मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 134, कुल 804 में से
संदर्भ में पढ़ें८२ : मीमांसादर्शनम् [ सू० ननु प्रागित्याशङ्काभाष्यं किमर्था स्तुतिरित्यनेन पुनरुक्तमाभासमानम् । तदभिप्राय- विवरणार्थतया व्याचष्टे—नन्विति । न हीत्यादिपरिहारभाष्यम् । तस्यायमर्थः—न तावत्प्राशस्त्यं विना प्ररोचना संभवतीत्युक्तं कथं रोचतेत्यनेन । यदि तु विध्युद्देशेनैव प्राशस्त्याक्षेपस्य वसन्तादिवाक्येषु दर्शनादिहापि तत एव प्राशस्त्याक्षेपसिद्धेः, स्तुतिपदा- नर्थक्यमुच्येत, तन्निराकरणार्थं यदेत्याद्युक्तम् । तद्व्याचष्टे—न हीति । न हीत्यादिनैतदा- हेत्यन्वयः । शक्तिद्वयनिराकरणासमर्थत्वमस्य ग्रन्थस्य दर्शयितुं विधीयते इत्येतत्समाप्ति- परत्वेन न तदेत्यादिना व्याख्यातम् । अनेन च तदा पूर्वेण विधिरित्यत्रापि समाप्यत इत्यध्याहारो दर्शित इत्यवगन्तव्यम् । प्ररोचनया च विधिसमाप्तेः प्ररोचनाशक्तिः समाप्युक्त्या दर्शिता भवतीति, न भाष्योऽवाचकत्वोपालम्भः । दृष्टान्तभाष्यं पूर्ववदेव व्याख्येयमित्याह—यथेति । यच्चास्माभिः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानुग्राह्यानुग्राहकार्थभेदात्समुच्चय इति प्रागुक्तम्, तदनेन दार्ष्टान्तिकयोजना- भाष्येण स्पष्टीकृतमित्याह—विधिशब्देनेति । नन्वेवं सतीत्याशङ्काभाष्यगतमविधायक- पदप्ररोचकत्वाभिप्रायं व्याख्यातुमाह—नन्विति । सत्यमित्यादिपरिहारभाष्यं प्रतीकेन गृहीत्वा तस्मिन्विद्यमान इत्यादिभाष्यशेषं तस्मादित्यध्याहारपूर्वकं साधारणत्वेन व्याचष्टे- सत्यमिति । अविद्यमाने हि स्तुतिवचने विध्युद्देशमात्रस्य प्राशस्त्यविशिष्टविधिरूपोऽर्थो भवेत्; इह तु स्तुतिवचनस्य विद्यमानत्वाद् योऽर्थो न्याय्यो भवति, सोऽङ्गीकार्य इत्यर्थः । स्तुतिः प्रयोजनमिति भाष्यावयवमवतारयितुम्—कश्चासावित्युक्तम् । अर्थवादमात्रस्य स्तुतिप्रयोजनत्वाद् द्विवचनानुपपत्तिमशङ्क्य—न तस्यैवेत्याद्युक्तम् । अर्थवादाभावे त्वित्यनेन तस्मिन्सतीति भाष्यावयवो व्याख्यातः । ननु सत्स्वपीत्यादि प्रत्यक्षश्च वाक्यशेषभाव इत्यन्तं भाष्यं पूर्ववदेव व्याख्येयमित्याह- नन्विति । अत्राप्युपात्ते लघूपाये गुरूपायाश्रयणानुपपत्तिमशङ्क्य आनर्थक्यपरिहारायो- पात्तेऽपि लघौ गुरोराश्रयणमित्येतावदर्थतुल्यत्वमिति । अतोऽस्मादित्यपसंहारभाष्यं विधेरिति पञ्चम्या विधेः स्तुत्यवगतिप्रतिपादनादभिप्रेतविरुद्धमाशङ्क्याह-अतोऽस्मादिति । किं सम्बन्धनिबन्धनयं षष्ठीत्यपेक्षिते आह—वाक्येति । पूर्वप्रकृतवाक्यशेषोऽस्मादिति सर्वनाम्ना परामृष्टो विधेरिति षष्ठ्या सम्बध्यत इत्यर्थः । एवं सत्येष भाष्यार्थो भवती- त्याह—इत एवेति । अस्य विधेः सम्बन्धिन इतो वाक्यशेषादेव स्तुतिमवगच्छामो न स्वतो विधिमात्रादित्यर्थः । ननु निरपेक्षादपीत्याशङ्काभाष्याभिप्रायमाह—नन्विति । भवत्विति परिहारभाष्य- माशङ्कानुज्ञानादयुक्तमाभासमानं सोपहासत्वेन व्याचष्टे—आचार्यस्त्विति । एवमर्थ- विरोधशक्यत्वयोः परस्परव्याघातात्तत्परिहारार्थं व्यवस्था यत्रासावित्यादिना दर्शिता । सर्वेऽमी विधिशब्दाः सप्ररोचनविधिपरा व्याख्येयाः । अशक्यत्वोपपादनार्थं पूर्वोक्तगौरव- लक्षणवाक्यभेदस्मारकं वाक्यं हीत्यादिभाष्यं व्याचष्टे—वाक्यं हीति । एकमेकस्यैवेति ।