मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 121, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ६९ वक्ष्यत इत्यपापश्लोकश्रवणादीनां प्रशंसाार्थत्वेनोपात्तानां फलत्वाभावः पर्णमय्यधिकरणे, जर्तिलयवाग्वा वा जुहुयादित्यादौ लिङ्गे विधित्वाभावो जर्तिलयवाग्वादेश्चेतित्कर्त्तव्यत्वा- भावो दशमे वक्ष्यमाणः परामृष्टः । यत एवोक्तप्रकारेण प्राशस्त्यपरत्वे फलाद्यभावः प्रसज्य- ते, अत एवानन्यलभ्यफलादिपरत्वावधारणान्नार्थात्प्रतीयमानेऽपि प्राशस्त्ये फलपदादीनां तात्पर्यमित्याह—अत एवेति । एतदेव दृष्टान्तद्वारेणोपपादयितुमाह—न हीति । धावन- क्रियैवानिष्पन्नरूपत्वात्कार्यशब्देनोक्ता न तेनान्वीयन्त इत्यर्थः । दार्ष्टान्तिके योजयति— तद्वदिति । इच्छाविरोधिद्वेषनाशवाचिना प्ररोचनाशब्देन तद्धेतुभूतगुणातिशयवत्त्वलक्षणं प्राशस्त्यं लक्षणया व्युत्पत्त्या वोक्तम् । ननु यथा प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीत्यादीनां प्राशस्त्यपराणामप्या- काङ्क्षितफलसमर्थकत्वमङ्गीकृतम्, तथा भूतिकामादिशब्दानां फलादिपराणामप्याकाङ्क्षित- प्राशस्त्यसमर्थकत्वमपि कस्मान्न स्यादित्याशङ्कयाह—अन्यथानुपपत्त्या चेति । प्रकारान्त- रेण फलप्रतीत्ययोगाद्गत्या तत्र तथाङ्गीकृतम्, न चेहागतिरस्तीत्यभिप्रायः । नन्वर्थ- वादानां स्वरसतः प्राशस्त्यप्रतिपादनशक्त्यभावात् इहापि सर्वप्रमाणप्रत्यस्तमयाद्गतिः समनेत्याशङ्कयाह—प्रमाणाभावश्चेति । स्वरसतोऽशक्तावपि लक्षणया तत्प्रतिपादनशक्ति- सम्भवान्न प्रमाणाभावनिश्चय इति भावः । नन्वेवं तर्हि ‘वसन्ताय कपिञ्जलानालभते' इत्यादावपि अर्थवादाकाङ्क्षा प्रसज्ये- तेत्याशङ्कयाह—तद्यदीति । अतिदेशग्रहणं तस्योक्तो बन्धुस्तस्योक्तं ब्राह्मणमित्यादि- वाचनिकातिदेशविषयं द्रष्टव्यम् । श्रुतविध्यन्यथानुपपत्त्यैव प्राशस्त्यकल्पनोपपत्तावसन्निहि- तार्थवादातिदेशकल्पने प्रमाणाभावात् १ कल्पने वा वसन्तादिवाक्येष्वपि अग्नीषोमीयप्रकृति- त्वेन तदीयार्थवादातिदेशसम्भवाद्विध्युद्देशस्य शक्तिद्वयकल्पनं निरवकाशमेव स्यात्— दर्विहोमन्यायेनेति । यथा दर्विहोमेषु भिन्ने जुहोतीत्यादिजुहोतिचोदनविहितेष्वविहितेति- कर्त्तव्यताकेष्वपि प्रकृतिविशेषा निर्धारणा नियतविध्यन्तातिदेशानुपपत्ते रनियमसर्वातिदेशयो- श्चाष्टमाद्ये निराकृतत्वात् अपूर्वत्वेनाष्टमान्ते वक्ष्यमाणेषु यावच्छ्रुतस्य द्रव्यदेवतादेरिति- कर्तव्यताजातस्य सन्निपत्योपकारित्वेन नियमापूर्वद्वारा करणपूर्वोत्पत्तिमात्रे पर्यवसायितया अन्यत्रावधारितस्याप्यगत्यारादुपकारकाङ्गसाध्यकरणानुग्रहसाधनत्वमपि कल्पितम् । तथा वसन्तादिवाक्येष्वपि विधायकस्यैव करणभूतविधेयज्ञानोत्पत्तिमात्रपर्यवसायितयान्यत्रा- वधारितस्याप्यगत्याऽङ्गभूतप्राशस्त्यज्ञानेऽपि व्यापारः कल्पयिष्यत इत्यर्थः । लक्षणया प्रेरणापरनामधेयस्य विधेः प्रतिपादनात्प्राशस्त्यस्य चान्याथानुपपत्त्याक्षेपाच्छक्तिशब्दो १. ननु कथंचिच्चोदनलिङ्गानुमितवचनादेवार्थवादातिदेशकल्पना भविष्यत्यत आह प्रमाणा- भावादिति । अयं भाव काल्पनिकातिदेशस्यार्थभावनेतिकर्तव्यतानिदेशकल्पकत्वात् अर्थवादानां च प्राशस्त्यप्रतिपादनेन शब्दभावनेतिकर्तव्यताङ्गत्वेन तदंशाप्रतिपादक- त्वादिति प्रत्यक्षवचनस्य निर्विषयत्वं च स्यादित्यपि बोद्धव्यम् ।