भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 13, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 13

( ५ ) मित्यपि निर्विवादम्, निष्कृष्टवाक्यार्थावबोधनायैव मीमांसायाः प्रवृत्तत्वात् । अत एव वार्तिककारैरुक्तम्—'इति कर्तव्यताभागं मीमांसा पूरयिष्यति' श्लो० वा० इति । एवं चक्रनेमिक्रमेण चाध्ययनम्, तदर्थावगतिः, यथार्थं वेद- विहितकर्मणामनुष्ठानम् अनुष्ठानायानुष्ठेयकर्मस्वरूपावगतिः, तदर्थं मीमांसा- ध्ययनम्, मीमांसाध्ययनतः पूर्वं वेदतदङ्गाध्ययनम्, तदर्थावगमनम् इत्येवं मिथःसापेक्षाणामध्ययनार्थावगमनकर्मानुष्ठानपरम्परा अनिदमप्रथमताकात्काला- त्सम्प्रवृत्तेति मीमांसायाः पूज्यत्वं विचारपरत्वमनिदमप्रथमताकात्कालात्प्रवृत्त- त्वञ्चेति मनसि निधाय वार्तिककाराः प्राहुः—'मीमांसा तु लोकादेव प्रत्यक्षानु- मानादिभिरविच्छिन्नसम्प्रदायपण्डितव्यवहारैः प्रवृत्ता' इति । एवं महर्षिजैमिनिमारभ्याद्य विंशतितमशतकपर्थ्यन्तं तैस्तैर्ग्रन्थकारैः उच्चा- वचानां परस्सहस्रस्य ग्रन्थानां लेखनेनाध्यापनेन च परिवर्धितेयं मीमांसाद्राक्षालता दृढबद्धमूलं वेदार्थं नानाशाखोपशाखाभिः आ च हिमवतः आ च कुमारिकायाः आश्रितान् जनान् स्वाच्छच्छायया परिरक्षन्तं महान्तं वटमहीरुहमाश्रित्य तरुणीव शोभमाना विराजते । नियतिकृतनियमसिद्धमिदम्, यच्छाखासु शुष्यमाणासु तदाश्रिता लता अपि शुष्यदवस्थां प्राप्नोतीति । जैमिनेः कालत एव विशा- लस्य वटतरोः बह्व्यः शाखाः शुष्यदवस्थामापन्ना इति 'अपि वा कर्तृसामान्या- त्प्रमाणमनुमानं स्यात्' (जै० सू० १.३.२.) इति सूत्रादवगच्छामः । एतत्सूत्र- भाष्यं विवृण्वाना वार्तिककारा वदन्ति-- 'शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः । नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते' ॥ इति । (तं० वा० पृ० १६४) ये यां वृक्षस्य शाखामाश्रित्यातिष्ठन' ते यदि प्रमादात् अलस्येन वा अध्ययन- परम्परातो विच्युताः तर्हि सा शाखा कथमाद्रां तिष्ठतु । वेदवृक्षशाखायाः अध्ययनाध्यापनमेव खलु जलसेचनम् । अनेन जलेन यदि न सिञ्चामस्तर्हि वृक्षस्य तच्छाखायाश्च कथमिवार्द्रता स्यात् ? तदाश्रिताया मीमांसातन्व्या अपीय- मेव दशा समापन्ना । सम्प्रत्यतिविरलप्रचारापीयं जीवतीत्येव वक्तव्यम् । ग्रन्थानां सम्पादनेन साहित्योपबृंहणं नूनं भवेत् सम्पादकानां ज्ञानवृद्धिरपि स्यात्, किन्तु शास्त्रोज्जीवनाय तदध्ययनं परमावश्यकम् । तच्च तच्छास्त्राध्यायकेक- साध्यम् । अध्येतृभिर्विनाध्यापकः किं करोत्विति तूष्णींभावो नोचितः । कथमपि, छात्रानन्विष्य रुचि परिकल्प्य तेऽध्यापनीयाः । तत्तच्छिक्षणसंस्थाया अपि कर्त- व्यमिदम् यत्केचन छात्राः विरलविषयाणामध्ययनाय छात्राः प्रोत्साहनीयाः । मीमांसासाहित्यभिदमतिविपुलम् । महर्षिजैमिनिप्रभृत्यद्य यावत् परस्सहस्रं- ग्रन्था विविधप्रान्तियैर्मनीषिभिः प्रणीताः । सर्वेऽपि ग्रन्थाः प्रकाशिता इति नाभ्युप- गन्तुं शक्यते । अप्रकाशिता ग्रन्था अनेके विद्यन्ते । तत्र केचन नाम्ना उपलभ्यन्ते,