मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 15, कुल 804 में से
संदर्भ में पढ़ें( ७ ) पतञ्जलिं न स्मरन्ति। अतोऽनुमातव्यं भवति यत् पतञ्जलेः पूर्वं तत्समकाले वा शबरस्वामिन आसन्निति। पतञ्जलेः काल ईसातः पूर्वं तृतीयशतकमिति इति- हासमर्मज्ञैर्निणीतमस्ति। सर्वैरपीतिहासविद्भिः निर्णीतः काल आनुमानिक एव। पाश्चात्यैः प्रदर्शिते पथि गच्छन्तो भारतीया अपीतिहासविदः पाश्चात्याने- वानुकुर्वन्ति। वस्तुत विचार्यमाणे भारतीयानामितिहासोऽनिदम्प्रथमताकात्काला- त्प्रवर्तत इति स्वीकारे कालनिर्णयव्यापारः स्वस्वप्रतिभाविलासप्रकाशनमात्रमेव, नानेन किमपि तथ्यं वस्तु निश्चेतुं शक्यते। एवं न्यायसुधाकारो भट्टसोमेश्वरः ईसातः परं द्वादशशतक आसीदिति लिखन्ति। तन्त्रवार्तिकोपरि बह्वीषु टीकासु विद्यमानास्वपि इयमेव टीका चौखम्बा मुद्रणालयतः प्रथमं मुद्रिता। परं तन्त्रवार्तिकेन सह न मुद्रिता। विना न्याय- सुधया तन्त्रवार्तिकाधिगमो न सुकरः। अतिगभीराणां तन्त्रवार्तिकगतविचाराणां विवरणं स्वप्रतिभासमुद्भूवानां तत्त्वानामुल्लेखनं न्यायसुधाकाराणामनितरसाध- रणं पाटवमवद्योतयति। अत एव परवर्तिनो ग्रन्थकारा न्यायसुधाकृन्मतत्वेन सगौरवं निर्दिशन्ति। अस्मिन् संस्करणे तन्त्रवार्तिकेन सह न्यायसुधामपि संयोज्य अनुपलभ्यमानानां मीमांसाग्रन्थानां प्रकाशनव्यापारे समुद्यतः पण्डितगोस्वामि- महोदयः साधु कर्म करोतीति प्रसीदामि। अधुनातनानां भाष्यसन्दर्भाधिगमे लाघ- वमुद्दिश्य हिन्दीभाषयापि विवरणं संयोजितवानिति ग्रन्थस्यास्यात्यन्तोपादेयत्वं निश्चिन्वानः तस्मै साधुवादान् वितरामि। विशेषतः तारामुद्रणालयाधिपाय 'पाण्ड्या'महोदयाय धन्यवादान् अर्पयामि, यतो हि विरलप्रचारे विद्यमानमपि मीमांसादर्शनं द्रव्यव्ययेन प्रकाशयामास। तारामुद्रणालयोऽतिचिरन्तनादेव कालात् संस्कृतग्रन्थानां प्रकाशने बद्धश्रद्धः, मुद्रणकलाविधौ प्रसिद्धश्च। अतोऽहं धन्यवादशतेन 'पाण्ड्या'-महोदयं पूरयामि। वेदमीमांसानुसन्धानकेन्द्रम् पी० एन० पट्टाभिरामशास्त्री वाराणसी, माघकृष्णामावास्या, १.२.१९८४ सं० २०४०