मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 441, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३८९ कृष्णार्जुनयोर्मद्यपानमातुलदुहितृपरिणयने यथा वा न विरुद्धत्वमित्येतं परिहारमाह— यस्त्विति । ननु' सर्वा न पेया ब्रह्मवादिभिरि'ति वेदाध्ययनयोगात्त्रैवर्णिकमात्रस्य त्रिविधसुरा- निषेधावधारणेन ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदिति सामान्यशब्दस्यापि त्रिविधसु- राविषयत्वनिश्चयान्न 'सुरा वै मलमन्नानामि'ति वाक्यशेषानुरोधेन पैष्टीमात्रविषयत्वं युक्त- मित्याशङ्कयाह—मधुसीधुनोस्त्विति । सीधुः = गोडी । त्रिविधसुराव्यतिरिक्तताडादि- प्रभवमद्यमात्रनिषेधो गौतमीये । यथा केवलब्राह्मणविषयः तथा मानवीयोऽपि त्रिविधसुरा- निषेधो ब्रह्मवादिशब्दस्य ब्राह्मणमात्रविषयत्वात्केवलब्राह्मणविषय इत्यर्थं । कोऽसौ मानवीयो निषेधः केवलब्राह्मणविषय इत्यपेक्षायामाह—यदपीति । एतदपि मनुवचनं गौतमवचनव- त्केवलब्राह्मणविषयमिति विपरिणमत्तानुषक्तेन पूर्वेण समापनीयं कथमस्य केवलब्राह्मण- विषयतेत्यपेक्षायामाह - ब्रह्मेति । ननु ब्रह्मवचनशीलत्वादेरपि त्रिष्वपि वर्णेषूपपत्तेस्तन्नि- मित्तत्वेऽपि कथं ब्राह्मणमात्रविषयतेत्याशङ्कयाह - प्रवचनेति । वदतेरुच्चारणमात्रार्थत्वे त्रयाणामपि तच्छीलत्वादिसम्भवात्ताच्छील्यादिवचनस्य णिनेरविशेषकत्वेनानर्थक्यापत्तेः । शूद्रनिवृत्तेश्च कर्तृमात्रवचनतृजादिप्रत्ययप्रयोगमात्रेण सिद्धेः । प्रवचनार्थे वदत्याश्रवणेन यस्यैव प्रवचनम् अध्यापनमस्ति, स एवाध्यापनरूपब्रह्मवदनप्रवृत्तिस्वभावत्वात् ब्रह्मवदनशीलस्त- स्यैवाध्यापनं स्वधर्म इति, ब्रह्मवदनधर्मा स एवाभ्यासवसेनास्खलिताध्यापनशक्तत्वाद् ब्रह्म- वदनसाधुकारी वा ब्रह्मवादिशब्देन विवक्षितो भवतीत्यर्थः । कथं वदतेः प्रवचनार्थतेत्या- शङ्क्य ब्रूञ्वदत्योः - एकार्थत्वादित्युक्तम् । प्रवचनमपि वर्णत्रयसाधारणं कस्मान्न भवती- त्याशङ्क्य प्रब्रूयाद् ब्राह्मणस्तेषां नेतराविति निश्चय इति स्मृतिरुपन्यस्ता उपसंहरति -- तस्मादिति । केवलब्राह्मणविषयत्वमेवास्य वचनान्तरे ब्राह्मणग्रहणेन द्रढयति - तथा चेति । न तु पैष्टीनिषेधस्य वर्णत्रयविषयत्वाभ्युपगमाद्यथैवैका तथा सर्वेति सुरामात्रनिषेधस्य वर्णत्रय- विषयत्वप्रतीतेर्न केवलब्राह्मणविषयत्वं युक्तमित्याशङ्क्यैतद्वचनं ब्राह्मणविषयत्वे योजयति -- तस्मादिति । ननु मद्यान्तरनिषेधस्यापि ब्राह्मणमात्रविषयत्वशङ्कानिवृत्त्यर्थं पदद्वयमप्यर्थ- वद्भविव्यतीत्याशङ्क्य पूर्वोदाहृतेन मानवीयेनैव श्लोकेनतच्छङ्कानिवृत्तेरानर्थक्यं समर्थयते—श्लोकान्तरेति । नन्वेवमपि कृष्णार्जुनयोः क्षत्रियत्वात्पैष्टीपानं विरुद्धमे- वेत्याशङ्कय तयोर्माध्वीपानस्मरणान्न पैष्टीपानशङ्कास्तीति परिहरति—तेनेति । केशवा- र्जुनयोर्मध्वासवपानस्याविरुद्धत्वमेव द्रढयितुं वेदवाक्यमुपन्यस्यति—तथा चेति । क्षत्रियस्य मधुसीधुनिषेधाभावेनाभ्यनुज्ञानर्थक्यादन्यार्थदर्शनमेवदम् । अथापि केनचित्सामान्यवचनेन क्षत्रियेऽपि निषेधः प्रसज्येत' तथाप्यनेनानुज्ञातत्वाददोषः इति वाशब्देन सूचितम् । सत्यपि तु निषेधे प्रतिषिद्धाभ्यनुज्ञायाः विकल्पापादकत्वेन दुष्टत्वान्नायं पक्षविकल्पार्थो वाशब्दः । ननु 'नैव सुरा पीता हिनस्ती, ति सामान्यभिधानात्पैष्टीपानमपि क्षत्रियस्याविरुद्धं स्यादित्याशङ्कयाह—मध्विति । सुरा वै मलमन्नानामिति मनुना पैष्टया वर्णत्रये निषेधा- दस्याश्च श्रुतेरन्यार्थदर्शनमात्रत्वादित्याशयः ।