भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 14, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 14

( ६ )

केचन खण्डिताः, अन्ये समग्रतया उपलभ्यमाना अपि न प्रकाशिताः । शास्त्र- मिदमतिविस्तृतम्, दुरवगाहञ्चेति मन्वानाश्चिरन्तनाः ‘मीमांसापल्वलम्’ ‘मीमांसा- कुतूहलम्’ इत्यादीन् लघुग्रन्थान् प्राणैषुः सुखेन द्राक् शास्त्रतत्त्वाधिगमाय । यथा यथा लोका मीमांसाया अध्ययने प्रवर्तेरंस्तथा तथा ग्रन्थानां प्रणयने चिर- न्तनाः प्रवृत्ताः । एवं मीमांसाया अध्ययनाय सौलभ्ये सम्पादितेऽपि अतिविरल- प्रचारैयं समभवदिति महान् खेदस्य विषयः । सत्यमुक्तं कुसुमाञ्जलिकारैः ‘ह्रास- दर्शनातो ह्रासः’ इति । सर्वेषु शास्त्रेषु सम्प्राप्तवैदुष्यप्रकर्षेषु सत्सु विद्वद्वपश्चिमेषु देशस्यैव खलु भवति समुत्कर्षः । इदमेवोद्देश्यं सर्वोपरि निश्चित्य चतुर्दश विद्या स्थानानि प्रवर्तयाम्बभूवुर्महर्षयः । तत्र महर्षिर्जैमिनिः त्रिसहस्रादप्यधिकवर्षेभ्यः पूर्वं जननेन भुवाममामलञ्च- कारेति प्रतीयते । व्याकरणाधिकरणे (१.३.८) सर्व एव ग्रन्थकाराः व्याकरणं प्रमाणं न वेति सन्देहशरीरं परिकल्प्याधिकरणमारचयन्ति । भाष्यकारास्तु गौर्गावो गोणी गोपोतालिका इत्यादीन् शब्दानुदाहृत्य ‘प्रयोगोत्पत्त्यशास्त्रत्वा- च्छब्देषु न व्यवस्था स्यात्’ (१.३.२४) इति सूत्रानुसारेण ‘गोशब्दो यथा सास्ना- दिवति प्रमाणं किं तथा गाव्यादयोऽप्युत न’ इति सन्देहं निर्दिश्य पूर्वोत्तरपक्षौ प्रदर्शयन्ति । सूत्रं च ‘शब्देषु न व्यवस्था स्यात्’ इति व्यवस्थाया अभावे हेतुरुक्तः ‘अशास्त्रत्वात्’ इति । किमपि शब्दव्यवस्थापकं शास्त्रं नास्तीत्यर्थः । सिद्धान्त- सूत्रे ‘तत्र तत्त्वमभियोगविशेषात्स्यात्’ इत्यत्र व्यवस्थापकं किमपि शास्त्रमनिर्दिश्य केवलम् अभियोगविशेषं हेतुं निर्दिशति । हेतुं विवृण्वाना भाष्यकाराः- ‘दृश्यते चाभियुक्तानां गुणवतामविस्मरणमुपपन्नम् प्रत्यक्षञ्चैतद् गुण्यनुमानं न भ्रश्यत इति । तस्माद्यमभियुक्ता उपदिशन्ति एष एव साधुरिति’ इति । अनेन सन्दर्भे- णेदमनुमातुं शक्यते—यत् सूत्रकारसमये किमपि व्याकरणं न निबद्धमासीत् किन्तु अभियुक्तव्यवहारेणैव शब्दगतसाधुत्वासाधुत्वपरिज्ञानं लोकानामभवत् । तेन च पाणिनैर्व्याकरणसूत्रप्रणेतुः पूर्वमेव जैमिनेः काल इति । कथमन्यथा शबर- स्वामिनः स्वीये भाष्ये तत्र तत्र पाणिनिं स्मरन्तोऽपि पाणिन्यादय उपदिशन्ति इत्यनिर्द्दिश्य ‘अभियुक्ता उपदिशन्ति’ इति ब्रूयुः । यथासूत्रं भाष्यमारचनीयमि- त्यभिसन्धाय तथाऽभाषिषत । अतः पाणिनेः पूर्वं जैमिनेः काल इत्याहुः । पाणि- निस्तु ईसातः पूर्वं चतुर्थशतके पञ्चमशतके वाऽवर्ततेति इतिहासविदां मतम् । अत ईसातः पूर्वं षष्ठशतके मीमांसासूत्रकार आसीदिति ज्ञायते । शबरस्वामिनस्तु—औत्पत्तिकसूत्रे ‘न हि वृद्धिशब्देनापाणिनेर्व्यवहरत आदैचः प्रतीयेरन्, पाणिनिकृतिमन्मनुमन्यमानस्य वा’, इत्यत्र पाणिनिम्, दशमाष्टमप्रथमा- धिकरणे चतुर्थसूत्रे वार्तिककारो भगवान् कात्यायनो मन्यते स्म । ....वेति भगवान् पाणिनिः, .....‘सद्भादित्वाच्च पाणिनेर्वचनं प्रमाणम् असद्भादित्वात्र कात्यायनस्य’ इति पाणिनिं कात्यायनञ्च स्मरन्ति । क्वापि महाभाष्यकारं