मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 122, कुल 804 में से
संदर्भ में पढ़ें७० मीमांसादर्शनम् [ सू० व्यापारामिप्रायो व्याख्येयः । अर्थवादाभावेऽपि विधेरेव स्वानुग्राहकप्राशस्त्याक्षेपकत्वं युक्तं न तु फलेतिकर्त्तव्यतापदानाम्, कथंचिदित्येवकारेण सूचितम् । योजना त्वेवं यस्मात्सर्वंप्रकारं प्रयतमानस्य यः प्रमाणाभावः, स प्रमाणं तस्माद्यदि केनचिदन्येन परोचनां न लप्स्यामह इति । कथंचित्त्वन्यतः प्ररोचनालाभसम्भवेऽन्यत्रोपयुक्तस्य विधायकस्य तदाक्षेपकत्वायोगा- द्धायव्यादिवाक्येषु प्राशस्त्यज्ञानस्य साधनापेक्षा युक्तेत्याह—अथ त्विति । केनचिल्लक्षण- यापि प्रतिपादकेन दूरस्थेनातिदेशिकेनापि यदि प्ररोचना सेत्स्यतीत्यर्थः । नन्वेवं प्राशस्त्यप्रतिपादनस्य साधनभूतप्राशस्त्यशास्त्रापेक्षायामप्यर्थवादानां तत्र शक्त्यनवधारणात्कथं तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्कयाध्ययनविध्यालोचनेनैवेषां प्राशस्त्यपरत्वं दर्शयितुमाह—तयेति । यथा लभेतेतिविधिः स्वविषयप्राशस्त्यप्रतिपादकं प्रति साकाङ्क्षः, तथा वायुर्वै क्षेपिष्ठा देवतेत्याद्यपि प्रतिपाद्यमर्थं प्रति साकाङ्क्षमेवेति यस्तेन भूतान्वाख्यानरूपेण वाक्यार्थेन१ लक्ष्यमाणः प्राशस्त्यरूपोऽर्थः सोऽर्थवादप्रतिपाद्य- त्वेन स्वाध्यायाध्ययनविधिना परिगृह्यत इत्यन्वयः । प्राशस्त्यार्थवाद प्रयोजनत्वे योग्यतां दर्शयितुमनन्तरप्रवृत्तेत्याद्युक्तम् । विधिसम्बन्धद्वारा चेत्प्राशस्त्यस्य पुरुषार्थानुबन्धित्वं तर्ह्यर्थवादानां विधिनैव साक्षात्प्रतिपादकलक्षणः संबन्धोऽस्तु किमन्तरा प्राशस्त्येनेत्या- शङ्क्य यच्छक्यत इत्याद्युक्तम् । न तावल्लिङादिवत्तस्य विध्यभिधाने शक्तिरस्ति, न च प्राशस्त्यलक्षणा श्रुतिविध्यैक- वाक्यत्वसंभवे वाक्यभेदापादकप्राशस्त्यं विना विध्यनिर्वाहात् प्राशस्त्यलक्षणावश्यकभावेन गौरवापादकमश्रुतविध्यन्तरकल्पनं युक्तमित्याशयः । शक्त्यभावाच्चेन्न साक्षाद्विधिना संबन्धः ततोऽक्षरग्रहण एव साक्षाच्छक्तेः पर्यवसानप्रसङ्गाद्वाक्यार्थपर्यन्तमगमनात् कथं तेन प्राशस्त्यलक्षणा स्यादित्याशङ्क्य अपुरुषार्थत्वेन वेत्याद्युक्तम् । अक्षराणामादिरादानं ग्रहणमक्षरादिशब्देनोक्तम् । तत्रैव तर्हि श्रौततात्पर्यावसानमस्त्वित्याशङ्क्योक्तम्— तत्रापि त्विति । साधनानुरूपेत्यादिना लक्षणाप्रकारो दर्शितः । अयं चोभयाकाङ्क्षा- लक्षणत्वात्प्राशस्त्यार्थवादयोः प्रतिपाद्यप्रतिपादकत्वसंबन्धः समञ्जस एवेत्याह—सोऽय- मिति । एवं चास्मिन्सन्निकृष्टे संवन्धे संभवति विधायकार्थवादयोः प्राशस्त्यविध्या- कांक्षित्वेऽपि प्राशस्त्यविध्योरर्थवादविधायकप्रतिपादितत्वेन प्रतिपादकानाकाङ्क्षत्वादन्य- तराकाङ्क्षालक्षणत्वेन२ च विप्रकृष्टः प्राशस्त्यविधायकयोर्विध्यर्थवादयोर्वा प्रतिपाद्यप्रति- १. ननु केवलार्थवादानां वाक्यत्वाभावाद्वाक्यार्थेनेत्ययुक्तम् । सत्यं वाक्यार्थेनेत्यस्यायमर्थः अर्थवादस्थाने कैः पदार्थैर्लक्ष्यत इति । २. अन्यतरेति विधायकस्य प्राशस्त्याकाङ्क्षायामपि प्राशस्त्यस्य तदनाङ्क्षत्वात्तस्यार्थ- वादैरेव प्रतिपादितत्वात् । एवमर्थवादानां विध्याकाङ्क्षासत्त्वेऽपि न विधेस्तदाकाङ्क्षा- विधायकेनैव विधिप्रतिपादनादित्यर्थः ।