मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 16, कुल 804 में से
संदर्भ में पढ़ें( २ ) नन्वेवमपि यत्र यौगिकं रूपं तत्रापि गौणताप्रसक्तिः । न चेष्टापत्तिः । गङ्गायां घोष इत्यादावपि यौगिकार्थसम्भवेन लाक्षणिको न स्यादिति चेन्न । रूढिशब्दानां हि स्वावयवार्थनिरपेक्षतयैव स्वाभिधेयेऽर्थे वृत्तिः । यथा गवादिशब्दानाम् । अतोऽत्र स्वावयवार्थानपेक्षत्वात् गौणत्वप्रसङ्गो न । तस्मात्संज्ञानामसंज्ञानां च शब्दानां न गौणत्वं किन्तु मुख्यत्वमेव । न चैवं सति प्रकृतिप्रत्ययविभागो निरर्थक इति वाच्यम् । व्युत्पाद्यशब्दानां विशिष्य व्युत्पत्ति- प्रदर्शनार्थत्वादिति संक्षेपः ॥ अतोऽत्रैकस्य ग्रन्थकारस्य मतं सर्वथैव सर्वैरभ्युपेयं भवत्येवेत्यत्र न किञ्चिदपि संशीतिरस्ति किन्त्विदानीं येऽपि नूतना विद्वांसोऽत्र भारते वर्षे प्रादुरभवन् तेऽपि ग्रन्थान्तरं विलोक्यैव ग्रन्थकारस्याशयमुद्भावयामासुः । न च स्वेच्छया किमपि नवं न्यरूपीति न तिरोहितं प्राचामपि पण्डितानाम् यथाऽस्मत्परमपूज्यचरणैः परमविद्वद्भिः पण्डितप्रवर-शिवदत्तशर्मभिः प्रसिद्धकाव्यप्रकाशस्य व्याख्यायां व्यधायि तच्च सर्वं तत्र द्रष्टव्यम् । यतस्ते बहुतरप्रयत्नेन तत्र तदुपयोगि यत्किञ्चिद् व्याख्यानं विहितं तत्तु सर्वैरभिनन्दितं दृश्यते । तस्मात्सर्वमेतद्विचार्य मयाऽप्यत्र कल्पलतातन्त्रे परम्परागतप्राचीनग्रन्थानामेवावष्टम्भेन व्याख्यानं कृतमिति विभाव्य विबुधैर्मयि कृपां विधायास्य संशोधनकार्ये दत्तचित्तैर्भवितव्यमिति साञ्जलिप्रणतिपूर्वकम- भ्यर्थ्यत इत्यलमतिप्रपञ्चेन । सुधीभिः कृतानि संशोधनानि सानन्दमङ्गी- करिष्यन्त इति विभाव्य विरमामि । बहुना किम् ? परगुणपरमाणून्पर्वती- कृत्य नित्यं निजहृदि विकसन्तः सन्तः सन्ति कियन्तः ॥ इति शम् ॥ ग्रन्थस्य सम्पादक-प्रकाशकौ विजयादशमी संवत् १९७० विजयानन्दशर्मा ४।१०।१९१३ रसिकमोहनपुस्तकालय, नवलगढ, १९७४ वि०