मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 456, कुल 804 में से
संदर्भ में पढ़ेंभा० वि०—एवं तावत्स्मृत्याचारयोः उत्सर्गतः प्रामाण्यम् श्रुतिविरोधे तद- पवादम्, क्वचिदपवादादपवादं चोक्तेदानीमाचारयोरेव मिथो विरोधे किं बलीय इति विचारयति इति । तत्र शब्दानामर्थविषये प्रयोगरूप आचारविशेषे विप्रति- पत्त्या संशयं दर्शयितुं शब्दानुदाहरति—यवमय इत्यादिना । एतद्वाक्यगतानां यव-वराह-वेतसशब्दानां लौकिकप्रयोगेषु विप्रतिपत्तिमाह—तत्र केचिदिति । अत्र प्रयुञ्जत इति प्रियङ्गवादिष्वनुषज्यमानवर्तमानोपदेशसामर्थ्याद्यव-वराह- वेतसशब्दानां प्रियङ्गु-वायस-जम्बूष्वार्यप्रयोगाभावेऽपि, म्लेच्छप्रयोगे भाष्यकारे- णोपलब्ध इति गम्यते, अतो नोदा^१हरणत्वानुपपत्तिरित्यवसेयम् अनेन च विप्रति- पत्तिप्रदर्शनेन किं द्वावप्यर्थावृतैक एवेति तुल्यबलत्वातुल्यबलत्वाभ्यां संशयस्सू- चितः, न चानवधृतप्रामाण्यस्य म्लेच्छाचारस्य बलाबलचिन्तैवानुपपन्नेति वाच्यम्, उत्तराधिकरणन्यायेन प्रामाण्यावधारणमाश्रित्य बलाबलचिन्तोपपत्तेरित्यवसेयम् । प्रयोजनं तु विचारस्य चर्वादौ दीर्घशूकादेः प्रियङ्गवादिना सह विकल्पप्राप्तिः तेष्वित्यादिसूत्रं योजयन् पूर्वपक्षमाह—तत्रेति । अयमर्थः यदि म्लेच्छप्रसिद्धेरार्यप्रसिद्धिर्बलीयसी, ततस्तत्सिद्ध एवार्थो ग्राह्यः । नत्वेवं धर्मविषये शास्त्रानुसारिण्यास्तस्या बलवत्त्वेऽपि, वृद्धव्यवहाराव- गम्यपदार्थेषु शिष्टम्लेच्छप्रसिद्धयोर्विशेषादर्शनेनोभयथा शिष्टानां स्वस्वप्रसिद्धा म्लेच्छप्रसिद्धा च म्लेच्छानामपि स्वप्रसिद्ध शिष्टप्रसिद्धा च शब्दार्थावगमसंभवे सति द्वयोरपि पदार्थप्रतिपत्त्योः मूलप्रमाणाविशेषेण तुल्यबलत्वाद्व्वावप्यर्थाविति विकल्पेन पदार्थप्रयोगः प्राप्नोतीति । अनेन च तेषु पदर्थेषु शिष्टम्लेच्छप्रसिद्धयोः विरोधस्य वैलक्षण्यस्य विशेषस्यादर्शनात्, समा-समबलैव स्यात् विप्रतिपत्ति- रिति सूत्रार्थो दर्शितः ॥ ८ ॥ त० वा—तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषयप्रयोग- शिष्टारविप्रतिपत्तौ सन्देहः । एकशब्दमनेकार्थ शिष्टैराचर्यते यदा । विगानेन तदा तत्र कोऽर्थः स्यात्पारमार्थिकः ॥ ३९९ यव-वराह-वेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयु- ज्यन्ते । तेन तद्द्वचनत्वे हि सन्देह उपजायते । अनिरूपिततत्त्वानां यावद् दृष्टानुसारिणामम् ॥ ४०० तत्राऽऽह नैव सन्देहः कर्तव्योऽत्र मनागपि । प्रयोगं प्रति तुल्यत्वात्सर्वलोकप्रयोगिणाम् ॥ ४०१ १. अत्र वार्तिककृता भाष्यमते समुद्भाविते दोषं निरस्यतीति बोध्यम् ।