मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 129, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ७७ परिहारो ग्रामस्य स्यात्समन्तत इति स्मृतेः] । तस्य पन्थाः परिहारपथः; तेन ग्रामगमन- वदिति दृष्टान्तार्थः । ननु सत्स्वपीत्याशङ्काभाष्यं वेदस्यापर्यंनुयोज्यत्वेनोक्तवादयुक्तमाशङ्क्य व्याचष्टे— नन्विति । आहेति परिहारभाष्यं व्याचष्टे—तत्र उत्तरमिति । भवन्वितीशङ्काभाष्यं व्याचष्टे--भवन्त्विति । नेत्यादिपरिहारभाष्यं व्याचष्टे-नोक्तेनेति । प्रतीतिमात्रेणार्थस्य विवक्षितत्वमतिप्रसङ्गादयुक्तमाशङ्क्य योऽसावित्यादिनोपपादितं तद्व्याचष्टे-द्वयसम्भवं हीति । अर्थवादानुग्रहो युक्त इत्यनेनातोऽस्मादितिभाष्यमेव व्याख्यातम्, यतः प्रत्यक्षो वाक्यशेषभावः, अतः कारणादस्मात्सार्थवादकाद्विधेः सकाशाच्छ्रुतिमिव प्रवर्त्तकत्वेन विवक्षितामवगच्छामो न विधिम्, भूयोऽल्पविरोधे भूयोऽनुग्रहस्य न्याय्यत्वादिति । ननु निरपेक्षादपीतीत्याशङ्काभाष्यमन्यत्रावधारितविधिशक्तिर्विध्युद्देशस्यात्रापि प्रत्य- भिज्ञानात्स्तुतिसम्बन्धाविवक्षाप्रतिपादकत्वेनाभासमानं ननु सत्स्वपीत्यनेन पौनरुक्त्ये- नाक्षिपति-नन्विति । सत्यपि समस्तस्य स्तुतिस्तुत्यसम्बन्धरूपेऽर्थे पूर्वस्य विधिविधेय- सम्बन्धरूपार्थोपप्लवनिरासार्थतया समाधत्ते-तदुच्यत इति । अथांस्येत्यनेन भाष्योपक्षिप्तं कारणमुक्तम् । भवत्वितिपरिहारभाष्यं व्याचष्टे-तद्विधीयत इति । अनेनैवं व्याख्यातं भवतु निरपेक्षार्थत्वादरहिताद्वसन्तादिवाक्येषु विध्यवगतिः, न हि निरपेक्षे सत्यर्थद्वया- सम्भवलक्षणो विरोधोऽस्ति, न चात्र शक्त्यभावाद्द्व्यर्थत्वासम्भवः, येनास्यैव क्व- चिच्छक्तिः क्वचिदशक्तिरिति विरोधः स्यात् । बाधाबाधौ तु बाधकसदसद्भावाभ्यां न विरुध्येते इति काक्वा सूचितम् । इह तु स्तुत्यर्थत्वस्योक्तन्यायेनावश्याङ्गीकार्यत्वाद्वक्य- भेदप्रसङ्गेनाशक्यो विध्यर्थ इति । द्वौ चेदितिवाक्यभेदभाष्यं भिन्नाविमावर्थावित्यनेन पुनरुक्तमाशङ्क्य पूर्वंन्युत्पादित- स्यैव वाक्यभेदस्य स्तुतिसम्बन्धे सत्यशक्यो विध्यर्थ इत्युक्ते कुतोऽशक्य इत्यापन्नहेतुप्रश्नो- त्तरत्वेन पुनरुपन्यास इति परिहरति-प्रश्नोत्तरत्वेनेति । ननु यदि स्तुत्यसम्बन्ध एवात्र विवक्षितो न विधिविधेयसम्बन्धः । ततोऽनुष्ठानाप्रतिपादकत्वेनाक्रियार्थत्वाद्वर्मप्रामाण्यानु- पपत्तेर्विध्युद्देशेनैकवाक्यत्वात् प्रमाणमित्युपक्रमानुपपत्तिः स्यादत आह--तस्मादिति । यस्मादन्यथा वाक्यभेदः प्रसज्येत तस्मात्प्ररोचनयैवात्र विधिः तथा सत्यैकार्थ्यादित्यर्थः । अनेन चाथ यदुक्तमित्यनूदिताशङ्कानिरासार्थत्वेन भाष्यकारावतारितस्तुत्यर्थेन विधीनां स्युरिति सूत्रावयवमेवं व्याख्यातम् । स्तुतेरर्थः प्रयोजनं प्ररोचना तद्द्वारेण कर्मव्युत्पन्न- विधिशब्दोक्तानां क्रियाणामुपकारिणोऽर्थवादा इति एतत्सूत्रावयवव्याख्यानार्थं स्तुतिशब्दा इति भाष्यम् । तत्रानुष्ठातॄणामिति षष्ठीमाक्षिपति--प्ररोचयमाना इति । नन्विक्स्तिपौ धातुनिर्देश इति धातुमूतुरुचियोगे सम्प्रदानसंज्ञा विहिता, न च तत्प्रयोगे पूर्वंप्रकृतेर्धातुत्वमस्ति । तथा सति धातुद्वयप्रसङ्गेन धातोरिति विवक्षितैकत्वधातू परिविहितप्रत्ययानुपपत्तिप्रसङ्गादित्या-