मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 128, कुल 804 में से
संदर्भ में पढ़ें७६ मीमांसादर्शनम् [ सू० शब्देनाभिप्रेतः । सा विधिविधेयसम्बन्धनिषेधेऽपि शुद्धस्यैवालम्भस्य भविष्यति—निमि- त्त्वेनोक्तत्वादिति । आलम्भस्यार्थवादानाकाङ्क्षत्वेऽप्यर्थवादस्य पुरुषार्थानुबन्धित्वाय साकाङ्क्षत्वादन्यतराकाङ्क्षयापि सम्बन्धोऽपि भविष्यतीति चशब्देन सूचितम् । एवं वाऽनेन भाष्ये व्याख्यातमालभेतेतिमध्यप्रतीकेन समस्तविध्युद्देशनिर्देशात्तदर्थो भूतिसाधनत्वमालम्भस्योक्तम् । कस्मादित्यपेक्षिते पूर्वभाष्यनिर्दिष्टं वायुं तच्छब्देन परा- मृश्य यस्माद्वायूर्भूतिं साधयतीति स्तुत्यन्वयप्रदर्शनमिति । कस्माद् भूतिकामेनालब्ध- व्यमित्यभिसम्बन्धो न विवक्षित इत्याशङ्क्याविवक्षाकारणमुक्तम्—भिन्नविमावर्थाविति । तदेकस्यैव सम्बन्धस्यानिराकार्यार्थतयोपन्यस्तत्वादयुक्तमित्याशङ्क्य व्याचष्टे—भिन्नाविति । भूयार्थवादानुग्रहायावश्यविवक्षणीये स्तुतिस्तुत्यसम्बन्धे सतीतरसम्बन्धविवक्षां वदतोभय- विवक्षाङ्गीकारात् तत्र च वाक्यभेदापत्तिरित्यर्थः । किमर्था स्तुतिरिति प्रश्नभाष्यं स्तुतेरिच्छोत्पादनेन प्रवर्त्तकत्वस्य स्फुटत्वादयुक्त- माशङ्कयाभिप्रायद्वयमाह—किमर्थेति । कथं रोचेतेत्युत्तरभाष्यम् यथाक्रममभिप्रायद्वय- निरासार्थत्वेन व्याचष्टे—आचार्यस्त्विति ननु प्रागित्याशङ्काभाष्यं द्वितीयप्रश्नाभिप्राये पुनरुक्तमाशङ्क्य विवरणपरत्वेन व्याचष्टे—इतरेति । न हि यदेत्यादिपरिहारभाष्यं तत्र नञ्द्वययोगेन सन्निधानमेवोक्तं स्यान्न च तदा विधिविधेयसम्बन्धाविवक्षाङ्गीक्रियते, विरोधश्चोत्तरभाष्येण स्यादित्याशङ्क्य न हीति छित्त्वाऽऽनर्थक्यनिरासार्थत्वेन व्याचष्टे—न हीति । कथं नानर्थक्यमित्यपेक्षिते केवलश्रवणावधारितसामर्थ्यस्यापि विध्युद्देशस्यार्थवादसन्निधौ विधायकत्वाभावादिति कारणम्—यदेत्यादिनोक्तम् । यथेत्यादिना—दृष्टान्तद्वारोपपादितम्, तत्प्रपञ्चयति—सर्व- त्रेति । दृष्टान्त एव किं व्यवस्थाकारणमित्यपेक्षायामाह—योग्यति । आकाङ्क्षणीयाऽलाभ- निमित्ता ह्याकाङ्क्षानिवृत्तिर्नान्येत्यर्थः । ननु यथाप्राकृतपदार्थलाभान्निवृत्ताकाङ्क्षाया अपि विकृतेः सन्निधिपठितपदार्थाकाङ्क्षावशादाकाङ्क्षोत्थापनम्, तथेहापि पदार्थान्तरा- काङ्क्षावशादाकाङ्क्षोत्थापनेऽपि स्वतो निराकाङ्क्षत्वात् प्रकरणगतानां प्रयाजादि- वाक्यानामिव¹ कस्मात्प्रामाण्यं न स्यादत आह—इतरथेति । इतरेण प्रकारेण योग्य- पदान्तरानुच्चारणमनालोच्य स्वरूपमात्रालोचने सर्वत्राकाङ्क्षा भवत्येव श्रुतपदातिरेके- णापि दर्शनादित्यर्थः । स्वाभाविकीमाकाङ्क्षामुपपादयति—तथा चेति । एवं यदेत्यादि- भाष्यं पूर्वेण पुनरुक्तमाशङ्क्योपसंहारार्थतया व्याचष्टे—तदिहेति । नन्वेवं सतीत्याशङ्काभाष्यं महावाक्येऽवान्तरवाक्याप्रामाण्यस्योक्तत्वादयुक्तमाशङ्क्य व्याचष्टे—नन्वेवमिति । सत्यं विनापीति परिहारभाष्याभिप्रायमाह—सत्यमिति । गवादि- प्रचारार्थं ग्रामस्य समन्ताद्या भूःकर्षंकैः परिहियते सा परिहारशब्देनोच्यते । [१धनुः शतं १. प्रकरणगतानामपि प्रयाजादिवाक्यानां स्वतो निराकाङ्क्षत्वात् प्रमाजनकत्वं भावनया कथं भावेनापेक्षणात् विध्येकवाक्यत्वं तद्विधेः स्वार्थप्रतिपादकत्वं पदार्थान्तराकाङ्क्षा- वशादेकवाक्यत्वमित्यर्थः ।