मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 457, कुल 804 में से
संदर्भ में पढ़ें८ ] प्रथमाध्याये तृतीयपादः ४०५ यत्र देशे हि यः शब्दो यस्मिन्नर्थे प्रयुज्यते । शक्तिस्तद्गोचरा तस्य वाचिकाख्या प्रमीयते ॥ ४०२ तस्याश्च सर्वगामित्वं तन्न्यायत्वात्प्रमीयते । नैकेषामेव सा ह्यस्ति केषांचिद्वा न विद्यते ॥ ४०३ ज्ञाताज्ञातविभागस्तु ज्ञातृभेदेऽवकल्पते । तस्माच्चैरपि न ज्ञाता यच्छब्दार्थस्य वाच्यता ॥ ४०४ तैरप्यभ्युपगन्तव्या स्वप्रसिद्धिसमा हि सा ॥ ४०५ न चाल्पत्वबहुत्वाभ्यां प्रयोक्तॄणां विशिष्यते । वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ ४०६ बिभीतकेऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते । तथाऽपि वाचकस्तस्य ज्ञायते शकटाक्षवत् ॥ ४०७ तथा चोक्तं शवतिर्गतिकर्मा कम्बोजेष्वेव दृष्टः । विकारापन्नमार्याः प्रयुञ्जते, शवमिति मृतशरीराभिधानादित्यादि । बहव एव हि धातवो नामशब्दाश्च प्रति- देशमर्थभेदेषु व्यवस्थिता दृश्यन्ते तस्मात्समयेमभिधाने विप्रतिपत्तिः स्यात् । एवं च विकृतिषु केषांचिदर्थानां साधारणशब्दवाच्यत्वात्प्रकृताविवाविकृतप्रयोगादार्षं चोदकोऽनुग्रहीष्यते । 'तेष्वदर्शनाद्विरोधस्य' इत्यत्रैव चैतद् व्याख्येयम् । इतरत्र विप्रतिपत्त्यविरोधयोरघटमानत्वात् । तस्मादाचारविप्रतिपत्तेः समत्वाद्विकल्प इति प्राप्ते ॥ ८ ॥ न्या० सु० -- शिष्टाकोपाधिकरणे पूर्वपक्षोक्तं विरोधमभ्युपेत्य प्रमेयवलाबलीस्त्वमात्रेण सिद्धान्ते विरोधादर्शनस्यावक्तव्यत्वात्तेष्वदर्शनादिति सूत्रावयवस्य पूर्वशेषत्वानुपपत्तेरुत्तर- सूत्रशेषत्वं तस्मिन्पक्षेऽङ्गीकार्यमित्याह— तेष्विति । अत्र भाष्यकृता सौत्रविप्रतिपत्ति- शब्दव्याख्यार्थं यवमयश्चरत्यादिवाक्यगतान्येव वराहवेसशब्दानुदाहृत्य वाच्यविषयप्रयोगे विप्रतिपत्तिरुक्ता तत्रास्य विप्रतिपत्त्यभिधानस्य किं प्रयोजनम्, का च विचारसङ्गति- रित्यपेक्षिते साधितप्रामाण्यशिष्टाचारबलाबलविचारात्मकत्वेन सङ्गतिं सूचयन्विचार- विषयप्रदर्शनप्रयोजनमाह—शब्देति । शब्दस्यार्थविषयः प्रयोगः स चासौ शिष्टाचारश्च तस्मिन् विप्रतिपत्ताविति विग्रहः । भाष्यकृद्व्याख्यानेऽपि स्मृत्यधिकरण एवाचारप्रामाण्य- स्यापि व्युत्पादितत्वाद्विरोधाधिकरणे तस्यापि स्मृतिवद्वेदविरोधविषये प्रामाण्येऽपोदिते शिष्टाकोपाधिकरणे च क्रत्वङ्गपदार्थविषयाचाराणां क्रमाद्यविरोधाद्विरोधेऽपि वा प्रमेय- बलीयस्त्वादनपवादेऽभिहिते सम्प्रत्याचारयोरेव परस्परविरोधे किं बलाबलविरोधोऽस्तु, न वेति चिन्ता सङ्गतेवेत्याचारशब्देन सूचितम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव बलाबलचिन्ता युक्ता, नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्येति मत्वोद्भाष्यमपि शिष्टा- चारविषयत्वं चिन्तायाः शिष्टशब्देन सूचितम् ।