भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 12, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 12

( ४ ) स्खलद्गतिस्स्यात् ? स्खलद्गतौ सत्यामेव समाजस्य शैथिल्यं यथा समाजस्य न स्यात्तथा मीमांसादर्शनं धारकं धर्मं व्यवस्थापयति। व्यवस्थिते च धर्मे समाजसमुन्नतिर्निवार्या। समाजसमुन्नतिर्नाम सामाजिकानामनुशासने वर्तनम्। अनुशासनञ्च धर्मरूपम् तदनुशासकञ्च वेदपूरुषः। वेदपूरुषस्य तात्पर्यनिर्णायको महर्षिजैमिनिः। अत एव जैमिनिसूत्राणि वेदवाक्यगर्भितान्युपलभामहे। जैमिनिश्च सम्प्रदायसमागतान् विविधासु गोष्ठीषु महर्षिभिर्विचार्यनिर्णीतानेव विषयान् सूत्ररूपेण जग्रन्थ मीमांसादर्शनम्। सम्प्रदायश्चाविच्छिन्नगुरुशिष्य- भावेन विद्याप्राप्तिरिति न्यायवार्त्तिककारः। विद्याशब्देन वेदो विवक्ष्यते। वेदविद्यायाः प्राप्तिः गुरुमुखोच्चारणानूच्चारणविधयैव भवति। सर्वोऽपि वेदाध्यायी स्वीयं गुरुमेव निर्दिशति। आ च सृष्टेराचैतन्निमेषादिमामेव सरणिं विलोकयामः। एतेनेदं न निश्चेतुं शक्यते यदस्माकं देशे वेदविद्याध्ययनपरम्परा कस्मात्कालादारभ्य सम्प्रवृत्तेति। अनादिरियं वेदाध्ययनपरम्परा। तथा तदर्थविचारपरम्पराप्यनादिरित्येष्टव्यम्। एतेनास्माकं देशे शिक्षाविहीनः कालः कश्चनासीदिति स्थापयितुं न शक्यते। शाबरभाष्यारम्भात्पूर्वमपि सूत्ररूपेण मीमांसादर्शनाध्ययनम्, सूत्ररचनातः पूर्वमपि गोष्ठीविचाररूपेणाध्ययनमासी- दिति बलात्स्वीकर्तव्यमेवेति वेदाध्ययनपारम्पर्येण सिध्यति। वेदाध्ययनञ्च संस्कारः। संस्कारश्च तस्य भवति यो भूतोपयुक्तः भाव्युपयोक्ष्यमाणो वा। भूतोपयुक्तत्वस्यासम्भवात् भाव्युपयोक्ष्यमाणत्वं स्वीकार्यम्। कुत्रोपयोगः संस्कृतस्य वेदस्येति शङ्कापि सुसमाधेया। यथा चिरन्तनाः वेदाध्ययनपरम्परां परिरक्षन्त आसन् तथैव वेदेषूच्चावचं विहितानि कर्माणि चानुतिष्ठन्त आसन्निति साधनं न दुष्करम्। यथाध्ययनविहीना नाभवंस्तथा कर्माचरणविहीना अपि नाभूवन्। कर्माचरणे मन्त्राणामावश्यकता यथा, तथा विधेयावलम्बाय विधीनामप्यावश्यकता। नष्टाश्वदग्धरथन्यायेन विधिमन्त्रयोमिथस्सम्प्रयोगः। अत एव 'मन्त्रब्राह्मणयोर्वेदनामधेयम्' इत्यापस्तम्बाचार्यसूत्रयामास। ब्राह्मण- भागेष्वधीयमानेषु लक्षशः कर्माणि विहितान्युपलभामहे। किं तेषामनुष्ठानेन विना केवलं पठनायार्थावगमनाय वा प्रयोजनं सिद्ध्येत्? यथा खलु महाकविभिर्वि- रचितानि नैकविधानि नाटकानि केवलं नार्थावबोधाय कल्पन्ते, किन्तु मञ्चेष्वभि- नीय ततोऽखण्डमानन्दमनुभवितुं तानि कल्पन्ते, तथैवेमानि कर्माण्याचरणाय विहितानि। यथायथमिमानि व्यष्टिरूपेण समष्टिरूपेण चाचरन्तश्चिरन्तना अभवन्। कल्पानां सूत्राणाञ्च रचनाकालतः पूर्वमपि चिरन्तनप्रयोगविषये कर्माण्यासन्नित्येव साधनं साधीयः। तदिदं कर्माचरणं तदर्थावगतिपूर्वकमजाय- तेत्यप्येष्टव्यम्। कर्मानुष्ठानं प्रत्यर्थज्ञानस्य सामान्यसम्बन्धबोधकप्रमाणान्तर- निरपेक्ष रूपाल्लिङ्गादङ्गत्वं मीमांसका अस्थिषत। 'किमहं करोमि' 'कथं वा कुर्याम्' इत्यवगत्यैव कर्माण्यनुतिष्ठेत्। ईदृशमर्थज्ञानं मीमांसाशास्त्रैकसमधिगम्य-