्पत्त्या वधपर एव प्रतिषेधे वध इत्यर्थः । अविभक्तिकवधशब्दपाठे वधश्चासौ प्रतिषेधश्चेति कर्मधारयावृत्तिग्रहणमुपलक्षणार्थम् । द्वितीयव्याख्याने तु प्रतिषेधविधिपरो हि प्रतिषेधशब्देनाभावोऽभिप्रेतः । शुद्धवधा- सम्भवात्तद्विशेषणब्राह्मण्यविवक्षाप्रतियोगिनिरूपणाधीनत्वेन शुद्धस्याभावाख्यस्य प्रतिषेध- स्यासम्भवात्तद्विशेषणवधविवक्षाप्रतिषेधे वेति यो ब्राह्मणहननाभावः तं कुर्यात्तं च पुंसोऽ- भावमित्यभावलिङ्गविधौ नञ्प्रत्यययोरावृत्तिरुक्ता एवं तावन्नञुपहितस्य लिङो निषेधकत्वे प्रवर्त्तनाप्रतीत्यभावेन तदाक्षिप्तसाध्याभावाद् ब्राह्मणस्यानुपयोगित्वेनासंस्कार्यत्वादनुपादेय- पञ्चकव्यतिरेकेण वास्तवोद्देश्यत्वाभावेऽपि शब्दवृत्तेनोद्देश्यत्वादविवक्षितलिङ्गतोक्ता । यदा तु नञ्मात्रेण निषेधसिद्धेर्द्वेषप्रचयंप्राप्तप्रवर्त्तनानुवादार्थत्वं लिङोऽङ्गीक्रियते, तदा प्रवर्त्तनाक्षिप्तवैरनियतनिादिसाध्यसिद्ध्युपयोगिहननसंस्कार्यत्वोपपत्तेर्वस्तुतोऽप्युद्देश्यत्वासुतरां लिङ्गाविवक्षेत्याह—येषां त्विति । प्रवर्त्तनात्मकनिषेधवचनत्वासम्भवप्रतिपादनार्थम्— अत्यन्तभिन्नावित्युक्तम् । वाक्यार्थभावनाविषयत्वेन विधिवन्निषेधस्यापि सर्वपदार्थान्प्रति प्राधान्यात्तद्वाचिनो नञोऽपि प्रत्ययानुग्राह्यत्वोपपादनायोपचाराद्वाक्यार्थावित्युकम् । नानाख्याताथैस्यापि प्राधान्ये वाक्यार्थव्यवस्था स्यादित्याशङ्क्य भावनैव सर्वपदार्थानुर- ञ्जनसहत्वात्सर्वत्र वस्तुतो वाक्यार्थः तद्विषयत्वेन तूपचाराद्विधिनिषेधयोर्वाक्यार्थत्वम्, न चान्यस्य भावनाविषयतास्तीति सूचयितुम्—द्वावेवेत्युक्तम् । तेषां मते श्रूयमाणमपि लिङ्गं प्रतिषेधं प्रत्यनुपयुज्यमानत्वात्तेनापरिगृहीतत्वादविवक्षितमित्यन्वयः । तदुपपादनार्थम्— नञ्स्थित्याद्युक्तम् । पूर्वमतापेक्षयास्मिन्मते विध्यर्थनिषेधाधिक्याल्लिङ्गनिषेधे गौरवातिशय- द्योतनार्थो विध्यर्थमपीत्यपि शब्दः । ब्राह्मणविशिष्टेन हननेन विशिष्टं विध्यर्थं प्रतिषिध्य
३९४ मीमांसादर्शनम् [ सू० चरितार्थत्वान्न लिङ्गं ब्राह्मणे वधे विधी वा कर्त्तव्यतारूपे नञि निषेद्धुं शक्नोति यद्ब्राह्मणं हन्यात्तं च ब्राह्मणं पुमांसं नेति नञ्ब्राह्मणपदयोरावृत्त्यापत्तेः । ब्राह्मणं न हन्यादित्यत्र च ब्राह्मणहननं न कुर्यादित्येव विगृह्याऽर्थप्रतीतेस्तच्च पुंसो हननं नेति वधे लिङ्गनिषेधेन नञ्हन्त्योरावृत्त्यापत्तेः । विधौ च लिङ्गनिषेधे तच्च पुंसः कर्त्तव्यं नेति नञ्प्रत्यययोरा- वृत्त्यापत्तेरित्यर्थः । ननु विशिष्टविधिवद्विशिष्टनिषेधेनापि विशेषणानामर्थाक्षेपोपपत्तेर्नोच्चारणावृत्त्यापत्ति- रित्याशङ्क्य - अनूदितमित्युक्तम् । विधेयस्य यागादेरन्यतो सिद्धस्यापि विधितः स्वरूपा- वधारणसम्भवेन स्वरूपानुवादानपेक्षत्वात्पश्वेकत्वाधिकरणन्यायेन विशेषणविवक्षा युक्ता । निषेध्यस्य स्वन्यतो सिद्धौ निर्विषयनिषेधायोगेनानुवादापेक्षावश्यम्भावादग्रहाधिकरणन्यायेन विशेषणाविवक्षेति भावः । नन्वेवं सति ब्राह्मणहननयोरप्यविवक्षा स्यादित्याशङ्क्य- पूर्वोक्तेत्युक्तम् । सर्वव्यवहारनिरोधापादकत्वे कर्त्तव्यमात्रस्य निषेध्यत्वायोगाद् वधस्य च निर्विषयस्याप्रसक्तेः प्रतिषेध्यत्वासम्भवस्य पूर्वमेवोक्तत्वात् ब्राह्मणविशिष्टस्यैव विध्यर्थ- स्योद्देश्यत्वेनोभयोरपि ब्राह्मणहननयोरुद्देश्यान्तर्भावात्(यस्योभयं हविरार्त्तिमार्च्छतीत्यत्र यस्य कस्यचिदार्त्तौ सत्यां निर्विषयकनिमित्तकयागस्याप्राप्तेः हविःशब्दस्य विवक्षा । तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्, तद्विधाने वाक्यभेदापत्तेः । तस्मादुभयशब्द- स्याविवक्षेति हविरार्त्त्यधिकरणराद्धान्तः १) हविवद्विवक्षा युक्तेत्याशयः । विध्यभावाद् वधकर्त्तव्यत्वस्याप्राप्तेरनुवादासम्भवमाशङ्क्य-द्वेषादीत्युक्तम् । नन्वाख्यातयोगित्वेनास्य नञो नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनाथत्वं न युक्तमित्याशङ्क्य-प्रत्ययेत्युक्तम् । 'य एवं विद्वान्पौर्णमासीं यजत, इत्यादावनुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्ण- मास्यादिशब्दस्य यागवाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नञोऽर्थान्तरवाचित्वेनानुप- पन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नञ्युक्तेष्वपि वाक्येषु नञो विषयसमर्पकत्वा- त्प्रवर्त्तनाथं एव लिङादिरित्येन्मताश्रयेन पूर्वग्रन्थो व्याख्यायते, तदा येषां त्विति ग्रन्थस्य तन्निराकरणार्थत्वाद्व्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि वाक्यार्थरूपा भावना विषय एव, न तु धात्वर्थस्यैव विषार्थिणोति-वाक्यार्थशब्देनोक्तम् । अत्यन्तभिन्नावित्यनेनैकत्वनिराकरणार्थं विपरीतस्वभावतोक्ता । तथा हि- फल-बुद्धि-प्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद् भेदो विधिनिषेधयोः ॥ १ विधिरिष्टफलोऽनिष्टपरिहारफलो परः । प्रेरितोऽस्मीति धीः पूर्वे, वारितोऽस्मीति चापरे ॥ २ विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते । निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता ॥ ३ १. अयं पाठ सर्वत्र नास्ति ।
७ ] प्रथमाध्याये तृतीयपादः ३९५ विधिश्चाधिकरोत्यन्यत्कारणेनाप्रवर्त्तितम् । रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ ४ नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् । लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ ५ एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम्— अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः ॥ ६ दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति । शेषं समानम् । अस्मिन्नेव पक्षे स्पष्टीकरणार्थं वचनव्यक्तिमाह—एषा हीति । तव्ययुक्तवाक्यान्तरा- भिप प्रायो वचनव्यक्त्यन्तरोपन्यासः । पूर्वस्मिन्पक्षे कीदृशी वचनव्यक्तिरित्यपेक्षायामाह— विध्येकत्वे पक्षे पुनरिति । विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभावान्नञा सहैकीकृतत्य तत्सहितस्य निषेधपरत्वं युक्तम् । द्वितीये व्याख्याने तु विधिरेवैकः सर्वत्र, न क्वचिन्नि- षेधोऽस्तीति विध्येकत्वमेकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु- मशक्यत्वेऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् । शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोद्देशः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादि- निषेधानुवादशङ्कानिराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावोऽभिप्रेतः । न कुर्यादिति चाख्यातयोगिनो नञोऽभाववचनत्वादभावं कुर्यादित्यर्थः । न हन्यादित्यक्ते प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्तं वा प्रागभावपरिपालनं विधीयते यो ब्राह्मणहननाभावस्तं कुर्यात्, पालयेदित्यपि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन- व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति—सर्वथेति । सुरापाने वैषम्यमाह—ब्राह्मण इति । व्यतिरेकोपपादनायं कत्रेत्युक्तम् । ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्राख्यातप्रत्ययो- पात्तक्रियागुणभूतत्वेनोपादीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे- षणत्वेनोपादानान्न पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वेनोपादीयमानत्वप्रतीतेरित्यर्थः । श्रुतावपीमं न्यायमतिदिशति—तस्मादिति । पार्श्वस्थापादितमतिप्रसङ्गद्वयं परिहृत्य ब्राह्मणानां सुरापानप्रतिषेधाभावशङ्कामुपसंहरति-अतश्चेति । सुरापाने ब्राह्मणस्यानुद्देश्यत्वेऽ- प्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति—नैतदिति । नन्वनुवाद्यत्वेऽप्युपादेयत्वाद्विशेषण- विवक्षा भविष्यतीत्याशङ्कयाह—नोपादेयत्वमिति । उद्देश्यविशेषणविवक्षायां वाक्यभेदा- पत्तेस्तत्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वेऽप्यविधेयविशेषणस्य विधिना स्प्रष्टुम- शक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रमन्वारम्भणादौ प्रकरणप्राप्तस्यापि यजमानस्य कर्तृत्वेन विधानाद्विशेषणविवक्षा युक्तेति भावः । नन्वनुवाद्यत्वेऽपि ब्राह्मणस्य क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्वविशेषणविशिष्टब्राह्मणविशिष्ट- क्रियानुवादेऽपि यत्पुमान् ब्राह्मणः सुरां पिवेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदा- भावादेकक्रियावशीकारेण चारुणैकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्यपरि-
३९६ मीमांसादर्शनम् [ सू० समासिकलक्षणस्यापि वाक्यभेदस्याभावात्किमिति विशेषणाविवक्षेत्याशङ्क्याह-अनूद्यमान इति । न केवलं प्राधान्येनानूद्यमानस्य प्राप्यपेक्षत्वम्, किन्त्वनुवाद्यविशेषणत्वेनाप्यनूद्य- मानस्येति सर्वशब्देन सूचितम् । तत्रानुवादस्य प्राप्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य स्त्रीपुंसकत्तृकत्वेन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकाङ्क्षितत्वाद्विधेयेऽप्येककर्त्तृकपानाप्रस- क्तेरनुवाद्यपानविशेषणत्वेनाज्ञातज्ञाप्येभ्यो ब्राह्मणादिभ्योऽन्यल्लिङ्गं न विधीयते । नानुवाद्य- विशेषणत्वेनाज्ञातं ज्ञाप्यत इत्यर्थः । नन्वप्राप्तनिषेधायोगान्निषेध्यप्राप्त्यर्थं 'ब्राह्मणः सुरां पिवेदित्यवान्तरवाक्यार्थपर्यवसान- वेलायां विधेयविशेषणत्वेन लिङ्गादिविवक्षा प्रसक्ता पश्चान्निषेधान्वयेऽपि न केनचिद् बाध्यत इत्याशङ्कते तावत्-यदि हीति । तत्र किमप्राप्तस्य पानस्य निषेधायोगादन्यतश्चा- प्राप्तैरर्थाद्विधेयत्वं कल्प्यते 'किं वा वाक्यस्वरसादेव विधिपरत्वं प्रतीयते इति विकल्प्य आद्यं तावत्पक्षं दूषयति-यत्तस्त्विति । द्वितीयं दूषयति-प्रतिषेधेति । यदा च पानं न विधीयते, तदा तत्र ब्राह्मणादेः सत्यपि गुणवादेऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह- तेनेति । भेदवादिमते नाद्यवचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व- वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधीयमानेनेति कर्मव्युत्पन्नस्य विधिशब्दस्य प्रतिषेधशब्देन सह कर्मधारयः । द्वितीयव्याख्याने प्रतिषेधस्याभावस्य विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकं पानं लोके न प्राप्नुयात् ततस्तन्न निषेध्येत, न त्वेतदस्तीत्याह-लोके चेति । एवमनूद्यमानः सर्वो हीति पूर्वार्द्धोक्तमर्थं प्रकृते योजयित्वा, तत्रानाकाङ्क्षितमित्युत्तरार्द्धं योजयति-न चेति । नन्वेवं तर्हि यो ब्राह्मणः पिवेत्स पुमानिति ब्राह्मपदोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्तलिङ्ग- सम्बन्ध एव केवलो विधीयतामत आह-न चास्येति । निषिद्धश्रुतिवैय्यर्थ्यापत्तेरिति भावः । उपसंहरति-ततश्चेति । प्रासङ्गिकाशङ्काशेषनिराकरणावताराय-उभयत्रापीत्युक्तम् । ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवधेऽपि ब्रह्महत्यापत्तेर्महापातकनिमित्तकर्म- हान्यादिप्रसङ्गः स्यादित्याशङ्काक्षेपमाह-नन्विति । अत्र कुशावस्था अस्तीत्यात्रेयी गर्भिणी । अभ्युपगमेनैव परिहरति-ब्राह्मणेति । न च महापातकत्वे प्रायश्चित्ताल्पत्वं विरुद्धयते, पुंब्राह्मणवधेऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह-न चेति । उपसंहरति- तस्मादिति । सुरापानस्य तु स्त्रीकर्त्तृकस्यापि प्रायश्चित्तान्तरानाम्नानान्निःसन्दिग्धं महापात- कमित्यहिच्छत्रब्राह्मणीसुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह-सुरापाने पुनरिति । नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्तरनिवासिब्राह्मणी- विषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्याशङ्क्याह-यापि चेति । स्मृतिविरोधेऽदृ- तनाचाराप्रामाण्यं विस्तरेणोपपाद्योपसंहरति-इतीति । एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामाण्यप्रतिपादनपरतयाऽपि वेति सूत्रं व्याख्याय, इदानीं सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसिद्धान्तसूत्रमाचारा-
७ ] प्रथमाध्याये तृतीयपादः ३९७ धिकरणपूर्वपक्षेऽप्यावृत्त्या योजयितुमुपक्रमते-अथ वेति । पूर्ववर्णके दुराचारसङ्करेण पूर्वपक्षाभिधानाय सर्वदेशनिवासिशिष्टाचारोदाहरणाद् तद्व्यावृत्त्यर्थमार्यावर्त्तनिवासिशि- ष्टाचारणामेवोदाहरणत्वमाह-इहेति । अर्थकामाचारव्यावृत्त्यर्थं धर्माचाराणामेवोदाहरणत्वं दर्शयन्सन्देहमाह-धर्मबुद्धयेति । दुराचारसङ्करस्याप्रामाण्यहेतोरायावर्त्तनिवासिधर्माचारेष्व- सम्भवात् सन्देहहेतुं प्रश्नपूर्वकमाह-कुत इति । नन्विदं कर्त्तव्यमिदं कर्त्तव्यमिति सदाचाराणां विशेषरूपेणानिबन्धनेऽपि, सदाचारः प्रमाणमिति सामान्यतो निबन्धनमस्ती- त्याशङ्कते - ननु चेति । स्मृत्यधिकरणसाधितोत्स्मृतिप्रामाण्यादेवाचारप्रामाण्यं सिद्धमि- त्यर्थः । अष्टकादिस्मृतीनां मूलश्रुत्यदर्शनेऽपि तदभावे हेत्वदर्शनादविरुद्धं श्रुत्यनुमानम् । आचारप्रामाण्यस्मृतौ तु मूलश्रुत्यभावसाधनस्य हेतोराचारमूलत्वलक्षणस्य स्मृत्यन्तरेभ्यो- ऽतिरिक्तत्वात्स्मृत्यन्तरन्यायेनाचारप्रामाण्यस्मृतिप्रामाण्यासद्धेनं स्मृतिवलादाचारप्रामाण्य- सिद्धिरिति । परिहरति-नेति । एतदेव विवृणोति - शास्त्रान्तरेति । आचारदर्शनमात्र- प्रवृत्तमेवोपपादयितुं प्रतिजानीते- यथैव चेति । उपपादयति - यदि हीति । अतो न्याय- मूलत्वात्स्मृतेर्न्यायसाध्वसाधुतैव विचार्येत्याह-इतीति । सन्देहमुपपाद्य पूर्वपक्षसूत्रगतनवर्थ- व्याख्यानार्थं सिद्धान्तेनोपक्रमते - तत्रेति । विरोधाधिकरणे विरुद्धस्मृतिप्रामाण्यापवादे- नाविरुद्धस्मृतिप्रामाण्यं निरपवादमुक्तमिति मत्वा द्वयबलेनेत्युक्तम् । प्रतिज्ञानम् = उपक्रमः। घञन्तात्करोतेः कारशब्दं व्यापारवचनं व्युत्पाद्य सोऽस्यास्तीति मत्वर्थीयेनिप्रत्ययान्तस्य कारिशब्दस्य कर्तृवचनत्वाच्छ्रौतस्मार्तस्तुल्याः कर्त्तार एषामिति विग्रहः कार्यः। मन्वादिभि- श्चाचारमूलश्रुत्यदर्शनेऽपि तदर्थस्य शिष्टव्यवहारादेव सुज्ञानत्वेनानिबन्धनोपपत्तेः स्मृतितो- ऽप्याचारप्रामाण्यं सिध्यतीत्याह - स्मृतिकारैरिति । उपक्रान्तसिद्धान्तनिराकरणार्थत्वेन पूर्वपक्षसूत्रमवतार्यं व्याख्यातुमध्याहारेण पूरयति - तद्विति । व्याचष्टे - शास्त्रेति । तृतीयासमासाभिप्रायं कर्मव्युत्पत्तिप्रदर्शनम्, बहुव्रीहौ तु भावव्युत्पत्तिरेव षष्ठीसमासेन च विद्यास्थानातिरिक्तत्वेन शाक्यादिग्रन्थवदाचाराणामप्येनेनाप्रामाण्यमुच्यत इत्यन्यथा व्याचष्टे - परिमितानि चेति । ननु शब्दात्मकानामेव शास्त्राणामियत्तानियमादशब्दात्म- कस्यापि सदाचारस्य पुरुषहितबोधकत्वाच्छास्त्रत्वं भविष्यतीत्याशङ्क्य स्वरसेन त्वेषां धर्मबोधकत्वम्, आचारश्चैव साधूनामिति स्मृत्यनुसाराद्वेति विकल्प्य आद्ये पक्षे स्वरूपेण तावदाचारस्य क्रियारूपस्याबोधकत्वाच्छास्त्रत्वमनाशङ्क्यमेवेत्याह-न चेति । ननु स्वरूपेणाबोधकत्वेऽपि शिष्टानुष्ठानदर्शनादस्मदादीनां धर्मबुद्धयुत्पत्तेस्तद्द्वारेण शास्त्रत्वं भविष्यतीत्याशङ्कयाह - नापीति । शिष्टानुष्ठानान्यथानुपपत्त्या अनुष्ठेयस्योत्सवादेर्धर्मत्वं कल्प्यम्, भ्रान्त्यादिनापि त्वनुष्ठानोपपत्तेर्नैकान्ततः शिष्टैरनुष्ठीयमानस्याचारस्यास्मदादि- भिर्दर्शनम्, शिष्टाचारानुष्ठानं वा धर्मत्वं कल्पयितुं शक्यम्, विशेषतश्च दर्शनस्यानुष्ठान- मात्रानुविधायित्वेनात्यन्तपरायत्तत्त्वादनुष्ठानस्य च प्रमेयत्वादबोधकत्वादित्यर्थः । द्वितीयपक्षे दूषणमाह - स्मृतेस्त्विति । तृतीयप्रकारेण व्याख्यातुं विकल्पयति - किं चेति । एकश्रुत्यनुमानासम्भवं ताव- दुपपादयति - न तावदिति । अनेकश्रुत्यनुमानासम्भवमपरिमितानां पाठाशक्तेरपठितानां
३९८ मीमांसादर्शनम् [ सू० च मूलत्वासम्भवेनोपपादयति-यावदाचारं हीति । तुशब्दार्थे हिशब्दः । ननु सर्वाचाराणा- मेकश्रुतिमूलत्वासम्भवेऽप्येकदेशादिगतानां भिन्नानामप्येकमूलत्वोपपत्तेरनेक श्रुत्यनुमानेऽप्यल्प- त्वान्न वेदसम्मितश्रुतिकल्पनापत्तिरित्याशङ्क्याह-एकस्य त्विति । एकदेशादिगताना- मप्यनेकेषामेकोपलक्षणाभावान्नैकमूलत्वोपपत्तिरिति भावः । अभ्युपगम्याप्यल्पत्वेन शक्यपाठत्वमनिबन्धनामूलदर्शनाभावोऽवसीयेत इत्याह-न चेति । ननु प्रत्यक्षोपलम्भाभावेऽप्याचारदर्शनादेव तत्तदाचारमूलभूताः श्रुतीरनुमायाऽन्येषामपि तथैव श्रुत्यनुमानसिद्धयर्थं सामान्यमात्रेणाचारप्रामाण्यमुपनिबद्धमित्याशङ्कयाह-न चेति । मूलत्वेनाचारस्य बलवत्त्वोपपत्तेर्मूलित्वेन च स्मृतेर्दौर्बल्यापत्तेर्वक्ष्यमाणं स्मृतिबलीयस्त्वं विरुध्येतेत्याशयः । मूलमूलिभावस्य वलावलभावस्य च विपर्ययप्रसङ्गादिति वा योज्यम् । अस्मिन्नेवार्थे शास्त्रस्य परिमितस्य स्तोकस्यैवानुमातुं शक्यत्वादितिसूत्रं योजयति- अत इति । ननु बहूनामप्याचाराणामेकैव स्मृतिः सरूपा श्रुतिमूलभूतानुमास्येतऽत आह- न चेति । न केवलमाचाराणां श्रुतिमूलत्वाभावप्रसङ्गः, किं तु श्रुतेरेवाचारपूर्वकत्वापत्ते- र्विपर्ययोऽपि प्रसज्येतेत्यर्थः । एतदेवोपपादयति -- शिष्टाचार इति । एतमेवार्थमर्थान्तर- न्यासेन दर्शयितुं शास्त्रशब्दे शास्त्रीयमर्थं लक्षयित्वा तस्य परिमित्वादल्पत्वादिति चतुर्थं व्याख्याप्रकारमाह-शास्त्रेति । यद्वा शास्त्रीयस्यार्थस्य परिमितत्वात्कतिपयत्त्वान्मानान्तरा- गोचरत्वादिति वदतानेन सूत्रेण परिमिते मानान्तरागोचर एवार्थे शास्त्रं प्रवर्त्तते । सदा- चाराणां तु शिष्टव्यवहारादेव सिद्धत्वेन मानान्तरगोचरत्वान्न शास्त्रविषयत्वं सम्भवती- त्युक्तमिति पञ्चमं व्याख्याप्रकारमाह-परिमित्तेति । एतमेवार्थमुपपादयितुं गृहस्थ्यादि- कर्मणामशास्त्रीयत्वप्रतिपादनाथंस्य 'अशास्त्रा तूपसम्प्राप्तिः शास्त्रं स्यान्न प्रकल्पकं तस्मादर्थेन गम्येताऽप्राप्ते शास्त्रमर्थवदि' (६.२.१८) त्यस्य षष्ठाध्यायगतस्य सूत्रस्यैकदेशं पठति- अप्राप्ते इति । मानान्तरगोचरत्त्वमेवार्थं सुखाङ्गत्वेन द्रढयति-दृश्यमानेति । अर्थसुखा- ङ्गानां धर्मत्वाभावे दृष्टान्तमाह-वैश्यानामिति । पूर्वपक्षमुपसंहरति-तस्मादिति । शीलात्मतुष्टिग्रहणेन तयोरपि तुल्यन्यायत्वाद्विचारविषयत्वं दर्शितम्, स्वभावरचितं शीलम् । निषेधस्याश्रौतत्वे नञो सामञ्जस्यापत्तेरपरितोषात् सिद्धान्तोपक्रममपि सूत्रारूढं कर्तुमुपक्रमते-यद्वेति । अस्मिंश्च पक्षे शिष्टाकोपसूत्रमप्यावृत्त्या वेदाविरुद्धशाक्यादिवाक्य- विषये पूर्वपक्षसूत्रत्वेन शिष्टाचारविषये च सिद्धान्तोपक्रमार्थत्वेन योज्यं द्वितीयवर्णकव- दत्राप्यार्यावर्त्तनिवासिशिष्टाचारणामेवोदाहरणत्वमनिबन्धनत्व-कर्तृ सामान्यरूपधर्मद्वयदर्शनं च सन्देहकारणम्, सूत्रयोजनामात्रतिरिक्तमिति दर्शयन् सिद्धान्तोपक्रमं सूत्रारूढं करोति - इहेति । तत्राकोपाविरुद्धशब्दयोः पौनरुक्त्यमाशङ्कयाचेनाविरोधोऽभिहितो द्वितीयेन प्रामाण्यमिति स्वरूपतस्तावद्व्याचष्टे-तथा हीति । नन्वविरोधेऽप्याचाराणां विद्यास्थानाति- रिक्तत्वाच्छाक्यादिग्रन्थवदप्रामाण्यं भविष्यतीत्याशङ्क्य, स्मृतिकारानुज्ञानेनातिरेकस्यादोषत्वं दर्शयितुं विरोधे सत्येवाप्रामाण्यं स्यात् नान्यथेत्येवं परतया व्याचष्टे-यदीति ॥ ७॥ ॥ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ ५॥
७ ] प्रथमाध्याये तृतीयपादः ३९९ भा० प्र०—"अपि वा" = पूर्व पक्ष के निवारण अर्थ को कह रहा है, "कारणा- ग्रहणे" = कारण का अर्थात् स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह आदि हैं, उनके अग्रहण में अर्थात् ग्रहण या ज्ञान न होने पर, "प्रयुक्तानि" = स्मृति- प्रयुक्त अर्थात् स्मृति से विहित आचमन आदि कर्म, "प्रतीयेरन्" = अविरुद्ध अर्थात् प्रमाण या अनुष्ठेय के रूप में प्रतीत होंगे । स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह आदि हैं उनकी सम्भावना न रहने पर श्रौत क्रम आदि के विरोधी होने पर भी आचमन आदि स्मार्तं कर्म को प्रमाण अर्थात् अनुष्ठेय समझना चाहिए । आशय यह है कि सूत्र में "अपि वा" इस शब्द से पूर्वपक्षी की आशङ्का का निवारण किया गया है । श्रौतकर्म काल एवं परिमाण आदि के विरोधी होने पर भी आचमन आदि स्मार्तं पदार्थ अर्थात् कर्म अनुष्ठेय होगा, क्योंकि इन कर्मों के अप्रामाण्यका कोई कारण नहीं है । लोभ, मोह आदि ही अप्रामाण्य का कारण है; किन्तु आचमन दक्षिणाचार आदि स्मार्तं कर्म लोभादिमूलक नहीं है । अत एव उनका अप्रामाण्य नहीं है, अपितु प्रमाण होने से अनुष्ठेय हैं । इस स्थल में आचमन आदि पदार्थ अर्थात् पदप्रतिपाद्य कर्मफल धर्मी है और आनन्तर्य आदि उस पदार्थ के आश्रित धर्म है । अतः धर्म और धर्मी में विरोध होने पर धर्मी ही निर्बाध होता है । क्योंकि, धर्मिरूप आश्रय के बाधित होने पर धर्मरूप आश्रित रह ही नहीं सकता है । इसलिए पदार्थ (कर्म) में आश्रित आनन्तर्य आदि क्रम श्रौत होने पर भी उसके द्वारा स्मृतिविहित आचमन आदि कर्मों की बाधा नहीं हो सकती है । धर्मी के आविर्भाव के बाद धर्म का आविर्भाव होने से आचमन आदि धर्म के पूर्व में या एक समय में आनन्तर्य आदि रूप क्रम आदि उपस्थित ही नहीं है । सभी शास्त्रीय कर्मों का शुद्ध होकर अनुष्ठान करना पड़ता है—यही नियम है । आचमन यज्ञोपवीतित्व, दक्षिणाचारता आदि शुद्धि या शौच का हेतु है, अतः ये कर्म के ही अङ्ग है । अङ्ग प्रधान या अङ्गी की परिपूर्णता का ही साधन करता है, प्रधान का बाधक नहीं होता है, क्योंकि जो जिसका अङ्ग नहीं होता है ऐसा समकक्ष पदार्थ (कर्म) एक में दूसरे की बाधा को उत्पन्न कराता है । किन्तु आचमन आदि स्वतन्त्र कर्म नहीं हैं, ये सभी कर्म के ही अङ्ग हैं । इसलिए ये समय में ही अनुष्ठेय हैं । इसीलिए शास्त्रकार ने कहा है— सदोपवीतिना भाव्यं सदा बद्धशिखेन तु । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥ अर्थात् "सदा उपवीति अर्थात् बायें कन्धे पर यज्ञोपवीत को धारण करे एवं सभी कार्य शिखा को बांधकर करे शिखाहीन होकर एवं उपवीती हुए बिना, जो कुछ भी करता है, वह न करने के समान है इस प्रकार वामहाथ से किया गया कार्य भी
४०० मीमांसादर्शनम् [ सू० अग्राह्य ही रहता है। इसलिए आचमन उपवीतित्व बद्धशिखत्व, दक्षिणाचारता अवश्य ही कर्तव्य है। सभी स्थलों में कृताचमनत्व, यज्ञोपवीतित्व, बद्धशिखत्व, दक्षिणाचारता आदि विचारित विषयों में सभी का अनुकूल वेद वचन विद्यमान रहने से इनको स्मार्तं कर्म अर्थात् अप्रत्यक्ष श्रुतिविहित कर्म मानकर श्रुतिविहित क्रम इत्यादि के साथ इनका विरोध उपेक्षणीय है या नहीं—इसप्रकार किया गया विचार दृढ़ नहीं है, कारण; ये यदि प्रत्यक्षश्रुति से उपदिष्ट न होते तो श्रौत कर्म और स्मार्तं कर्म या पदार्थ का विरोध उपेक्षणीय है कि नहीं—इस प्रकार का विचार बलवान् होता, किन्तु, दोनों ही श्रौत हैं तब उनका विरोध रहने पर भी वे प्रबल नहीं हैं। इसलिए, वार्त्तिककार ने इस स्थल में भिन्न प्रकार से ही अधिकरण की रचना की है। अतः पूर्व अधिकरण का “विरोघे त्वनपेक्षं स्यात् असति ह्यनुमानम्” “हेतुदर्शनाच्च” शिष्टाकोपेऽविरुद्धमिति चेत्” “न शास्त्रपरिमाणत्वात्” इन चार सूत्रों को लेकर एक अधिकरण माना है। “अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” यह सूत्र एवं आगे के सूत्र का 'तेष्वदर्शनात् विरोधस्य' यहाँ तक के अंश को ग्रहण कर दूसरा अधिकरण होता है। इस प्रकार जिन दो अधिकरणों की रचना हुई है; उनमें पूर्व अधिकरण में पाञ्चरात्र, पाशुपत एवं शाक्यमत के प्रामाण्य का खण्डन किया गया है। पाञ्चरात्र, एवं पशुपत ये कहो वेदमूलक भी हैं, किन्तु शाक्य- मत तो सर्वथा वेद बाहर है। इसलिए शाक्यमत का खण्डन ही वार्त्तिक मत में प्रदर्शित किया गया है। पूर्व अधिकरण के द्वारा स्मृतियों का वेदमूलकत्व सिद्ध किया गया है, प्रदर्शित दृष्टि के अनुसार यदि शाक्य आदि के स्मरणों को भी वेदमूलकत्व मानकर उनके प्रामाण्य की आशङ्का भी की जा सकती है, शाक्य सिंह (बुद्ध, महावीर) क्षत्रिय हैं, अतः क्षत्रिय मनु की स्मृतियों के समान उनका भी प्रामाण्य मानने में क्या आपत्ति है, क्योंकि, उन लोगों ने भी वेद का ज्ञान किया होगा ? इस प्रसङ्ग में यह कहना है कि “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”, “हेतुदर्शनाच्च”। आशय यह है कि शाक्य आदि की स्मृतियों का वेदमूलकत्व अनुमान नहीं हो सकता है, क्योंकि “असति अनुमानम्” वेद का विरोध न रहने पर वेदमूलकता का अनुमान हो सकता है, किन्तु, “विरोधे त्वनपेक्ष्यम्” अर्थात् शाक्य आदि की वेद विरुद्धता अतिशय स्पष्ट है, इसलिए उनकी स्मृतियां वेदमूलक नहीं है। धर्म का उपदेश करना क्षत्रिय का कर्तव्य नहीं है। ब्राह्मण से अतिरिक्त वर्णों के लिए धर्म का उपदेश करना निषिद्ध है, केवल ब्राह्मण का ही यह कार्यं है। बुद्ध आदि ने क्षत्रिय होकर भी अशेष जीवन को धर्म के उपदेश देने में ही व्यतीत किया है, अतः उनका सम्पूर्ण जीवन शास्त्र विरुद्ध कर्मों के अनुष्ठान में ही व्यतीत हुआ है। आत्मा का उद्धार करना ही सभी लोगों के लिए प्रथम कर्तव्य के रूप में शास्त्र में कहा गया है, किन्तु, उन्होंने कहा कि मैं अनन्त नरक में ही जाऊँ कोई क्षति नहीं है, संसार के
७ ] प्रथमाध्याये तृतीयपादः ४०१ प्राणियों की मुक्ति हो, जो व्यक्ति आत्मघाती है स्वयं ही धर्म को नहीं मानता है, नरक का भय नहीं करता है—वह धर्म का उपदेश कैसे देगा ? वह उपदेश दे भी तो उसका उपदेश वेदमूलक कैसे हो सकता है ? उन्होंने वेद से ही धर्मतत्त्व की अवगति की और वेद के विरुद्ध प्रचार किया, माता और पिता का द्रोही है जो माता और पिता को जनक और जननी नहीं मानता है, गौतम बुद्ध ने भी वेद से ही धर्म के तत्त्व की अवगति की किन्तु वह अपने धर्मोपदेश को वेदमूलक नहीं मानता है, धर्म और अधर्म प्रत्यक्ष के अयोग्य हैं, अतः कितना बड़ा भी योगी क्यों न हो, वह अपने प्रभाव से उनका प्रत्यक्ष कर उपदेश नहीं दे सकता है। इसलिए, जब उस मत को मानने वाले स्वयं ही जब धर्म को वेदमूलक नहीं मानते हैं, तब श्रद्धा के कारण जड़मति वर्णाश्रम को मानने वाला उनके उपदेश को वेदमूलक कहे तो यह कैसे सङ्गत होगा ? “हेतु-दर्शनात् च” । इनकी स्मृतियाँ लोभ आदि अनेक कारणों के वर्तमान रहने से, उनको वेदमूलक नहीं कहा जा सकता है। बौद्धगण अपने सम्प्रदाय में अनुस्मृत स्मृतियों को वेदमूलक होने से प्रमाण नहीं माना है। अपि तु अनेक हेतु जालों से उनके उपदेश की धर्मप्राणता सिद्ध करने का प्रयास किया है। वैदिकों के धर्मोपदेश के आधार पर यागादि को धर्म नहीं माना है। यदि इस प्रसङ्ग में यह कहा जाय कि “शिष्टाकोपे अविरुद्धम्” । साधारण रूप में बुद्ध आदि की स्मृतियाँ अनादरणीय भले ही हो, किन्तु अहिंसा, शम, दम, दान आदि विषयों की कर्त्तव्यता का उपदेश होने से उनके साथ वेदानुशिष्टकर्मों का किसी प्रकार का विरोध न होने से वे प्रमाण हैं और वे धर्मार्थ में बुद्धादि की स्मृति होने पर भी ज्ञातव्य क्यों नहीं होगी ? अर्थात् ज्ञातव्य ही होगी । इस प्रसङ्ग में कहना है कि ऐसा नहीं हो सकता है, क्योंकि, यह सङ्गत नहीं है, “शास्त्रपरिमाणत्वात्” क्योंकि, सभी शास्त्र परिमित हैं, क्योंकि किस-किस शास्त्र से धर्म ज्ञातव्य है—इसका शास्त्रों में ही निर्देश कर दिया गया है। बौद्ध आदि स्मृतियाँ उनके अन्तर्गत नहीं हैं, अतः उनसे धर्म ज्ञातव्य नहीं है। “मनुर्वे यत्किञ्चिन आवदत् तद् भेषजम्” अर्थात् मनु ने जो कहा है वह मनुष्य के पाप= व्याधि का भेषज=औषध है, इत्यादि वेद वचन के द्वारा ही निर्दिष्ट है। किस शास्त्र से धर्म ज्ञातव्य है—इसमें वेद का निर्देश ही प्रमाण है। वेद के अनुसार ही स्मृति में भी कहा गया है— पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ चार वेद, छ वेदाङ्ग, पुराण, न्याय, मीमांसा एवं धर्मशास्त्र ये चौदह स्थान अर्थात् शिष्टों से परिगृहीत शास्त्र ही विद्या एवं धर्म के चतुर्दश स्थान हैं। ये नित्य हैं, प्रत्येक कल्प में मनु आदि महर्षिगण पूर्ववत् वेदार्थ का स्मरणादि (स्मृतियाँ) निबद्ध कर देते हैं, आकल्प विच्छेद से ये सर्वथा रहित हैं। अतः, इनसे ही धर्मतत्त्व ज्ञातव्य है बौद्ध ग्रन्थों से ज्ञातव्य नहीं हैं। २६
४०२ मीमांसादर्शनम् [ सू० अहिंसा, दान आदि वेद से उपदिष्ट होने पर भी बौद्धों के संस्पर्श से सुराभाण्ड में स्थित गङ्गाजल के समान हैं, कुत्ते के चमड़े से बनायी गई दृति (किस्ति) में रखे गये गोदुग्ध के समान वह अपवित्र हो जाने से उनकी स्मृतियों से वे ज्ञातव्य होने पर धर्म नहीं होंगे। अपितु वेद में उल्लिखित महर्षियों के ग्रन्थों से ही धर्म होता है—इसीलिए आचार्य कुमारिल भट्ट ने कहा है— “वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥” वेदोक्त अहिंसा आदि और बुद्धोपदिष्ट अहिंसा आदि समान नहीं है, क्योंकि उनके मत में हिंसात्व अवच्छेद में हिंसा वर्जित होने से ज्योतिष्टोम आदि यज्ञ में भी हिंसा परित्याज्य होगी, किन्तु, इस पक्ष में वेद विधि रूप में विहित हिंसा में पाप नहीं है, अपि तु वेदविधि के अविषयत्व एवं वेद निषिद्धत्व रूप में हिंसा पाप है। ज्योतिष्टोम आदि यज्ञ में हिंसा वेदविहित होने से वह अवश्य अनुष्ठेय है, किन्तु उनकी स्मृति के अनुसार अहिंसा अवलम्बनीय होने से ज्योतिष्टोमादि यज्ञ के स्थल में भी हिंसा का परित्याग करना होगा। सन्देह नहीं कि आज बौद्ध धर्मों में अतिशय अनुराग होने से विहित स्थल में भी हिंसा के वर्णन का विपुल प्रयास चल रहा है साथ ही अमेध्य मांस भक्षण की प्रवृत्ति भी उसी अनुपात में बढ़ रही है। धन्य है धर्म और अन्धानुराग-परम्परा एक ओर हिंसा का विरोध और दूसरी ओर हिंसाजन्य उपलब्ध मांस भक्षण की अतिशय प्रवृत्ति । इसीलिए वार्त्तिककार ने कहा है— शोभासोक्त्यं-हेतूक्तिकलिकालवशेन वा । यज्ञोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ वेदादिशास्त्रों में ब्राह्मण से भिन्न को विधिपूर्वक सम्प्रदान निषिद्ध है, किन्तु बौद्धादिस्मृतियों में इसे ही प्रशंसनीय विषय के रूप में स्वीकार किया गया है। शम, दम आदि के सम्बन्ध में भी यही रीति अपनानी चाहिए। अतः वेद बहिर्भूत बौद्धादि- स्मृति प्रमाण नहीं है। “अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” इस सूत्र की व्याख्या में वार्त्तिककार ने शिष्टाचार का प्रामाण्य प्रतिष्ठापित किया है। होलाक (होली का उत्सव) आदि कर्म जो प्रत्यक्ष श्रुति से विहित नहीं हैं एवं स्मृतिकारों ने उन्हें निबद्ध नहीं किया है, किन्तु शिष्ट = वेदप्रामाण्यवादियों ने इनका अनुष्ठान किया है। अतः यह विचारणीय है कि ये शिष्टाचार प्रमाण है या नहीं ? इस सन्देह में यदि यह कहा जाय कि (पूर्वपक्ष के रूप में) शिष्टाचार संख्याबद्ध एवं व्यवस्थित प्रमाण नहीं है, साथ ही अनेक शिष्टों ने भी बहुत