मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 460, कुल 804 में से
संदर्भ में पढ़ें४०८ मीमांसादर्शनम् [ सू० वेतसशब्दार्थनिर्णयार्थं वाक्यशेषान्तरोपन्यासभाष्यं व्याचष्टे-एवमिति । त्रिवृदादिशब्दा- भिप्रायं बहुवचनम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव परस्परविरोधे साम्यवैषम्यचिन्ता युक्ता । नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्य । न क्वचित् शिष्टदेशे यवादिशब्दः प्रियङ्गवा- दिषु प्रयुज्यत इति मत्वोदाहरणानि दूषयति-नन्वेतानीति । नन्वेतदुदाहरणसम्भवेऽप्यु- दाहरणान्तरेषु न्यायस्य फलवत्त्वोपपत्तेरुदाहरणदूषणमयुक्तमित्याशङ्कयाह-अध्यारोष्येति । उदाहरणान्तरसम्भवे तदेवोदाहार्यं, न त्वसद्ध्यारोपो युक्त इत्याशयः । न चोदाहरणान्त- रेऽप्ययं न्यायो व्युत्पाद्य, अन्यत्र व्युत्पादयिष्यमाणत्वादित्याह-सन्दिग्धेषु चेति । न केवलं यवाद्युदाहरणानि न कार्याणि, तु विचारणापि न कार्येत्यपिशब्दो योज्यः । यद्वो- दाहरणाभावात्तावन्न कार्या पौनरुक्त्यादपीति । ननु तत्रोपादाननिर्णयाद्वाक्यशेषवलाच्चैकत्वं धूतोपादाननिर्णयेऽन्यत्र वाक्यशेषा- भावेऽपि तदेवोपादेयमिति नियमाभावादिह त्वभिधेयनिर्णयादेकत्र चाभिधेयत्वेन निर्णीत- स्यान्यत्रापि तद्रूपत्यागायोगात्सर्वत्राभिधेयत्वनिर्णयः इत्यपौनरुक्त्यमाशङ्क्य न्यायफल- वैषम्येऽपि विधिस्तुत्योरेकविषयत्वनियमात्स्तुत्यस्यैव विधेयत्वमिति व्युत्पाद्यन्यायस्वरूपै- क्यादपरिहार्यं पौनरुक्त्यमित्याह-यद्यपीति । ननु नात्र दीर्घशूकादीनां यवादिशब्दवाच्यत्वसन्देहो निराक्रियते, किं तु दीर्घशूका- दिवत्प्रियङ्गवादीनामपि प्रतीतिप्रयोगाभ्यानुपपत्त्या प्रसक्तावाच्यता गौणत्वेनापि प्रतीति- प्रयोगोपपादनेन निराक्रियते । नासावन्यत्र निराकृतेत्याशङ्कयाह-तत्सिद्धिसूत्रे चेति । गौणत्वसम्भवेऽपि प्रतीतिप्रयोगमात्रेण प्रसिद्धार्थत्यागेनाप्रसिद्धार्थकल्पने जहत्स्वार्थाभिधायि- त्वं स्यात्, तस्य च तत्सिद्धिसूत्रे निराकरिष्यमाणत्वात्तेन सह पौनरुक्त्यं स्यादित्याशयः एवं शिष्टाचारयोरेव परस्परविरोधे वाक्यशेषानुसारिणः शब्दार्थविषयप्रयोगरूपस्य शिष्टा- चारस्य प्रामाण्यम्, इतरस्य गौणत्वेनाप्युपपत्तेरप्रामाण्यमिति भाष्यार्थं मत्वोदाहरणा- भावात्पौनरुक्त्यापत्तेश्च दूषयित्वेदानीमार्यम्लेच्छाचारयोरिह साम्यवैषम्यचिन्ता वाक्यशेष- निरपेक्ष्येण च निर्णय इत्यभिप्रेत्य समाधत्ते-तस्मादिति । वाक्यशेषनैरपेक्ष्यद्योतनार्थमन्यग्रहणं न तु यवादिशब्दोदाहरणनिराकरणार्थम् । अनन्तदेशाग्रहणेन सर्वदेशप्रयोगाभावस्य केनापि निश्चेतुमशक्यत्वाद्द्वाभ्यङ्गीकरणाच्चार्यदेश- प्रयोगाभावेऽपि म्लेच्छदेशे क्वापि प्रयोगोऽस्तीति निश्चयोपपत्तेः । पूर्वं वा व्युत्पादित- प्रामाण्यस्यापि म्लेच्छाचारस्यानन्तराधिकरणे शब्दार्थविषये व्युत्पादयिष्यमाणप्रामाण्यस्य वक्ष्यमाणालोचनेन विचारोपपत्तेर्भाष्यकृतापि शास्त्रस्थशब्दं शिष्टाभिप्रायं व्याचक्षाणेनार्य- म्लेच्छप्रयोगयोरेवात्र साम्यवैषम्यचिन्तेति, सूचितमित्यविरोधः । वाक्यशेषोपन्यासस्त्वति- शयार्थः । तत्सिद्धिसूत्रस्य च गौणवृत्तिलक्षणमात्रपरत्वान्न तेनापि पौनरुक्त्याशङ्केत्यनवद्यम् । ननु म्लेच्छाचारस्य प्रामाण्याभावान्न साम्येन पूर्वपक्षः सम्भवतीत्याशङ्क्यादृष्टार्थव्यवहा- र्यार्यम्लेच्छयोर्विशेषाभावान्निराकुर्वन्पूर्वपक्षयति-समेति । एतदेव विवृणोति-आर्यास्ता-