भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 133, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 133

७ ] प्रथमाध्याये द्वितीयपादः ८१ मेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छदि'त्यादौ त्वर्थवादमात्रकल्पविधिदर्श- नाद्विधेः प्राक् "स्तुत्यनवसरत्वप्रतिपादनमयुक्तमित्याशङ्कयाह—यत्रापीति । तत्रापि पूर्वं- चरितकीर्त्तनान्यथानुपपत्तिमार्त्रेण कर्त्तव्यतां कल्पयित्वा शेषपदानां स्तुत्यर्थत्वेनान्वयः । न तु प्रागेव कस्यचित्स्तुतिः प्रतीयत इत्यर्थः । सिद्धरूपार्थकीर्त्तनाभिप्रायोऽर्थवादशब्दः, न स्तुत्यभिप्राय इति भ्रमितव्यम् । नन्वेवमपि सिद्धरूपार्थकीर्त्तनमात्रेण कर्त्तव्यतायाः प्रतीतिसिद्धेः प्रत्ययानर्थक्यं तदवस्थमित्याशङ्कयाह—सम्भवत्यां त्विति । ननु श्रौतार्थद्वयाश्रयणे वाक्यभेदापत्तेः प्रत्ययश्रवणेऽपि भूयोऽर्थवादपदानुग्रहाय स्तुत्यैव कर्त्तव्यताकल्पनमगत्याऽङ्गीकार्यमित्युक्तमत आह—यस्त्विति । प्राशस्त्यकर्त्तव्य- तयोर्विशेषणविशेष्यभावात्प्राशस्त्यविशिष्टकर्त्तव्यतात्वरूपैकार्थप्रतिपादनादेकव्यापारोपपत्ते- नार्थभेदनिबन्धनवाक्यभेदापत्तिरित्यर्थः । नन्वर्थभेदाभावेऽप्यप्राशस्य विधिसम्बन्धा- न्त्रासस्य च विशेषणभूतप्राशस्त्यसम्बन्धाद्वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत अत आह— विधीयमानस्यैव हीति । प्राशस्त्यं विना विध्यपर्यवसानादप्राप्तावस्थस्यैवालम्भस्य विधिर्नैव प्राशस्त्येनापि सम्बन्धाद्वैरूप्यमित्यर्थः । नन्वेवमपि विशिष्टार्थप्रतिपादनाद् गौरवापत्तिरत आह—यदि चेति । का तर्हि नायमभिसम्बन्धो विवक्षत इत्यादिर्भाष्यस्य गतिः । अत आह—तस्मादिति । अनेन ग्रन्थेनैवमेतद्भाष्यं व्याख्यातम् । भूतिकाम आलभेत कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधस्तुतिसम्बन्धरूपो विशिष्टोऽर्थो दर्शितः । नायं विध्यु- द्देशमात्रेण विवक्षितः, किं तु सार्थवादकेनेति । तत्रालभेतेतिमध्यप्रतीकेन विध्युद्देशोप- लक्षणम्, ततो भूतिरिति पूर्वप्रकृतवायूपरामर्शितच्छब्दयोगिना भूतिपदेन । स एवैनं भूतिं गमयतीत्यन्तार्थवादोपलक्षणं विशेषणविशेष्यरूपार्थद्वयस्य विशेष्यप्रतिपादकविध्युद्देशमात्रेणा- भिधाने गौरव लक्षणवाक्यभेदापत्तेरिति । विधित्वादीत्यादिशब्देन फलेतिकर्त्तव्यताग्रहणम् । किमर्थेत्याशङ्काभाष्यं विधिविवक्षायां तदितिकर्त्तव्यताभूतस्तुत्याकाङ्क्षानिराकरणा- योगाद्युक्तमाशङ्क्य व्याचष्टे—किमर्थेति । अयमाशयः—प्रवृत्तिप्रतिबन्धकालस्यादिभङ्ग- रूपाप्ररोचनाविधेरितिकर्त्तव्यता; न स्तुतिः । स्वार्थं तु तथा स्तुतिराकाङ्क्षते, विध्य- वगतश्रेयःसाधनत्वादेव तु प्रवृत्तिहेत्विच्छाजननेन तद्विरोध्या लस्यादिनिराकरणसिद्धेर- र्थिका स्तुतिरिति भाष्यं चैवं व्याख्येयम् । यद्यपि विधस्तुतिरूपार्थद्वयप्रतिपादनं विध्यु- द्देशमात्रेण न क्रियते, तथाप्यर्थवादानर्थक्यं विधित एव प्ररोचनासिद्धेः, तदर्थ्येन स्तुत्य- नाकाङ्क्षणादिति । कथं रोचेतेत्युत्तरभाष्याभिप्रायमाह—कथमिति । श्रेयःसाधनत्वाधि- गमेऽपि बहुव्ययायासदर्शनाद्द्वेषोत्पत्तेः स्तुतिमन्तरेणानिराकरणात् दुर्वा रा स्तुत्या- काङ्क्षेतेति भावः । १. भूतिकामान्तविध्युद्देशप्रदर्शनेनेत्यर्थः । ६