भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

७ ] प्रथमाध्याये तृतीयपादः ३८९ कृष्णार्जुनयोर्मद्यपानमातुलदुहितृपरिणयने यथा वा न विरुद्धत्वमित्येतं परिहारमाह— यस्त्विति । ननु' सर्वा न पेया ब्रह्मवादिभिरि'ति वेदाध्ययनयोगात्त्रैवर्णिकमात्रस्य त्रिविधसुरा- निषेधावधारणेन ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदिति सामान्यशब्दस्यापि त्रिविधसु- राविषयत्वनिश्चयान्न 'सुरा वै मलमन्नानामि'ति वाक्यशेषानुरोधेन पैष्टीमात्रविषयत्वं युक्त- मित्याशङ्कयाह—मधुसीधुनोस्त्विति । सीधुः = गोडी । त्रिविधसुराव्यतिरिक्तताडादि- प्रभवमद्यमात्रनिषेधो गौतमीये । यथा केवलब्राह्मणविषयः तथा मानवीयोऽपि त्रिविधसुरा- निषेधो ब्रह्मवादिशब्दस्य ब्राह्मणमात्रविषयत्वात्केवलब्राह्मणविषय इत्यर्थं । कोऽसौ मानवीयो निषेधः केवलब्राह्मणविषय इत्यपेक्षायामाह—यदपीति । एतदपि मनुवचनं गौतमवचनव- त्केवलब्राह्मणविषयमिति विपरिणमत्तानुषक्तेन पूर्वेण समापनीयं कथमस्य केवलब्राह्मण- विषयतेत्यपेक्षायामाह - ब्रह्मेति । ननु ब्रह्मवचनशीलत्वादेरपि त्रिष्वपि वर्णेषूपपत्तेस्तन्नि- मित्तत्वेऽपि कथं ब्राह्मणमात्रविषयतेत्याशङ्कयाह - प्रवचनेति । वदतेरुच्चारणमात्रार्थत्वे त्रयाणामपि तच्छीलत्वादिसम्भवात्ताच्छील्यादिवचनस्य णिनेरविशेषकत्वेनानर्थक्यापत्तेः । शूद्रनिवृत्तेश्च कर्तृमात्रवचनतृजादिप्रत्ययप्रयोगमात्रेण सिद्धेः । प्रवचनार्थे वदत्याश्रवणेन यस्यैव प्रवचनम् अध्यापनमस्ति, स एवाध्यापनरूपब्रह्मवदनप्रवृत्तिस्वभावत्वात् ब्रह्मवदनशीलस्त- स्यैवाध्यापनं स्वधर्म इति, ब्रह्मवदनधर्मा स एवाभ्यासवसेनास्खलिताध्यापनशक्तत्वाद् ब्रह्म- वदनसाधुकारी वा ब्रह्मवादिशब्देन विवक्षितो भवतीत्यर्थः । कथं वदतेः प्रवचनार्थतेत्या- शङ्क्य ब्रूञ्वदत्योः - एकार्थत्वादित्युक्तम् । प्रवचनमपि वर्णत्रयसाधारणं कस्मान्न भवती- त्याशङ्क्य प्रब्रूयाद् ब्राह्मणस्तेषां नेतराविति निश्चय इति स्मृतिरुपन्यस्ता उपसंहरति -- तस्मादिति । केवलब्राह्मणविषयत्वमेवास्य वचनान्तरे ब्राह्मणग्रहणेन द्रढयति - तथा चेति । न तु पैष्टीनिषेधस्य वर्णत्रयविषयत्वाभ्युपगमाद्यथैवैका तथा सर्वेति सुरामात्रनिषेधस्य वर्णत्रय- विषयत्वप्रतीतेर्न केवलब्राह्मणविषयत्वं युक्तमित्याशङ्क्यैतद्वचनं ब्राह्मणविषयत्वे योजयति -- तस्मादिति । ननु मद्यान्तरनिषेधस्यापि ब्राह्मणमात्रविषयत्वशङ्कानिवृत्त्यर्थं पदद्वयमप्यर्थ- वद्भविव्यतीत्याशङ्क्य पूर्वोदाहृतेन मानवीयेनैव श्लोकेनतच्छङ्कानिवृत्तेरानर्थक्यं समर्थयते—श्लोकान्तरेति । नन्वेवमपि कृष्णार्जुनयोः क्षत्रियत्वात्पैष्टीपानं विरुद्धमे- वेत्याशङ्कय तयोर्माध्वीपानस्मरणान्न पैष्टीपानशङ्कास्तीति परिहरति—तेनेति । केशवा- र्जुनयोर्मध्वासवपानस्याविरुद्धत्वमेव द्रढयितुं वेदवाक्यमुपन्यस्यति—तथा चेति । क्षत्रियस्य मधुसीधुनिषेधाभावेनाभ्यनुज्ञानर्थक्यादन्यार्थदर्शनमेवदम् । अथापि केनचित्सामान्यवचनेन क्षत्रियेऽपि निषेधः प्रसज्येत' तथाप्यनेनानुज्ञातत्वाददोषः इति वाशब्देन सूचितम् । सत्यपि तु निषेधे प्रतिषिद्धाभ्यनुज्ञायाः विकल्पापादकत्वेन दुष्टत्वान्नायं पक्षविकल्पार्थो वाशब्दः । ननु 'नैव सुरा पीता हिनस्ती, ति सामान्यभिधानात्पैष्टीपानमपि क्षत्रियस्याविरुद्धं स्यादित्याशङ्कयाह—मध्विति । सुरा वै मलमन्नानामिति मनुना पैष्टया वर्णत्रये निषेधा- दस्याश्च श्रुतेरन्यार्थदर्शनमात्रत्वादित्याशयः ।

३९० मीमांसादर्शनम् [ सू० मातुलदुहितृपरिणयने विरोधाभावमनुभाषणपूर्वकं दर्शयति-यत्त्विति । अयमाशयः- नार्जुनमातुलस्य वसुदेवस्यात्मजा सुभद्रेति क्वचिदाख्यायते, किंत्वनुजा वासुदेवस्य सुभद्रा वरवर्णिनीत्यादिव्यवहारदर्शनात्कल्प्यं स त्वन्यथाप्युपपत्तेर्नैकान्ततः सुभद्राया वसुदेवात्मजत्वं कल्पयितुं शक्नोतीति । एतदेव विवृणोति - यद्यपीति । ननु बलदेवस्य रोहिणीसुतत्वाद्वासुदेवस्य च देवकीसुतत्वादेकानंशायाश्च यशोदाकन्यात्वान्नत्रयाणामपि निजत्वं नास्तीत्याशङ्क्योत्पत्तावित्युक्तम् । 'सप्तमो देवकीगर्भो योंऽशः सोऽन्यो ममाग्रजः । स संक्रामयितव्यस्ते प्रथमे मासि रोहिणीम् ॥ इति देवकीगर्भसम्भूतस्यैव बलदेवस्य रोहिणीगर्भसङ्कर्षणे निद्रया विष्णुना प्रेरित- त्वात्तया च तथाकृतत्वादेकानंशायाश्च । अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति । या तु सा नन्दगोपस्य दयिता कंसगोपतेः ॥ यशोदा नाम भद्रं ते भार्यागोपकुलोद्भवा । तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि ॥ इति यशोदागर्भसम्भूताया अप्येकानंशाख्याया निद्रया नवसंख्यापूरणेन विष्णुनेव निजत्वान्वाख्यानाद्देवक्या अपि दारिका मम जातेति कंसं प्रोवाच देवकीति स्वगर्भसम्भूतत्वा- न्वाख्यानानिजत्वमित्याशयः । सुभद्रा तु यद्यपि रोहिणीदुहितृत्वेनान्वाख्यायते, तथापि वसुदेवात्मजातत्वे तद्भागिनेयस्यार्जुनस्य परिणयनविरोधाद्वासुदेवस्य सापत्समातू रोहिण्याः स्वसुः सुभद्रा दुहिता रोहिण्या एव वा पितृष्वस्त्रीयाया लाटादिषु भगिनीशब्दामिलप्यत्वेन प्रसिद्धा या दुहिता तत्सपत्नोसुतस्य वासुदेवस्य भगिनीति व्यपदिश्यत इति यथासम्भवं व्यवधानं कल्पनीयमित्यर्थः । न त्वर्जुनमातुः पृथाया वसुदेवभगिन्याः पित्रा शूरेण कुन्ती- भोजाय दुहितृत्वेन दत्तत्वात्पिण्डगोत्रे जनयितुनं भजेद्कृत्रिमः क्वचिदितिवचनात्सापिण्ड्य- निवृत्तेर्वसुदेवाङ्गजाताया अपि सुभद्रायाः पृथात्मजस्यार्जुनस्य परिणयनविरोधपरिहार- सम्भवाद्व्यवधानकल्पनमनर्थकमित्याशङ्कयाह - वसुदेवेति । कुन्तीभोजदुहितृत्वनिमित्तः पृथायां कुन्तीव्यपदेशः यद्यप्यर्जुनः कुन्तीभोजदत्तायाः पुत्रः तथापि 'ऊर्द्धं सप्तमात्पितृबन्धुभ्यो बीजिनश्चेति निषेधाद्वसुदेवाङ्गजातस्यापरिणेयेत्याशयः । ननु विरुद्धोऽप्ययमाचारो वासुदेवेनार्जुनप्रीत्या प्रवर्त्तित इत्यपि परिहारोपपत्तेरनुक्तव्यवधानकल्पना न युक्तेत्या- शङ्कयाह - येन हीति । एतमेव विरोधपरिहारन्यायं रुक्मिणीपरिणयनेऽप्यतिदिशति - एतेनेति । अद्यतना- चाराणामपि श्रुतिस्मृतिविरोधाविरोधाभ्यां प्रामाण्याप्रामाण्यव्यवस्थासिद्धेरसङ्कर इति परिहारं वक्तुमनुभाषणं तावत्करोति-यत्त्विति । परसतेन परिहारान्तरमुपन्यस्य दूषयितुमाह - तत्रेति । विरुद्धानामप्याचाराणां देशव्यवस्थया प्रामाण्यमिति परिहान्तर-

७ ] प्रथमाध्याये तृतीयपादः ३९१ मुपन्यस्यति—अन्ये त्विति । आपस्तम्बवचनं प्रपञ्चयति—येषामिति । (एतदेव परिहारं मनुवचनेन द्रढयन्नाह—तथेति ।) एतमपि परिहारं देशाचारकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणमिति गौतमवचनबलेन—निराकरोति । ननु चेति एतत् परिहारवादी स्वाभिप्रायमाशङ्कते—आहेति । निराकरोति—न त्विति । प्रयोगं दर्शयति—स्मार्त्तैति । एतदेव व्याचष्टे—ग्रन्थेति । मन्वादयो ये ग्रन्थ- काराः तद्गतायाः स्मृतेर्मूलाद्यो मन्वादिकृतो ग्रन्थ आम्नायशब्दवाच्यः, स स्मृतिग्रन्था- ध्यायिनां तस्या एव मन्वादिगताया एव स्मृतेः ग्रन्थमूलत्वेनानुमेयाया धारणार्थत्वेनोक्त इत्यर्थः । अनेन च य आम्नायः, स स्मृतिधारक इति शङ्खलिखितवाक्यस्य वचनव्यक्ति- र्दर्शिता । ततश्चार्थायः स्मृतिधारको ग्रन्थः, स आम्नाय इत्युक्तं भवति । यद्वा यः स्मृतिधारकः, स आम्नाय इति वचनव्यक्त्या स्मृतिधारणार्थत्वेन य आम्नाय स किं गतायाः स्मृतेः; किं रूपः; केषां चेत्यपेक्षिते—ग्रन्थकारेत्याद्युक्तम् । अविभक्तिकाम्नायशब्दपाठे त्वाम्नायेन स्मृतिधारको ग्रन्थ इत्युक्ते किं गतायाः स्मृतेः; को ग्रन्थः; केषां चेत्याकाङ्क्षानिवृत्त्यर्थत्वेनैतद्व्याख्येयं स्मार्त्तधर्माधिकारादल्पाच्तरत्वेन घ्यन्तत्वेन च स्मृतिशब्दस्य पूर्वनिपातोपपत्तेर्न द्वन्द्वसमासाशङ्का । स्वमतमुपसंहरति—ततश्चेति । नन्वापस्तम्बवचनस्य तर्हि का गतिरित्याशङ्कयाह— आपस्तम्बेति । पञ्चधा विप्रतिपत्तिर्दक्षिणतोऽनुप्रतीतेन मार्यया च सैह भोजनम्, पर्युषित- भोजनमुच्छिष्टभोजनम्, पितृष्वस्तृमातुलदुहितृपरिणयनमिति । तथोत्तरतः पञ्चधा-ऊर्णा- विक्रयः, सीधुपानमुभयतो दद्भिर्व्यवहार, आयुधीयकम्, समुद्रयानमितीति बौधायनेन स्मृतिविरुद्धदृष्टाचारोदाहरणानि दत्वेतर इतरस्मिन्कुर्वन्दूष्यति नेतरस्मिन्देशप्रामाण्य- व्यवस्थया प्रामाण्यमापस्तम्बेनोपन्यस्यति—मिथ्यैतदिति । गौतम उभयन्त्वेतन्नाद्रियते शिष्टस्मृतिविरोधादिति निराकृतत्वादापस्तम्बस्यापि मन्वादिवद्धर्मशास्त्रप्रवक्तृतया याज्ञ- वल्क्येन स्मरणात्तद्वचनस्य मिथ्यात्वायोगाेऽपि गर्हानिराकरणमात्रपरतया तद्व्याख्येयमित्या- शयः । मनुवचनं तु तेन यायात्सतां मार्गमिति विशेषणादविरुद्धकुलधर्मविषयत्वेना- विरुद्धम्, ननु विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वं विना कथं प्रवृत्तिरित्या- शङ्कयाह—दृष्टेति । पुंस्त्वस्य विवक्षिताशंकासमाधाने ननूपादेयगतत्वेन सुरापाननिषेधे पुंस्त्वस्य विवक्षितत्वान्न ब्राह्मणानां निषिद्धमित्या- शङ्कते—आहेति । अनुवादगतत्वेनाविवक्षामभिप्रेत्य परिहरति—उच्यत इति । आशङ्कित- स्वाभिप्रायमाह—नन्विति । पाश्र्वंस्थो हननप्रतिषेधेऽपि भूतभाव्युपयोगित्वाभावेना- संस्कार्यत्वाद् ब्राह्मणस्यानुपादेयपञ्चकव्यतिरिक्तत्वेनानुद्देश्यत्वमभिप्रेत्यातिप्रसङ्गद्वयमापा- दयति—उच्यत इति । एकत्वविवक्षाप्रसङ्गे को दोष इत्यपेक्षायामाह—अहत्वेति । पूर्वं- वच्छब्देन निषेधानतिक्रमलक्षणकृतार्थतोक्ता । आशङ्किता द्वितीयातिप्रसङ्गतं दोषं

३९२ मीमांसादर्शनम् [ सू० तावत्परिहरति—आहेति । यद्यपि जातेर्वधपानायोग्यत्वेन ब्राह्मणशब्दस्य व्यक्तिपरत्वात्तद्- गतमेकत्वमत्रोच्यते, तथाप्येकैकस्या एव व्यक्तेर्वधपानप्रसक्तेर्बहुवधपानेऽपि प्रत्येकमेकत्व- सम्बन्धान्निषेधातिक्रमापरिहारान्निषेधानतिक्रमलक्षणकृतार्थत्वदोषो नास्ति स्वपक्षे तूपा- देयार्थत्वेन ब्राह्मणशब्दस्य प्रकृतव्यक्तिविशेषाभावेन जातिपरत्वात्तस्यां चैकत्वसंख्यासम्भव- लक्षणाकारणाभावाद् बहुवधपानेऽप्येकत्वानपायात्कृतार्थत्वलक्षणो दोषः परिहार्य एवे- त्यर्थः । बहुवधपानेऽपि प्रत्येकं व्यक्तेरेकत्वसम्बन्धाज्जातेरैकत्वसम्बन्धादेकत्वविवक्षागतं यद- नैकवधपाने निषेधानतिक्रमापत्तिलक्षणं दूषणमुच्यते; तन्न दूषणमिति योज्यम् । एतदेव विवृणोति—एकैकस्या एव हीति । व्यक्तिविशेषणत्वेन विवक्षितुमारभ्यमाण- मप्येकत्वं नित्यप्राप्तत्वेनानुद्यमानत्वापत्तेः प्रतिषेध्यायां वधपानक्रियायामव्यभिचाराद्विशेष- णत्वासम्भवेन प्रतिषेधेऽपि विशेषणत्वासम्भवान्निष्फल्यापत्तेर्न विवक्ष्यते । जातौ तु व्यावर्त्य- संख्यान्तराभावात्तद्विशेषकत्वेन विवक्षाशङ्कैव नास्तीत्यर्थः । प्रथममतिप्रसङ्गं वैषम्योप- पादनेन परिहरति—आहेति । पुंस्त्वविवक्षातिप्रसङ्गेऽपि स एव शङ्किता परिहारमाहेत्या- हशब्दो योज्यः । वधनिषेधे ब्राह्मणस्यानुपादेयपञ्चकव्यतिरेकेऽपि, तव्यद्वितीयाभ्यां कर्मत्व- निर्देशाच्छब्दवृत्तेनार्होद्देश्यत्वमुपपादयितुम्-कर्मभूतस्येत्युक्तम् । सुरापाननिषेधे च ब्राह्मणस्य प्रत्यवायव्यावृत्त्याऽनुग्राह्यत्वात् स्वर्गकामादिवदुद्देश्यत्वेऽपि निषेध्ये सुरापाने प्रथमातृतीया- भ्यां कर्तृत्वनिर्देशेनोपादेयत्वं वक्तुम्—सुरापाने चेत्युक्तम् । यथा स्वर्गकामस्य यागविधौ उद्देश्यत्वाल्लिङ्गाविवक्षा, औदुम्बरीसंमाने यजमानस्योपादेयत्वाद्विवक्षा तथेहापीत्यर्थः । वधनिषेधे ब्राह्मणस्योद्देश्यत्वेनाऽविवक्षितलिङ्गत्वं प्रकटयति—तथा हीति । यस्माद् ब्राह्मण- मुद्दिश्य हननस्य प्रतिषेधः तस्माद् ब्राह्मणे लिङ्गं न विधीयते, अन्यत्वेनार्थान्तरत्वेनावृत्ति- प्रसङ्गादित्याशयः । यस्माद् ब्राह्मणहननमिति चोपरिष्टाद् वधोद्देश्यस्यापि वक्ष्यमाणत्वा- त्तस्मिन्पक्षे यस्माद्धननमुद्दिश्य तस्य प्रतिषेधः तस्माद्धनने कर्मण्युत्पन्नेन प्रतिषेधशब्देनोद्देश्ये लिङ्गं न विधीयत इति योज्यम् । हननमितिपाठे हननं प्रतिषेधतो वाक्यस्य न लिङ्गं विधेयमित्यर्थः । यद्वा यो ब्राह्मण इति, यच्छब्दं नपुंसकलिङ्गत्वेन विपरिणतमनुषज्य यद्धननमित्युक्ते तत्प्रतिषेधतो वाक्यस्येति योज्यम् । सर्वत्र लिङः प्रवर्तनावाचित्वमतोपन्यासः ये तु प्रवर्त्तनावाचित्वेन क्लृप्तशक्तिकस्य लिङो नञश्चाभाववाचित्वेन क्लृप्तशक्तिकस्य निवर्त्तनावाचित्वायोगान्निषेधाधिकारेऽपि नञर्थस्य प्रागभावरूपस्य सिद्धत्वेऽपि रागाद्युपजनने विनाश्योत्पत्तौ तत्परिपालनस्य प्रयत्नापाद्यत्वेन विधेयत्वोपपत्तेः प्रवर्त्तनैव लिङर्थ इत्येतन्म- तामिप्रायमेतत् श्लोकं व्याचक्षते ।

७ ] प्रथमाध्याये तृतीयपादः ३९३ तन्मतेनैवं योज्यं यो ब्राह्मण इति ब्राह्मणमुद्दिश्य पूर्ववच्च ब्राह्मणोद्देशाभिधानस्योप- लक्षणार्थत्वाद् वधं चोद्दिश्य यो ब्राह्मणहननाभावस्तं कुर्यादिति च वचनव्यक्त्यन्तरस्यापि सम्भवाद् ब्राह्मणवधाभावं चोद्दिश्य हननस्य प्रतिषेधादभावादन्यल्लिङ्गं ब्राह्मणे प्रतिषेध- शब्दवाच्ये वाऽभावे वा शब्दाद् वधे वा न विधीयत इति । हननमिति पाठे प्रतिषेधत इति प्रथमार्थे तमङ्गीकृत्य यो ब्राह्मणो यद्धननम्, यः प्रतिषेध इत्युक्ते ब्राह्मणतद्गधतदभावानामु- द्देश्यत्वात्तद्विशेषणं लिङ्गमन्त्यत्वापत्तेर्न विधीयत इति योज्यम् । परिपालनीयत्वरूपेण च विधेयस्याप्यभावस्य स्वरूपेणोद्देश्यत्वमविरुद्धम् । ननु वधोद्देश्यपक्षे ब्राह्मणस्याप्युद्देश्यविशेषणाविवक्षायामविवक्षा प्रसज्येतेत्याशङ्कां निराकुर्वन् श्लोकं व्याचष्टे—प्रतिषेधेति । नान्तरिक्षे न दिवीत्यादिवन्निषेधानुवादाशङ्का- निराकरणार्थो विधिशब्दः, निर्विषयवधाप्रसक्तेर्मृञ्चामहे हविषा विशेषणमित्येनेन न्यायेनो- द्देश्यान्तर्गत्यङ्गीकारेण ब्राह्मण्यविवक्षा युक्तेत्याशयः । सकृच्छ्रुतप्रत्ययस्यानेकार्थविधिपर- त्वायोगात्निर्विषयस्य च लिङ्गस्य विधातुमशक्यत्वाद्यो ब्राह्मणः तं न हन्यात्तं च ब्राह्मण- युग्मं स मेति ब्राह्मणलिङ्गविधौ ब्राह्मणपदप्रत्ययोरावृत्तिः, यद् ब्राह्मणहननं तन्न कुर्यात्तं च पुंसो हननमिति वधलिङ्गविधौ हन्तिप्रत्यययोरावृत्तिरिति विवेकः । प्रतिषेधशब्दोऽपि कर्मव्युत्पत्त्या वधपर एव प्रतिषेधे वध इत्यर्थः । अविभक्तिकवधशब्दपाठे वधश्चासौ प्रतिषेधश्चेति कर्मधारयावृत्तिग्रहणमुपलक्षणार्थम् । द्वितीयव्याख्याने तु प्रतिषेधविधिपरो हि प्रतिषेधशब्देनाभावोऽभिप्रेतः । शुद्धवधा- सम्भवात्तद्विशेषणब्राह्मण्यविवक्षाप्रतियोगिनिरूपणाधीनत्वेन शुद्धस्याभावाख्यस्य प्रतिषेध- स्यासम्भवात्तद्विशेषणवधविवक्षाप्रतिषेधे वेति यो ब्राह्मणहननाभावः तं कुर्यात्तं च पुंसोऽ- भावमित्यभावलिङ्गविधौ नञ्प्रत्यययोरावृत्तिरुक्ता एवं तावन्नञुपहितस्य लिङो निषेधकत्वे प्रवर्त्तनाप्रतीत्यभावेन तदाक्षिप्तसाध्याभावाद् ब्राह्मणस्यानुपयोगित्वेनासंस्कार्यत्वादनुपादेय- पञ्चकव्यतिरेकेण वास्तवोद्देश्यत्वाभावेऽपि शब्दवृत्तेनोद्देश्यत्वादविवक्षितलिङ्गतोक्ता । यदा तु नञ्मात्रेण निषेधसिद्धेर्द्वेषप्रचयंप्राप्तप्रवर्त्तनानुवादार्थत्वं लिङोऽङ्गीक्रियते, तदा प्रवर्त्तनाक्षिप्तवैरनियतनिादिसाध्यसिद्ध्युपयोगिहननसंस्कार्यत्वोपपत्तेर्वस्तुतोऽप्युद्देश्यत्वासुतरां लिङ्गाविवक्षेत्याह—येषां त्विति । प्रवर्त्तनात्मकनिषेधवचनत्वासम्भवप्रतिपादनार्थम्— अत्यन्तभिन्नावित्युक्तम् । वाक्यार्थभावनाविषयत्वेन विधिवन्निषेधस्यापि सर्वपदार्थान्प्रति प्राधान्यात्तद्वाचिनो नञोऽपि प्रत्ययानुग्राह्यत्वोपपादनायोपचाराद्वाक्यार्थावित्युकम् । नानाख्याताथैस्यापि प्राधान्ये वाक्यार्थव्यवस्था स्यादित्याशङ्क्य भावनैव सर्वपदार्थानुर- ञ्जनसहत्वात्सर्वत्र वस्तुतो वाक्यार्थः तद्विषयत्वेन तूपचाराद्विधिनिषेधयोर्वाक्यार्थत्वम्, न चान्यस्य भावनाविषयतास्तीति सूचयितुम्—द्वावेवेत्युक्तम् । तेषां मते श्रूयमाणमपि लिङ्गं प्रतिषेधं प्रत्यनुपयुज्यमानत्वात्तेनापरिगृहीतत्वादविवक्षितमित्यन्वयः । तदुपपादनार्थम्— नञ्स्थित्याद्युक्तम् । पूर्वमतापेक्षयास्मिन्मते विध्यर्थनिषेधाधिक्याल्लिङ्गनिषेधे गौरवातिशय- द्योतनार्थो विध्यर्थमपीत्यपि शब्दः । ब्राह्मणविशिष्टेन हननेन विशिष्टं विध्यर्थं प्रतिषिध्य

३९४ मीमांसादर्शनम् [ सू० चरितार्थत्वान्न लिङ्गं ब्राह्मणे वधे विधी वा कर्त्तव्यतारूपे नञि निषेद्धुं शक्नोति यद्ब्राह्मणं हन्यात्तं च ब्राह्मणं पुमांसं नेति नञ्ब्राह्मणपदयोरावृत्त्यापत्तेः । ब्राह्मणं न हन्यादित्यत्र च ब्राह्मणहननं न कुर्यादित्येव विगृह्याऽर्थप्रतीतेस्तच्च पुंसो हननं नेति वधे लिङ्गनिषेधेन नञ्हन्त्योरावृत्त्यापत्तेः । विधौ च लिङ्गनिषेधे तच्च पुंसः कर्त्तव्यं नेति नञ्प्रत्यययोरा- वृत्त्यापत्तेरित्यर्थः । ननु विशिष्टविधिवद्विशिष्टनिषेधेनापि विशेषणानामर्थाक्षेपोपपत्तेर्नोच्चारणावृत्त्यापत्ति- रित्याशङ्क्य - अनूदितमित्युक्तम् । विधेयस्य यागादेरन्यतो सिद्धस्यापि विधितः स्वरूपा- वधारणसम्भवेन स्वरूपानुवादानपेक्षत्वात्पश्वेकत्वाधिकरणन्यायेन विशेषणविवक्षा युक्ता । निषेध्यस्य स्वन्यतो सिद्धौ निर्विषयनिषेधायोगेनानुवादापेक्षावश्यम्भावादग्रहाधिकरणन्यायेन विशेषणाविवक्षेति भावः । नन्वेवं सति ब्राह्मणहननयोरप्यविवक्षा स्यादित्याशङ्क्य- पूर्वोक्तेत्युक्तम् । सर्वव्यवहारनिरोधापादकत्वे कर्त्तव्यमात्रस्य निषेध्यत्वायोगाद् वधस्य च निर्विषयस्याप्रसक्तेः प्रतिषेध्यत्वासम्भवस्य पूर्वमेवोक्तत्वात् ब्राह्मणविशिष्टस्यैव विध्यर्थ- स्योद्देश्यत्वेनोभयोरपि ब्राह्मणहननयोरुद्देश्यान्तर्भावात्(यस्योभयं हविरार्त्तिमार्च्छतीत्यत्र यस्य कस्यचिदार्त्तौ सत्यां निर्विषयकनिमित्तकयागस्याप्राप्तेः हविःशब्दस्य विवक्षा । तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्, तद्विधाने वाक्यभेदापत्तेः । तस्मादुभयशब्द- स्याविवक्षेति हविरार्त्त्यधिकरणराद्धान्तः १) हविवद्विवक्षा युक्तेत्याशयः । विध्यभावाद् वधकर्त्तव्यत्वस्याप्राप्तेरनुवादासम्भवमाशङ्क्य-द्वेषादीत्युक्तम् । नन्वाख्यातयोगित्वेनास्य नञो नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनाथत्वं न युक्तमित्याशङ्क्य-प्रत्ययेत्युक्तम् । 'य एवं विद्वान्पौर्णमासीं यजत, इत्यादावनुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्ण- मास्यादिशब्दस्य यागवाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नञोऽर्थान्तरवाचित्वेनानुप- पन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नञ्युक्तेष्वपि वाक्येषु नञो विषयसमर्पकत्वा- त्प्रवर्त्तनाथं एव लिङादिरित्येन्मताश्रयेन पूर्वग्रन्थो व्याख्यायते, तदा येषां त्विति ग्रन्थस्य तन्निराकरणार्थत्वाद्व्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि वाक्यार्थरूपा भावना विषय एव, न तु धात्वर्थस्यैव विषार्थिणोति-वाक्यार्थशब्देनोक्तम् । अत्यन्तभिन्नावित्यनेनैकत्वनिराकरणार्थं विपरीतस्वभावतोक्ता । तथा हि- फल-बुद्धि-प्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद् भेदो विधिनिषेधयोः ॥ १ विधिरिष्टफलोऽनिष्टपरिहारफलो परः । प्रेरितोऽस्मीति धीः पूर्वे, वारितोऽस्मीति चापरे ॥ २ विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते । निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता ॥ ३ १. अयं पाठ सर्वत्र नास्ति ।

७ ] प्रथमाध्याये तृतीयपादः ३९५ विधिश्चाधिकरोत्यन्यत्कारणेनाप्रवर्त्तितम् । रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ ४ नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् । लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ ५ एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम्— अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः ॥ ६ दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति । शेषं समानम् । अस्मिन्नेव पक्षे स्पष्टीकरणार्थं वचनव्यक्तिमाह—एषा हीति । तव्ययुक्तवाक्यान्तरा- भिप प्रायो वचनव्यक्त्यन्तरोपन्यासः । पूर्वस्मिन्पक्षे कीदृशी वचनव्यक्तिरित्यपेक्षायामाह— विध्येकत्वे पक्षे पुनरिति । विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभावान्नञा सहैकीकृतत्य तत्सहितस्य निषेधपरत्वं युक्तम् । द्वितीये व्याख्याने तु विधिरेवैकः सर्वत्र, न क्वचिन्नि- षेधोऽस्तीति विध्येकत्वमेकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु- मशक्यत्वेऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् । शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोद्देशः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादि- निषेधानुवादशङ्कानिराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावोऽभिप्रेतः । न कुर्यादिति चाख्यातयोगिनो नञोऽभाववचनत्वादभावं कुर्यादित्यर्थः । न हन्यादित्यक्ते प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्तं वा प्रागभावपरिपालनं विधीयते यो ब्राह्मणहननाभावस्तं कुर्यात्, पालयेदित्यपि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन- व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति—सर्वथेति । सुरापाने वैषम्यमाह—ब्राह्मण इति । व्यतिरेकोपपादनायं कत्रेत्युक्तम् । ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्राख्यातप्रत्ययो- पात्तक्रियागुणभूतत्वेनोपादीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे- षणत्वेनोपादानान्न पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वेनोपादीयमानत्वप्रतीतेरित्यर्थः । श्रुतावपीमं न्यायमतिदिशति—तस्मादिति । पार्श्वस्थापादितमतिप्रसङ्गद्वयं परिहृत्य ब्राह्मणानां सुरापानप्रतिषेधाभावशङ्कामुपसंहरति-अतश्चेति । सुरापाने ब्राह्मणस्यानुद्देश्यत्वेऽ- प्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति—नैतदिति । नन्वनुवाद्यत्वेऽप्युपादेयत्वाद्विशेषण- विवक्षा भविष्यतीत्याशङ्कयाह—नोपादेयत्वमिति । उद्देश्यविशेषणविवक्षायां वाक्यभेदा- पत्तेस्तत्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वेऽप्यविधेयविशेषणस्य विधिना स्प्रष्टुम- शक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रमन्वारम्भणादौ प्रकरणप्राप्तस्यापि यजमानस्य कर्तृत्वेन विधानाद्विशेषणविवक्षा युक्तेति भावः । नन्वनुवाद्यत्वेऽपि ब्राह्मणस्य क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्वविशेषणविशिष्टब्राह्मणविशिष्ट- क्रियानुवादेऽपि यत्पुमान् ब्राह्मणः सुरां पिवेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदा- भावादेकक्रियावशीकारेण चारुणैकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्यपरि-

३९६ मीमांसादर्शनम् [ सू० समासिकलक्षणस्यापि वाक्यभेदस्याभावात्किमिति विशेषणाविवक्षेत्याशङ्क्याह-अनूद्यमान इति । न केवलं प्राधान्येनानूद्यमानस्य प्राप्यपेक्षत्वम्, किन्त्वनुवाद्यविशेषणत्वेनाप्यनूद्य- मानस्येति सर्वशब्देन सूचितम् । तत्रानुवादस्य प्राप्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य स्त्रीपुंसकत्तृकत्वेन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकाङ्क्षितत्वाद्विधेयेऽप्येककर्त्तृकपानाप्रस- क्तेरनुवाद्यपानविशेषणत्वेनाज्ञातज्ञाप्येभ्यो ब्राह्मणादिभ्योऽन्यल्लिङ्गं न विधीयते । नानुवाद्य- विशेषणत्वेनाज्ञातं ज्ञाप्यत इत्यर्थः । नन्वप्राप्तनिषेधायोगान्निषेध्यप्राप्त्यर्थं 'ब्राह्मणः सुरां पिवेदित्यवान्तरवाक्यार्थपर्यवसान- वेलायां विधेयविशेषणत्वेन लिङ्गादिविवक्षा प्रसक्ता पश्चान्निषेधान्वयेऽपि न केनचिद् बाध्यत इत्याशङ्कते तावत्-यदि हीति । तत्र किमप्राप्तस्य पानस्य निषेधायोगादन्यतश्चा- प्राप्तैरर्थाद्विधेयत्वं कल्प्यते 'किं वा वाक्यस्वरसादेव विधिपरत्वं प्रतीयते इति विकल्प्य आद्यं तावत्पक्षं दूषयति-यत्तस्त्विति । द्वितीयं दूषयति-प्रतिषेधेति । यदा च पानं न विधीयते, तदा तत्र ब्राह्मणादेः सत्यपि गुणवादेऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह- तेनेति । भेदवादिमते नाद्यवचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व- वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधीयमानेनेति कर्मव्युत्पन्नस्य विधिशब्दस्य प्रतिषेधशब्देन सह कर्मधारयः । द्वितीयव्याख्याने प्रतिषेधस्याभावस्य विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकं पानं लोके न प्राप्नुयात् ततस्तन्न निषेध्येत, न त्वेतदस्तीत्याह-लोके चेति । एवमनूद्यमानः सर्वो हीति पूर्वार्द्धोक्तमर्थं प्रकृते योजयित्वा, तत्रानाकाङ्क्षितमित्युत्तरार्द्धं योजयति-न चेति । नन्वेवं तर्हि यो ब्राह्मणः पिवेत्स पुमानिति ब्राह्मपदोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्तलिङ्ग- सम्बन्ध एव केवलो विधीयतामत आह-न चास्येति । निषिद्धश्रुतिवैय्यर्थ्यापत्तेरिति भावः । उपसंहरति-ततश्चेति । प्रासङ्गिकाशङ्काशेषनिराकरणावताराय-उभयत्रापीत्युक्तम् । ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवधेऽपि ब्रह्महत्यापत्तेर्महापातकनिमित्तकर्म- हान्यादिप्रसङ्गः स्यादित्याशङ्काक्षेपमाह-नन्विति । अत्र कुशावस्था अस्तीत्यात्रेयी गर्भिणी । अभ्युपगमेनैव परिहरति-ब्राह्मणेति । न च महापातकत्वे प्रायश्चित्ताल्पत्वं विरुद्धयते, पुंब्राह्मणवधेऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह-न चेति । उपसंहरति- तस्मादिति । सुरापानस्य तु स्त्रीकर्त्तृकस्यापि प्रायश्चित्तान्तरानाम्नानान्निःसन्दिग्धं महापात- कमित्यहिच्छत्रब्राह्मणीसुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह-सुरापाने पुनरिति । नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्तरनिवासिब्राह्मणी- विषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्याशङ्क्याह-यापि चेति । स्मृतिविरोधेऽदृ- तनाचाराप्रामाण्यं विस्तरेणोपपाद्योपसंहरति-इतीति । एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामाण्यप्रतिपादनपरतयाऽपि वेति सूत्रं व्याख्याय, इदानीं सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसिद्धान्तसूत्रमाचारा-

७ ] प्रथमाध्याये तृतीयपादः ३९७ धिकरणपूर्वपक्षेऽप्यावृत्त्या योजयितुमुपक्रमते-अथ वेति । पूर्ववर्णके दुराचारसङ्करेण पूर्वपक्षाभिधानाय सर्वदेशनिवासिशिष्टाचारोदाहरणाद् तद्व्यावृत्त्यर्थमार्यावर्त्तनिवासिशि- ष्टाचारणामेवोदाहरणत्वमाह-इहेति । अर्थकामाचारव्यावृत्त्यर्थं धर्माचाराणामेवोदाहरणत्वं दर्शयन्सन्देहमाह-धर्मबुद्धयेति । दुराचारसङ्करस्याप्रामाण्यहेतोरायावर्त्तनिवासिधर्माचारेष्व- सम्भवात् सन्देहहेतुं प्रश्नपूर्वकमाह-कुत इति । नन्विदं कर्त्तव्यमिदं कर्त्तव्यमिति सदाचाराणां विशेषरूपेणानिबन्धनेऽपि, सदाचारः प्रमाणमिति सामान्यतो निबन्धनमस्ती- त्याशङ्कते - ननु चेति । स्मृत्यधिकरणसाधितोत्स्मृतिप्रामाण्यादेवाचारप्रामाण्यं सिद्धमि- त्यर्थः । अष्टकादिस्मृतीनां मूलश्रुत्यदर्शनेऽपि तदभावे हेत्वदर्शनादविरुद्धं श्रुत्यनुमानम् । आचारप्रामाण्यस्मृतौ तु मूलश्रुत्यभावसाधनस्य हेतोराचारमूलत्वलक्षणस्य स्मृत्यन्तरेभ्यो- ऽतिरिक्तत्वात्स्मृत्यन्तरन्यायेनाचारप्रामाण्यस्मृतिप्रामाण्यासद्धेनं स्मृतिवलादाचारप्रामाण्य- सिद्धिरिति । परिहरति-नेति । एतदेव विवृणोति - शास्त्रान्तरेति । आचारदर्शनमात्र- प्रवृत्तमेवोपपादयितुं प्रतिजानीते- यथैव चेति । उपपादयति - यदि हीति । अतो न्याय- मूलत्वात्स्मृतेर्न्यायसाध्वसाधुतैव विचार्येत्याह-इतीति । सन्देहमुपपाद्य पूर्वपक्षसूत्रगतनवर्थ- व्याख्यानार्थं सिद्धान्तेनोपक्रमते - तत्रेति । विरोधाधिकरणे विरुद्धस्मृतिप्रामाण्यापवादे- नाविरुद्धस्मृतिप्रामाण्यं निरपवादमुक्तमिति मत्वा द्वयबलेनेत्युक्तम् । प्रतिज्ञानम् = उपक्रमः। घञन्तात्करोतेः कारशब्दं व्यापारवचनं व्युत्पाद्य सोऽस्यास्तीति मत्वर्थीयेनिप्रत्ययान्तस्य कारिशब्दस्य कर्तृवचनत्वाच्छ्रौतस्मार्तस्तुल्याः कर्त्तार एषामिति विग्रहः कार्यः। मन्वादिभि- श्चाचारमूलश्रुत्यदर्शनेऽपि तदर्थस्य शिष्टव्यवहारादेव सुज्ञानत्वेनानिबन्धनोपपत्तेः स्मृतितो- ऽप्याचारप्रामाण्यं सिध्यतीत्याह - स्मृतिकारैरिति । उपक्रान्तसिद्धान्तनिराकरणार्थत्वेन पूर्वपक्षसूत्रमवतार्यं व्याख्यातुमध्याहारेण पूरयति - तद्विति । व्याचष्टे - शास्त्रेति । तृतीयासमासाभिप्रायं कर्मव्युत्पत्तिप्रदर्शनम्, बहुव्रीहौ तु भावव्युत्पत्तिरेव षष्ठीसमासेन च विद्यास्थानातिरिक्तत्वेन शाक्यादिग्रन्थवदाचाराणामप्येनेनाप्रामाण्यमुच्यत इत्यन्यथा व्याचष्टे - परिमितानि चेति । ननु शब्दात्मकानामेव शास्त्राणामियत्तानियमादशब्दात्म- कस्यापि सदाचारस्य पुरुषहितबोधकत्वाच्छास्त्रत्वं भविष्यतीत्याशङ्क्य स्वरसेन त्वेषां धर्मबोधकत्वम्, आचारश्चैव साधूनामिति स्मृत्यनुसाराद्वेति विकल्प्य आद्ये पक्षे स्वरूपेण तावदाचारस्य क्रियारूपस्याबोधकत्वाच्छास्त्रत्वमनाशङ्क्यमेवेत्याह-न चेति । ननु स्वरूपेणाबोधकत्वेऽपि शिष्टानुष्ठानदर्शनादस्मदादीनां धर्मबुद्धयुत्पत्तेस्तद्द्वारेण शास्त्रत्वं भविष्यतीत्याशङ्कयाह - नापीति । शिष्टानुष्ठानान्यथानुपपत्त्या अनुष्ठेयस्योत्सवादेर्धर्मत्वं कल्प्यम्, भ्रान्त्यादिनापि त्वनुष्ठानोपपत्तेर्नैकान्ततः शिष्टैरनुष्ठीयमानस्याचारस्यास्मदादि- भिर्दर्शनम्, शिष्टाचारानुष्ठानं वा धर्मत्वं कल्पयितुं शक्यम्, विशेषतश्च दर्शनस्यानुष्ठान- मात्रानुविधायित्वेनात्यन्तपरायत्तत्त्वादनुष्ठानस्य च प्रमेयत्वादबोधकत्वादित्यर्थः । द्वितीयपक्षे दूषणमाह - स्मृतेस्त्विति । तृतीयप्रकारेण व्याख्यातुं विकल्पयति - किं चेति । एकश्रुत्यनुमानासम्भवं ताव- दुपपादयति - न तावदिति । अनेकश्रुत्यनुमानासम्भवमपरिमितानां पाठाशक्तेरपठितानां

३९८ मीमांसादर्शनम् [ सू० च मूलत्वासम्भवेनोपपादयति-यावदाचारं हीति । तुशब्दार्थे हिशब्दः । ननु सर्वाचाराणा- मेकश्रुतिमूलत्वासम्भवेऽप्येकदेशादिगतानां भिन्नानामप्येकमूलत्वोपपत्तेरनेक श्रुत्यनुमानेऽप्यल्प- त्वान्न वेदसम्मितश्रुतिकल्पनापत्तिरित्याशङ्क्याह-एकस्य त्विति । एकदेशादिगताना- मप्यनेकेषामेकोपलक्षणाभावान्नैकमूलत्वोपपत्तिरिति भावः । अभ्युपगम्याप्यल्पत्वेन शक्यपाठत्वमनिबन्धनामूलदर्शनाभावोऽवसीयेत इत्याह-न चेति । ननु प्रत्यक्षोपलम्भाभावेऽप्याचारदर्शनादेव तत्तदाचारमूलभूताः श्रुतीरनुमायाऽन्येषामपि तथैव श्रुत्यनुमानसिद्धयर्थं सामान्यमात्रेणाचारप्रामाण्यमुपनिबद्धमित्याशङ्कयाह-न चेति । मूलत्वेनाचारस्य बलवत्त्वोपपत्तेर्मूलित्वेन च स्मृतेर्दौर्बल्यापत्तेर्वक्ष्यमाणं स्मृतिबलीयस्त्वं विरुध्येतेत्याशयः । मूलमूलिभावस्य वलावलभावस्य च विपर्ययप्रसङ्गादिति वा योज्यम् । अस्मिन्नेवार्थे शास्त्रस्य परिमितस्य स्तोकस्यैवानुमातुं शक्यत्वादितिसूत्रं योजयति- अत इति । ननु बहूनामप्याचाराणामेकैव स्मृतिः सरूपा श्रुतिमूलभूतानुमास्येतऽत आह- न चेति । न केवलमाचाराणां श्रुतिमूलत्वाभावप्रसङ्गः, किं तु श्रुतेरेवाचारपूर्वकत्वापत्ते- र्विपर्ययोऽपि प्रसज्येतेत्यर्थः । एतदेवोपपादयति -- शिष्टाचार इति । एतमेवार्थमर्थान्तर- न्यासेन दर्शयितुं शास्त्रशब्दे शास्त्रीयमर्थं लक्षयित्वा तस्य परिमित्वादल्पत्वादिति चतुर्थं व्याख्याप्रकारमाह-शास्त्रेति । यद्वा शास्त्रीयस्यार्थस्य परिमितत्वात्कतिपयत्त्वान्मानान्तरा- गोचरत्वादिति वदतानेन सूत्रेण परिमिते मानान्तरागोचर एवार्थे शास्त्रं प्रवर्त्तते । सदा- चाराणां तु शिष्टव्यवहारादेव सिद्धत्वेन मानान्तरगोचरत्वान्न शास्त्रविषयत्वं सम्भवती- त्युक्तमिति पञ्चमं व्याख्याप्रकारमाह-परिमित्तेति । एतमेवार्थमुपपादयितुं गृहस्थ्यादि- कर्मणामशास्त्रीयत्वप्रतिपादनाथंस्य 'अशास्त्रा तूपसम्प्राप्तिः शास्त्रं स्यान्न प्रकल्पकं तस्मादर्थेन गम्येताऽप्राप्ते शास्त्रमर्थवदि' (६.२.१८) त्यस्य षष्ठाध्यायगतस्य सूत्रस्यैकदेशं पठति- अप्राप्ते इति । मानान्तरगोचरत्त्वमेवार्थं सुखाङ्गत्वेन द्रढयति-दृश्यमानेति । अर्थसुखा- ङ्गानां धर्मत्वाभावे दृष्टान्तमाह-वैश्यानामिति । पूर्वपक्षमुपसंहरति-तस्मादिति । शीलात्मतुष्टिग्रहणेन तयोरपि तुल्यन्यायत्वाद्विचारविषयत्वं दर्शितम्, स्वभावरचितं शीलम् । निषेधस्याश्रौतत्वे नञो सामञ्जस्यापत्तेरपरितोषात् सिद्धान्तोपक्रममपि सूत्रारूढं कर्तुमुपक्रमते-यद्वेति । अस्मिंश्च पक्षे शिष्टाकोपसूत्रमप्यावृत्त्या वेदाविरुद्धशाक्यादिवाक्य- विषये पूर्वपक्षसूत्रत्वेन शिष्टाचारविषये च सिद्धान्तोपक्रमार्थत्वेन योज्यं द्वितीयवर्णकव- दत्राप्यार्यावर्त्तनिवासिशिष्टाचारणामेवोदाहरणत्वमनिबन्धनत्व-कर्तृ सामान्यरूपधर्मद्वयदर्शनं च सन्देहकारणम्, सूत्रयोजनामात्रतिरिक्तमिति दर्शयन् सिद्धान्तोपक्रमं सूत्रारूढं करोति - इहेति । तत्राकोपाविरुद्धशब्दयोः पौनरुक्त्यमाशङ्कयाचेनाविरोधोऽभिहितो द्वितीयेन प्रामाण्यमिति स्वरूपतस्तावद्व्याचष्टे-तथा हीति । नन्वविरोधेऽप्याचाराणां विद्यास्थानाति- रिक्तत्वाच्छाक्यादिग्रन्थवदप्रामाण्यं भविष्यतीत्याशङ्क्य, स्मृतिकारानुज्ञानेनातिरेकस्यादोषत्वं दर्शयितुं विरोधे सत्येवाप्रामाण्यं स्यात् नान्यथेत्येवं परतया व्याचष्टे-यदीति ॥ ७॥ ॥ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ ५॥

७ ] प्रथमाध्याये तृतीयपादः ३९९ भा० प्र०—"अपि वा" = पूर्व पक्ष के निवारण अर्थ को कह रहा है, "कारणा- ग्रहणे" = कारण का अर्थात् स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह आदि हैं, उनके अग्रहण में अर्थात् ग्रहण या ज्ञान न होने पर, "प्रयुक्तानि" = स्मृति- प्रयुक्त अर्थात् स्मृति से विहित आचमन आदि कर्म, "प्रतीयेरन्" = अविरुद्ध अर्थात् प्रमाण या अनुष्ठेय के रूप में प्रतीत होंगे । स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह आदि हैं उनकी सम्भावना न रहने पर श्रौत क्रम आदि के विरोधी होने पर भी आचमन आदि स्मार्तं कर्म को प्रमाण अर्थात् अनुष्ठेय समझना चाहिए । आशय यह है कि सूत्र में "अपि वा" इस शब्द से पूर्वपक्षी की आशङ्का का निवारण किया गया है । श्रौतकर्म काल एवं परिमाण आदि के विरोधी होने पर भी आचमन आदि स्मार्तं पदार्थ अर्थात् कर्म अनुष्ठेय होगा, क्योंकि इन कर्मों के अप्रामाण्यका कोई कारण नहीं है । लोभ, मोह आदि ही अप्रामाण्य का कारण है; किन्तु आचमन दक्षिणाचार आदि स्मार्तं कर्म लोभादिमूलक नहीं है । अत एव उनका अप्रामाण्य नहीं है, अपितु प्रमाण होने से अनुष्ठेय हैं । इस स्थल में आचमन आदि पदार्थ अर्थात् पदप्रतिपाद्य कर्मफल धर्मी है और आनन्तर्य आदि उस पदार्थ के आश्रित धर्म है । अतः धर्म और धर्मी में विरोध होने पर धर्मी ही निर्बाध होता है । क्योंकि, धर्मिरूप आश्रय के बाधित होने पर धर्मरूप आश्रित रह ही नहीं सकता है । इसलिए पदार्थ (कर्म) में आश्रित आनन्तर्य आदि क्रम श्रौत होने पर भी उसके द्वारा स्मृतिविहित आचमन आदि कर्मों की बाधा नहीं हो सकती है । धर्मी के आविर्भाव के बाद धर्म का आविर्भाव होने से आचमन आदि धर्म के पूर्व में या एक समय में आनन्तर्य आदि रूप क्रम आदि उपस्थित ही नहीं है । सभी शास्त्रीय कर्मों का शुद्ध होकर अनुष्ठान करना पड़ता है—यही नियम है । आचमन यज्ञोपवीतित्व, दक्षिणाचारता आदि शुद्धि या शौच का हेतु है, अतः ये कर्म के ही अङ्ग है । अङ्ग प्रधान या अङ्गी की परिपूर्णता का ही साधन करता है, प्रधान का बाधक नहीं होता है, क्योंकि जो जिसका अङ्ग नहीं होता है ऐसा समकक्ष पदार्थ (कर्म) एक में दूसरे की बाधा को उत्पन्न कराता है । किन्तु आचमन आदि स्वतन्त्र कर्म नहीं हैं, ये सभी कर्म के ही अङ्ग हैं । इसलिए ये समय में ही अनुष्ठेय हैं । इसीलिए शास्त्रकार ने कहा है— सदोपवीतिना भाव्यं सदा बद्धशिखेन तु । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥ अर्थात् "सदा उपवीति अर्थात् बायें कन्धे पर यज्ञोपवीत को धारण करे एवं सभी कार्य शिखा को बांधकर करे शिखाहीन होकर एवं उपवीती हुए बिना, जो कुछ भी करता है, वह न करने के समान है इस प्रकार वामहाथ से किया गया कार्य भी

४०० मीमांसादर्शनम् [ सू० अग्राह्य ही रहता है। इसलिए आचमन उपवीतित्व बद्धशिखत्व, दक्षिणाचारता अवश्य ही कर्तव्य है। सभी स्थलों में कृताचमनत्व, यज्ञोपवीतित्व, बद्धशिखत्व, दक्षिणाचारता आदि विचारित विषयों में सभी का अनुकूल वेद वचन विद्यमान रहने से इनको स्मार्तं कर्म अर्थात् अप्रत्यक्ष श्रुतिविहित कर्म मानकर श्रुतिविहित क्रम इत्यादि के साथ इनका विरोध उपेक्षणीय है या नहीं—इसप्रकार किया गया विचार दृढ़ नहीं है, कारण; ये यदि प्रत्यक्षश्रुति से उपदिष्ट न होते तो श्रौत कर्म और स्मार्तं कर्म या पदार्थ का विरोध उपेक्षणीय है कि नहीं—इस प्रकार का विचार बलवान् होता, किन्तु, दोनों ही श्रौत हैं तब उनका विरोध रहने पर भी वे प्रबल नहीं हैं। इसलिए, वार्त्तिककार ने इस स्थल में भिन्न प्रकार से ही अधिकरण की रचना की है। अतः पूर्व अधिकरण का “विरोघे त्वनपेक्षं स्यात् असति ह्यनुमानम्” “हेतुदर्शनाच्च” शिष्टाकोपेऽविरुद्धमिति चेत्” “न शास्त्रपरिमाणत्वात्” इन चार सूत्रों को लेकर एक अधिकरण माना है। “अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” यह सूत्र एवं आगे के सूत्र का 'तेष्वदर्शनात् विरोधस्य' यहाँ तक के अंश को ग्रहण कर दूसरा अधिकरण होता है। इस प्रकार जिन दो अधिकरणों की रचना हुई है; उनमें पूर्व अधिकरण में पाञ्चरात्र, पाशुपत एवं शाक्यमत के प्रामाण्य का खण्डन किया गया है। पाञ्चरात्र, एवं पशुपत ये कहो वेदमूलक भी हैं, किन्तु शाक्य- मत तो सर्वथा वेद बाहर है। इसलिए शाक्यमत का खण्डन ही वार्त्तिक मत में प्रदर्शित किया गया है। पूर्व अधिकरण के द्वारा स्मृतियों का वेदमूलकत्व सिद्ध किया गया है, प्रदर्शित दृष्टि के अनुसार यदि शाक्य आदि के स्मरणों को भी वेदमूलकत्व मानकर उनके प्रामाण्य की आशङ्का भी की जा सकती है, शाक्य सिंह (बुद्ध, महावीर) क्षत्रिय हैं, अतः क्षत्रिय मनु की स्मृतियों के समान उनका भी प्रामाण्य मानने में क्या आपत्ति है, क्योंकि, उन लोगों ने भी वेद का ज्ञान किया होगा ? इस प्रसङ्ग में यह कहना है कि “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”, “हेतुदर्शनाच्च”। आशय यह है कि शाक्य आदि की स्मृतियों का वेदमूलकत्व अनुमान नहीं हो सकता है, क्योंकि “असति अनुमानम्” वेद का विरोध न रहने पर वेदमूलकता का अनुमान हो सकता है, किन्तु, “विरोधे त्वनपेक्ष्यम्” अर्थात् शाक्य आदि की वेद विरुद्धता अतिशय स्पष्ट है, इसलिए उनकी स्मृतियां वेदमूलक नहीं है। धर्म का उपदेश करना क्षत्रिय का कर्तव्य नहीं है। ब्राह्मण से अतिरिक्त वर्णों के लिए धर्म का उपदेश करना निषिद्ध है, केवल ब्राह्मण का ही यह कार्यं है। बुद्ध आदि ने क्षत्रिय होकर भी अशेष जीवन को धर्म के उपदेश देने में ही व्यतीत किया है, अतः उनका सम्पूर्ण जीवन शास्त्र विरुद्ध कर्मों के अनुष्ठान में ही व्यतीत हुआ है। आत्मा का उद्धार करना ही सभी लोगों के लिए प्रथम कर्तव्य के रूप में शास्त्र में कहा गया है, किन्तु, उन्होंने कहा कि मैं अनन्त नरक में ही जाऊँ कोई क्षति नहीं है, संसार के

७ ] प्रथमाध्याये तृतीयपादः ४०१ प्राणियों की मुक्ति हो, जो व्यक्ति आत्मघाती है स्वयं ही धर्म को नहीं मानता है, नरक का भय नहीं करता है—वह धर्म का उपदेश कैसे देगा ? वह उपदेश दे भी तो उसका उपदेश वेदमूलक कैसे हो सकता है ? उन्होंने वेद से ही धर्मतत्त्व की अवगति की और वेद के विरुद्ध प्रचार किया, माता और पिता का द्रोही है जो माता और पिता को जनक और जननी नहीं मानता है, गौतम बुद्ध ने भी वेद से ही धर्म के तत्त्व की अवगति की किन्तु वह अपने धर्मोपदेश को वेदमूलक नहीं मानता है, धर्म और अधर्म प्रत्यक्ष के अयोग्य हैं, अतः कितना बड़ा भी योगी क्यों न हो, वह अपने प्रभाव से उनका प्रत्यक्ष कर उपदेश नहीं दे सकता है। इसलिए, जब उस मत को मानने वाले स्वयं ही जब धर्म को वेदमूलक नहीं मानते हैं, तब श्रद्धा के कारण जड़मति वर्णाश्रम को मानने वाला उनके उपदेश को वेदमूलक कहे तो यह कैसे सङ्गत होगा ? “हेतु-दर्शनात् च” । इनकी स्मृतियाँ लोभ आदि अनेक कारणों के वर्तमान रहने से, उनको वेदमूलक नहीं कहा जा सकता है। बौद्धगण अपने सम्प्रदाय में अनुस्मृत स्मृतियों को वेदमूलक होने से प्रमाण नहीं माना है। अपि तु अनेक हेतु जालों से उनके उपदेश की धर्मप्राणता सिद्ध करने का प्रयास किया है। वैदिकों के धर्मोपदेश के आधार पर यागादि को धर्म नहीं माना है। यदि इस प्रसङ्ग में यह कहा जाय कि “शिष्टाकोपे अविरुद्धम्” । साधारण रूप में बुद्ध आदि की स्मृतियाँ अनादरणीय भले ही हो, किन्तु अहिंसा, शम, दम, दान आदि विषयों की कर्त्तव्यता का उपदेश होने से उनके साथ वेदानुशिष्टकर्मों का किसी प्रकार का विरोध न होने से वे प्रमाण हैं और वे धर्मार्थ में बुद्धादि की स्मृति होने पर भी ज्ञातव्य क्यों नहीं होगी ? अर्थात् ज्ञातव्य ही होगी । इस प्रसङ्ग में कहना है कि ऐसा नहीं हो सकता है, क्योंकि, यह सङ्गत नहीं है, “शास्त्रपरिमाणत्वात्” क्योंकि, सभी शास्त्र परिमित हैं, क्योंकि किस-किस शास्त्र से धर्म ज्ञातव्य है—इसका शास्त्रों में ही निर्देश कर दिया गया है। बौद्ध आदि स्मृतियाँ उनके अन्तर्गत नहीं हैं, अतः उनसे धर्म ज्ञातव्य नहीं है। “मनुर्वे यत्किञ्चिन आवदत् तद् भेषजम्” अर्थात् मनु ने जो कहा है वह मनुष्य के पाप= व्याधि का भेषज=औषध है, इत्यादि वेद वचन के द्वारा ही निर्दिष्ट है। किस शास्त्र से धर्म ज्ञातव्य है—इसमें वेद का निर्देश ही प्रमाण है। वेद के अनुसार ही स्मृति में भी कहा गया है— पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ चार वेद, छ वेदाङ्ग, पुराण, न्याय, मीमांसा एवं धर्मशास्त्र ये चौदह स्थान अर्थात् शिष्टों से परिगृहीत शास्त्र ही विद्या एवं धर्म के चतुर्दश स्थान हैं। ये नित्य हैं, प्रत्येक कल्प में मनु आदि महर्षिगण पूर्ववत् वेदार्थ का स्मरणादि (स्मृतियाँ) निबद्ध कर देते हैं, आकल्प विच्छेद से ये सर्वथा रहित हैं। अतः, इनसे ही धर्मतत्त्व ज्ञातव्य है बौद्ध ग्रन्थों से ज्ञातव्य नहीं हैं। २६

४०२ मीमांसादर्शनम् [ सू० अहिंसा, दान आदि वेद से उपदिष्ट होने पर भी बौद्धों के संस्पर्श से सुराभाण्ड में स्थित गङ्गाजल के समान हैं, कुत्ते के चमड़े से बनायी गई दृति (किस्ति) में रखे गये गोदुग्ध के समान वह अपवित्र हो जाने से उनकी स्मृतियों से वे ज्ञातव्य होने पर धर्म नहीं होंगे। अपितु वेद में उल्लिखित महर्षियों के ग्रन्थों से ही धर्म होता है—इसीलिए आचार्य कुमारिल भट्ट ने कहा है— “वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥” वेदोक्त अहिंसा आदि और बुद्धोपदिष्ट अहिंसा आदि समान नहीं है, क्योंकि उनके मत में हिंसात्व अवच्छेद में हिंसा वर्जित होने से ज्योतिष्टोम आदि यज्ञ में भी हिंसा परित्याज्य होगी, किन्तु, इस पक्ष में वेद विधि रूप में विहित हिंसा में पाप नहीं है, अपि तु वेदविधि के अविषयत्व एवं वेद निषिद्धत्व रूप में हिंसा पाप है। ज्योतिष्टोम आदि यज्ञ में हिंसा वेदविहित होने से वह अवश्य अनुष्ठेय है, किन्तु उनकी स्मृति के अनुसार अहिंसा अवलम्बनीय होने से ज्योतिष्टोमादि यज्ञ के स्थल में भी हिंसा का परित्याग करना होगा। सन्देह नहीं कि आज बौद्ध धर्मों में अतिशय अनुराग होने से विहित स्थल में भी हिंसा के वर्णन का विपुल प्रयास चल रहा है साथ ही अमेध्य मांस भक्षण की प्रवृत्ति भी उसी अनुपात में बढ़ रही है। धन्य है धर्म और अन्धानुराग-परम्परा एक ओर हिंसा का विरोध और दूसरी ओर हिंसाजन्य उपलब्ध मांस भक्षण की अतिशय प्रवृत्ति । इसीलिए वार्त्तिककार ने कहा है— शोभासोक्त्यं-हेतूक्तिकलिकालवशेन वा । यज्ञोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ वेदादिशास्त्रों में ब्राह्मण से भिन्न को विधिपूर्वक सम्प्रदान निषिद्ध है, किन्तु बौद्धादिस्मृतियों में इसे ही प्रशंसनीय विषय के रूप में स्वीकार किया गया है। शम, दम आदि के सम्बन्ध में भी यही रीति अपनानी चाहिए। अतः वेद बहिर्भूत बौद्धादि- स्मृति प्रमाण नहीं है। “अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” इस सूत्र की व्याख्या में वार्त्तिककार ने शिष्टाचार का प्रामाण्य प्रतिष्ठापित किया है। होलाक (होली का उत्सव) आदि कर्म जो प्रत्यक्ष श्रुति से विहित नहीं हैं एवं स्मृतिकारों ने उन्हें निबद्ध नहीं किया है, किन्तु शिष्ट = वेदप्रामाण्यवादियों ने इनका अनुष्ठान किया है। अतः यह विचारणीय है कि ये शिष्टाचार प्रमाण है या नहीं ? इस सन्देह में यदि यह कहा जाय कि (पूर्वपक्ष के रूप में) शिष्टाचार संख्याबद्ध एवं व्यवस्थित प्रमाण नहीं है, साथ ही अनेक शिष्टों ने भी बहुत

८ ] प्रथमाध्याये तृतीयपादः ४०३ से अकर्म किये हैं, अतः, शिष्टाचार प्रमाण नहीं है। इस प्रसङ्ग में कहा है— "कारणाग्रहणे" शिष्टाचार के मूल में यदि काम, क्रोध आदि कारण न रहें तो "प्रयुक्तानि" अर्थात् स्मृति रूप में निबद्ध न रहने पर भी वे कर्म शिष्टों के द्वारा आचार के रूप में सम्पादित हो रहे हैं, वे "प्रतीयेरन्" धर्म के रूप में प्रतीत होंगे। "तेषु अदर्शनात् विरोधस्य" अर्थात् उन कर्मों के विरुद्ध वचन शास्त्र में नहीं देखे गये हैं। अतः शिष्ट धर्म की बुद्धि से जो अनुष्ठान कर रहे हैं, वे भी धर्म में प्रमाण है और और वे ग्राह्य हैं। ये शिष्टाचार देश के भेद से, कुल के भेद से अनेक होने से, ग्रन्थ के विस्तार के भय से स्मृतिकार ने उन्हें उपनिबद्ध नहीं किया है। इसीलिए उन्होंने शिष्टाचार को प्रमाण कहा है। यथा— वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ मनु० २/६ समग्र वेद धर्म में प्रमाण है एवं वेदवेत्ताओं की स्मृतियां और शास्त्र शिष्टों का आचार एवं आत्मतुष्टि धर्म में प्रमाण है। याज्ञवल्क्यस्मृति में कहा गया है— श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ (याज्ञव० स्मृ०) श्रुति, स्मृति, सदाचार, अपना प्रिय अर्थात् आत्मतुष्टि एवं सम्यक् सङ्कल्पमूलक कामना ये धर्म में प्रमाण है। अतः स्मृति के समान ही शिष्टाचार भी प्रमाण है। शिष्टा- चार प्रमाण भी अनुमान के द्वारा ही प्रतिपादित है— होलाक प्रभृति आचार प्रमाण हैं (प्रतिज्ञा) यतः वे धर्मबुद्धि से शिष्टों से (वैदिकों) अनुष्ठित हैं (हेतु) जैसे अष्टका आदि का अनुष्ठान (उदाहरण) शिष्टाचार को प्रमाण मानने पर स्थल विशेष में शिष्टों का अकर्म भी प्रमाण होगा, यह आपत्ति ठीक नहीं है, क्योंकि वे आचरण धर्म बुद्धि से उनके द्वारा सम्पादित नहीं है। अतः अविगीत (अनिन्दित) शिष्टाचार को ही प्रमाण माना गया है ॥ ७ ॥ अथ चतुर्थयववराधिकरणम् [४] तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् ॥८॥ पू० शा० भा०—'यवमयश्चरुः, वाराही उपानहौ, वैतसे कटे प्राजापत्यान् संचिनोति' इति यववराहवेतसशब्दान् समामनन्ति। तत्र केचिद्दीर्घशूकेषु यवशब्धं प्रयुञ्जते, केचित् प्रियङ्गुषु। वराहशब्दं केचित्सूकरे, केचित्कृष्ण- शकुनौ। वेतसशब्दं केचिद्वञ्जुलके, केचिज्जम्बवाम्। तत्रोभयथा पदार्थाव- गमाद्विकल्पः ॥ ८ ॥

भा० वि०—एवं तावत्स्मृत्याचारयोः उत्सर्गतः प्रामाण्यम् श्रुतिविरोधे तद- पवादम्, क्वचिदपवादादपवादं चोक्तेदानीमाचारयोरेव मिथो विरोधे किं बलीय इति विचारयति इति । तत्र शब्दानामर्थविषये प्रयोगरूप आचारविशेषे विप्रति- पत्त्या संशयं दर्शयितुं शब्दानुदाहरति—यवमय इत्यादिना । एतद्वाक्यगतानां यव-वराह-वेतसशब्दानां लौकिकप्रयोगेषु विप्रतिपत्तिमाह—तत्र केचिदिति । अत्र प्रयुञ्जत इति प्रियङ्गवादिष्वनुषज्यमानवर्तमानोपदेशसामर्थ्याद्यव-वराह- वेतसशब्दानां प्रियङ्गु-वायस-जम्बूष्वार्यप्रयोगाभावेऽपि, म्लेच्छप्रयोगे भाष्यकारे- णोपलब्ध इति गम्यते, अतो नोदा^१हरणत्वानुपपत्तिरित्यवसेयम् अनेन च विप्रति- पत्तिप्रदर्शनेन किं द्वावप्यर्थावृतैक एवेति तुल्यबलत्वातुल्यबलत्वाभ्यां संशयस्सू- चितः, न चानवधृतप्रामाण्यस्य म्लेच्छाचारस्य बलाबलचिन्तैवानुपपन्नेति वाच्यम्, उत्तराधिकरणन्यायेन प्रामाण्यावधारणमाश्रित्य बलाबलचिन्तोपपत्तेरित्यवसेयम् । प्रयोजनं तु विचारस्य चर्वादौ दीर्घशूकादेः प्रियङ्गवादिना सह विकल्पप्राप्तिः तेष्वित्यादिसूत्रं योजयन् पूर्वपक्षमाह—तत्रेति । अयमर्थः यदि म्लेच्छप्रसिद्धेरार्यप्रसिद्धिर्बलीयसी, ततस्तत्सिद्ध एवार्थो ग्राह्यः । नत्वेवं धर्मविषये शास्त्रानुसारिण्यास्तस्या बलवत्त्वेऽपि, वृद्धव्यवहाराव- गम्यपदार्थेषु शिष्टम्लेच्छप्रसिद्धयोर्विशेषादर्शनेनोभयथा शिष्टानां स्वस्वप्रसिद्धा म्लेच्छप्रसिद्धा च म्लेच्छानामपि स्वप्रसिद्ध शिष्टप्रसिद्धा च शब्दार्थावगमसंभवे सति द्वयोरपि पदार्थप्रतिपत्त्योः मूलप्रमाणाविशेषेण तुल्यबलत्वाद्व्वावप्यर्थाविति विकल्पेन पदार्थप्रयोगः प्राप्नोतीति । अनेन च तेषु पदर्थेषु शिष्टम्लेच्छप्रसिद्धयोः विरोधस्य वैलक्षण्यस्य विशेषस्यादर्शनात्, समा-समबलैव स्यात् विप्रतिपत्ति- रिति सूत्रार्थो दर्शितः ॥ ८ ॥ त० वा—तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषयप्रयोग- शिष्टारविप्रतिपत्तौ सन्देहः । एकशब्दमनेकार्थ शिष्टैराचर्यते यदा । विगानेन तदा तत्र कोऽर्थः स्यात्पारमार्थिकः ॥ ३९९ यव-वराह-वेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयु- ज्यन्ते । तेन तद्द्वचनत्वे हि सन्देह उपजायते । अनिरूपिततत्त्वानां यावद् दृष्टानुसारिणामम् ॥ ४०० तत्राऽऽह नैव सन्देहः कर्तव्योऽत्र मनागपि । प्रयोगं प्रति तुल्यत्वात्सर्वलोकप्रयोगिणाम् ॥ ४०१ १. अत्र वार्तिककृता भाष्यमते समुद्भाविते दोषं निरस्यतीति बोध्यम् ।

८ ] प्रथमाध्याये तृतीयपादः ४०५ यत्र देशे हि यः शब्दो यस्मिन्नर्थे प्रयुज्यते । शक्तिस्तद्गोचरा तस्य वाचिकाख्या प्रमीयते ॥ ४०२ तस्याश्च सर्वगामित्वं तन्न्यायत्वात्प्रमीयते । नैकेषामेव सा ह्यस्ति केषांचिद्वा न विद्यते ॥ ४०३ ज्ञाताज्ञातविभागस्तु ज्ञातृभेदेऽवकल्पते । तस्माच्चैरपि न ज्ञाता यच्छब्दार्थस्य वाच्यता ॥ ४०४ तैरप्यभ्युपगन्तव्या स्वप्रसिद्धिसमा हि सा ॥ ४०५ न चाल्पत्वबहुत्वाभ्यां प्रयोक्तॄणां विशिष्यते । वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ ४०६ बिभीतकेऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते । तथाऽपि वाचकस्तस्य ज्ञायते शकटाक्षवत् ॥ ४०७ तथा चोक्तं शवतिर्गतिकर्मा कम्बोजेष्वेव दृष्टः । विकारापन्नमार्याः प्रयुञ्जते, शवमिति मृतशरीराभिधानादित्यादि । बहव एव हि धातवो नामशब्दाश्च प्रति- देशमर्थभेदेषु व्यवस्थिता दृश्यन्ते तस्मात्समयेमभिधाने विप्रतिपत्तिः स्यात् । एवं च विकृतिषु केषांचिदर्थानां साधारणशब्दवाच्यत्वात्प्रकृताविवाविकृतप्रयोगादार्षं चोदकोऽनुग्रहीष्यते । 'तेष्वदर्शनाद्विरोधस्य' इत्यत्रैव चैतद् व्याख्येयम् । इतरत्र विप्रतिपत्त्यविरोधयोरघटमानत्वात् । तस्मादाचारविप्रतिपत्तेः समत्वाद्विकल्प इति प्राप्ते ॥ ८ ॥ न्या० सु० -- शिष्टाकोपाधिकरणे पूर्वपक्षोक्तं विरोधमभ्युपेत्य प्रमेयवलाबलीस्त्वमात्रेण सिद्धान्ते विरोधादर्शनस्यावक्तव्यत्वात्तेष्वदर्शनादिति सूत्रावयवस्य पूर्वशेषत्वानुपपत्तेरुत्तर- सूत्रशेषत्वं तस्मिन्पक्षेऽङ्गीकार्यमित्याह— तेष्विति । अत्र भाष्यकृता सौत्रविप्रतिपत्ति- शब्दव्याख्यार्थं यवमयश्चरत्यादिवाक्यगतान्येव वराहवेसशब्दानुदाहृत्य वाच्यविषयप्रयोगे विप्रतिपत्तिरुक्ता तत्रास्य विप्रतिपत्त्यभिधानस्य किं प्रयोजनम्, का च विचारसङ्गति- रित्यपेक्षिते साधितप्रामाण्यशिष्टाचारबलाबलविचारात्मकत्वेन सङ्गतिं सूचयन्विचार- विषयप्रदर्शनप्रयोजनमाह—शब्देति । शब्दस्यार्थविषयः प्रयोगः स चासौ शिष्टाचारश्च तस्मिन् विप्रतिपत्ताविति विग्रहः । भाष्यकृद्व्याख्यानेऽपि स्मृत्यधिकरण एवाचारप्रामाण्य- स्यापि व्युत्पादितत्वाद्विरोधाधिकरणे तस्यापि स्मृतिवद्वेदविरोधविषये प्रामाण्येऽपोदिते शिष्टाकोपाधिकरणे च क्रत्वङ्गपदार्थविषयाचाराणां क्रमाद्यविरोधाद्विरोधेऽपि वा प्रमेय- बलीयस्त्वादनपवादेऽभिहिते सम्प्रत्याचारयोरेव परस्परविरोधे किं बलाबलविरोधोऽस्तु, न वेति चिन्ता सङ्गतेवेत्याचारशब्देन सूचितम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव बलाबलचिन्ता युक्ता, नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्येति मत्वोद्भाष्यमपि शिष्टा- चारविषयत्वं चिन्तायाः शिष्टशब्देन सूचितम् ।

४०६ मीमांसादर्शनम् [ सू० कीदृशः सन्देह इत्यपेक्षायामाह—एकशब्दमिति । एकः शब्दोऽस्मिन्ननेकार्थोऽस्मिन्निति द्वावपि बहुव्रीही । आचयंत इति भावेोत्पन्नलकारान्तेनाचरणं क्रियत इत्युक्तम् । आचरणमन्यपदार्थः । अक्षादिशब्दवैलक्षण्यप्रतिपादनार्थंविप्रतिपत्तिशब्दव्याख्यानार्थम्— विगानेनेत्युक्तम् । कोऽर्थं इति, किं द्वावप्युतैक एवेत्यर्थः । ननु शास्त्रानुसारिशिष्ट- व्यवहारावगतस्यैव वाच्यत्वनिर्णयात्सन्देहो न युक्त इत्याशङ्क्याह—यवेति । अविद्यमान- प्रयोगारोपसूचनार्थः किलशब्दः वाच्यवाचकसम्बन्धे शास्त्रस्याव्यापारसूचनाय—अनिरू- पितेत्याद्युक्तम्—समेति पूर्वपक्षप्रतिपादनाथंसूत्रावयवव्याख्यानार्थं तत्रेति भाष्यं व्याचष्टे— तत्राहैति । भाष्ये च विकल्पशब्देन प्रतिज्ञानार्थत्वमुभयथेत्यनेनास्यैवावृत्त्या हेत्वर्थत्वं व्याख्यातमिति सूचयितुम्—तुल्यत्वादियुक्तम् । सर्वलोकस्थानां प्रयोगिणामित्यर्थः । तुल्य- त्वमेवोपपादयति—यत्रेति । नन्वेवमपि देशव्यवस्थया वाच्यव्यवस्थोपपत्तेः समविकल्पो न युक्त इत्याशङ्कयाह— तस्याश्चेति । तस्मिन्सर्वंगामित्वे न्यायो युक्तिर्यस्याः शक्तेरस्ति, सा तन्न्याया तद्भावस्त- न्न्यायत्वम् । कीदृशो न्याय इत्यपेक्षायामाह—नैकेषामिति । एकस्यैव वस्तुनः सदसत्त्व- विरोधादित्याशयः । एवं तर्हि सर्वान्प्रत्यसत्त्वमेवास्त्वित्याशङ्क्य, सत्त्वे कस्यचिद्दर्शनानु- पपत्तेन्निराकरोति—केषांचिद्वेति । सर्वेषामपि पुंसां पाचकशक्तिनं विद्यत इत्येतदपि नास्तीत्यर्थः । ननु सदसत्त्ववदेकस्य ज्ञाताज्ञातत्वविरोधोऽपि स्यादित्याशङ्क्य, ज्ञानव्याप्य- त्वाव्याप्यत्वोपाधिकत्वादज्ञाताज्ञातत्वयोर्ज्ञानस्य च पुरुषाश्रितत्वेन तद्भेदे सदसत्त्वाविरो- धान्निराकरोति—ज्ञातेति । शक्तेः सर्वगामित्वमुपपादितमुपसंहरति—तस्मादिति । नन्वष्ट- दोषविकल्पापादकमनेकक्तिकल्पनमन्याय्यमेवागृह्यमाणविशेषत्वेनागत्या क्वचिदङ्गीक्रियते, इह तु प्रयोक्तुरल्पत्वबहुत्वविशेषग्रहणान्नानेकक्तिकल्पनं युक्तमित्याशङ्क्याह—न चेति । दृष्टान्तं व्याचष्टे—विभीतक इति । एकदेशप्रयुक्तानामपिशब्दानां सर्वगामित्वं निरुक्त- कृद्वचनेन द्रढयति—तथा चेति । प्रकृतय एवैकेषु जनपदेषु प्रयुज्यन्ते, विकृतय एवैकेष्वि- त्युपक्रम्य निरुक्तकृता शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारमस्यार्या भाषन्ते शव- ति-२-२-८ इति युक्तम् । तदर्थतः पठितम् । कम्बोजेष्वेव जनपदविशेषेषु शवतिर्धातुर्गति- वाची दृष्टः । गच्छतीत्यस्मिन्नर्थे शवतीति प्रयोगात् । आर्यास्तु जनपदविशेषाः ऋदोर- बित्यप्रत्ययान्तत्वेन विकारापन्नं शवतिधातुं न गतौ युञ्जते । शवशब्देन मृतस्याभिधाना- दित्यर्थः । महाभाष्यकृता तु विकारापन्नमार्या भाषन्तइति पाठान्तरमुदाहृतम् । तत्र मृता- वस्था विकारशब्देनोक्ता । न केवलं शवतिरेव देशविशेषे व्यवस्थितः । किं त्वन्येऽपि बहवो धातवो नामशब्दाश्च व्यवस्थिता एव प्रयुज्यन्ते—इत्यादीति । प्राच्येषु हि जनपदेषु दातिर्धातुर्लवनार्थो दातीत्यस्मिन्नर्थे चतीति प्रयोगात् तमेव दात्रमिति ष्ट्रन्प्रत्ययान्तत्वेन विकारापन्नमुदीच्याः प्रयुञ्जते । प्राच्येषु गच्छतीत्यर्थे मध्यमेषु वरं हृति । हन्ततिश्च सुराष्ट्रेषु गमिस्त्वार्येषु भाष्यते ।।

८ ] प्रथमाध्याये तृतीयपादः ४०७ महाभाष्यकृतैस्तेऽन्ये प्रतिदेशं व्यवस्थिताः । उदाहृता धात्वतोऽतो त्रादिशब्दस्तदाशयः ॥ पूर्वपक्षमुपसंहरति—तस्मादिति । तेष्वदर्शनादित्युपक्रमसूचनं समेत्यस्य प्रतिज्ञामात्रार्थत्वादुभयशव्दार्थावगम इत्यनेन तेष्विति सूत्रावयवो हेत्वर्थेन योजितः । तद्व्याचष्टे—एवं चेति । प्रकृतिवदिति हि चोद- केनार्षं समाम्नायावगतमेव मन्त्ररूपमतिदिश्यते, कार्यप्राधान्यात् तदसम्भवे व्रीह्यादिशब्द- स्थाने नीवारादिशब्दोहेनानन्यथात्वं कल्प्येत । साधारणशब्दे च न तत्कल्पनापत्तिरित्यर्थः । किमिति विकृतिविषयत्वेनायं सूत्रावयवो व्याख्यात इत्यपेक्षिते प्रकृतौ विप्रतिपत्तिदर्शनेना- विरोधाद्योगादिति कारणमाह—तेष्विति । एतदुपक्रमत्वस्यानभिमतत्वद्योतनार्थं पूर्वोप- क्रमाभिप्रायेण समेत्यस्यैवावृत्त्या हेत्वर्थत्वं दर्शयन्नुपसंहरति--तस्मादिति । शास्त्रस्था वा तन्निमित्तत्वादिति सिद्धान्तसूत्रं स्वयं तावदवतारणपूर्वकं व्याचष्टे— इतीति । वाशब्देन साम्यं निराकृत्य पूर्वसूत्रगतस्याच्छब्दानुषङ्गेण शास्त्रस्था स्यादित्युक्ते, तस्या एव बलीयस्त्वमर्यादुक्तं भवतीति मत्वा—बलीयसीत्युक्तम् । शास्त्रानुसारवगत- शब्दार्थंगतगुणयोगनिमित्तत्वेनाप्यर्थान्तरप्रतीत्युपपत्तेर्नोभयत्र शक्तिः कल्प्येत्येवमर्थत्वेन तन्निमित्तत्वादिति सूत्रावयवं व्याख्यातुम्—लौकिकोत्युक्तम् । एतदेव विवृणोति—नानेति । भाष्यकृता त्वेकस्यापि वाच्यत्वे तत्सादृश्येनेतरप्रतीत्युपपत्तेर्नोभयोः, साम्यं कल्प्यमिति वाशब्दं व्याख्याय, कः पुनरित्यादिना 'शास्त्रस्थेति' विष्ठत्यावृत्त्या शिष्टापरत्वेन शास्त्रस्थ- शब्दो व्याख्यातः । तन्निमित्तत्वादिति च तेषां शिष्टानां श्रुतिधारणवच्छन्दार्थस्मृतिधारणवच्छब्दार्थस्मृति- धारणनिमित्तत्वादित्येवं तेषामित्यादिना व्याख्याय शास्त्रनिमित्तत्वाच्छिष्टगतायाः प्रतिपत्ते- रिति, तस्यैवावृत्त्या ते चैवमित्यादिना व्याख्यानानन्तरं तत्र शास्त्रस्थशब्दव्याख्यानार्थं तावद्भाष्यं व्याचष्टे—शास्त्रस्था इति । तेषामित्यादिभाष्यं व्याचष्टे—सप्रत्ययेति । सप्र- त्ययतरत्वं तेषामुपपादयति —शास्त्रार्थेष्विति । शिष्टानां प्रत्ययिततरत्वोपपादनस्य प्रकृतो- पयोगमाह—तस्मादिति । ननु शिष्टप्रतिपत्तेर्बलीयस्त्वेऽप्यविरोधादर्थान्तरस्यापि वाच्यत्वे भविष्यतीत्याशङ्का- निराकरणार्थत्वं द्योतयितुं यवशब्द इत्यादि वाशब्दव्याख्या । भाष्याभिप्रायमिदानीं व्याचष्टे—अनवस्थितेति । ते चैवमित्यादिभाष्यं व्याचष्टे — अविप्लुतश्चेति । ननु वाक्य- शेषकृतस्य निर्णयस्य यवमयश्चरुरित्यादिषु वाक्यशेषरहितेष्वसम्भवात्प्रस्तुतोदाहरणगत- शब्दार्थनिर्णयो न सम्भवतीत्याशङ्क्य, अभिधेयनिर्णयस्यैकत्र कृतस्याविशेषात्सर्वत्र निर्णय- कत्वं वक्ष्यमाणमभिप्रेत्य परिहरति—तत्रेति । भाष्यकारोयस्य करम्मविधिधेषत्वाभिधा- नस्य विध्यन्तरशेषत्वव्यावृत्त्यर्थत्वशङ्कानिराकरणार्थं विध्यन्तरं दर्शयति—यवमतीभि- रिति । दीर्घशूकानिति भाष्यमुपपादयति—फाल्गुन इति । तस्माद्वराहमित्यादिवराह-

४०८ मीमांसादर्शनम् [ सू० वेतसशब्दार्थनिर्णयार्थं वाक्यशेषान्तरोपन्यासभाष्यं व्याचष्टे-एवमिति । त्रिवृदादिशब्दा- भिप्रायं बहुवचनम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव परस्परविरोधे साम्यवैषम्यचिन्ता युक्ता । नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्य । न क्वचित् शिष्टदेशे यवादिशब्दः प्रियङ्गवा- दिषु प्रयुज्यत इति मत्वोदाहरणानि दूषयति-नन्वेतानीति । नन्वेतदुदाहरणसम्भवेऽप्यु- दाहरणान्तरेषु न्यायस्य फलवत्त्वोपपत्तेरुदाहरणदूषणमयुक्तमित्याशङ्कयाह-अध्यारोष्येति । उदाहरणान्तरसम्भवे तदेवोदाहार्यं, न त्वसद्ध्यारोपो युक्त इत्याशयः । न चोदाहरणान्त- रेऽप्ययं न्यायो व्युत्पाद्य, अन्यत्र व्युत्पादयिष्यमाणत्वादित्याह-सन्दिग्धेषु चेति । न केवलं यवाद्युदाहरणानि न कार्याणि, तु विचारणापि न कार्येत्यपिशब्दो योज्यः । यद्वो- दाहरणाभावात्तावन्न कार्या पौनरुक्त्यादपीति । ननु तत्रोपादाननिर्णयाद्वाक्यशेषवलाच्चैकत्वं धूतोपादाननिर्णयेऽन्यत्र वाक्यशेषा- भावेऽपि तदेवोपादेयमिति नियमाभावादिह त्वभिधेयनिर्णयादेकत्र चाभिधेयत्वेन निर्णीत- स्यान्यत्रापि तद्रूपत्यागायोगात्सर्वत्राभिधेयत्वनिर्णयः इत्यपौनरुक्त्यमाशङ्क्य न्यायफल- वैषम्येऽपि विधिस्तुत्योरेकविषयत्वनियमात्स्तुत्यस्यैव विधेयत्वमिति व्युत्पाद्यन्यायस्वरूपै- क्यादपरिहार्यं पौनरुक्त्यमित्याह-यद्यपीति । ननु नात्र दीर्घशूकादीनां यवादिशब्दवाच्यत्वसन्देहो निराक्रियते, किं तु दीर्घशूका- दिवत्प्रियङ्गवादीनामपि प्रतीतिप्रयोगाभ्यानुपपत्त्या प्रसक्तावाच्यता गौणत्वेनापि प्रतीति- प्रयोगोपपादनेन निराक्रियते । नासावन्यत्र निराकृतेत्याशङ्कयाह-तत्सिद्धिसूत्रे चेति । गौणत्वसम्भवेऽपि प्रतीतिप्रयोगमात्रेण प्रसिद्धार्थत्यागेनाप्रसिद्धार्थकल्पने जहत्स्वार्थाभिधायि- त्वं स्यात्, तस्य च तत्सिद्धिसूत्रे निराकरिष्यमाणत्वात्तेन सह पौनरुक्त्यं स्यादित्याशयः एवं शिष्टाचारयोरेव परस्परविरोधे वाक्यशेषानुसारिणः शब्दार्थविषयप्रयोगरूपस्य शिष्टा- चारस्य प्रामाण्यम्, इतरस्य गौणत्वेनाप्युपपत्तेरप्रामाण्यमिति भाष्यार्थं मत्वोदाहरणा- भावात्पौनरुक्त्यापत्तेश्च दूषयित्वेदानीमार्यम्लेच्छाचारयोरिह साम्यवैषम्यचिन्ता वाक्यशेष- निरपेक्ष्येण च निर्णय इत्यभिप्रेत्य समाधत्ते-तस्मादिति । वाक्यशेषनैरपेक्ष्यद्योतनार्थमन्यग्रहणं न तु यवादिशब्दोदाहरणनिराकरणार्थम् । अनन्तदेशाग्रहणेन सर्वदेशप्रयोगाभावस्य केनापि निश्चेतुमशक्यत्वाद्द्वाभ्यङ्गीकरणाच्चार्यदेश- प्रयोगाभावेऽपि म्लेच्छदेशे क्वापि प्रयोगोऽस्तीति निश्चयोपपत्तेः । पूर्वं वा व्युत्पादित- प्रामाण्यस्यापि म्लेच्छाचारस्यानन्तराधिकरणे शब्दार्थविषये व्युत्पादयिष्यमाणप्रामाण्यस्य वक्ष्यमाणालोचनेन विचारोपपत्तेर्भाष्यकृतापि शास्त्रस्थशब्दं शिष्टाभिप्रायं व्याचक्षाणेनार्य- म्लेच्छप्रयोगयोरेवात्र साम्यवैषम्यचिन्तेति, सूचितमित्यविरोधः । वाक्यशेषोपन्यासस्त्वति- शयार्थः । तत्सिद्धिसूत्रस्य च गौणवृत्तिलक्षणमात्रपरत्वान्न तेनापि पौनरुक्त्याशङ्केत्यनवद्यम् । ननु म्लेच्छाचारस्य प्रामाण्याभावान्न साम्येन पूर्वपक्षः सम्भवतीत्याशङ्क्यादृष्टार्थव्यवहा- र्यार्यम्लेच्छयोर्विशेषाभावान्निराकुर्वन्पूर्वपक्षयति-समेति । एतदेव विवृणोति-आर्यास्ता-