भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 140, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 140

८८ मीमांसादर्शनम् [ सू० तुल्यं च साम्प्रदायिकम् ॥ १.२.८ ॥ शा० भा०—अथोच्येत प्राक् स्तुतिपदेभ्यो निराकाङ्क्षाणि विधायकानि विधिस्वरूपत्वात् । स्तुतिपदानि तु प्रमादपाठ इति । तन्न । एवमर्थावगमात् । तुल्यं च साम्प्रदायिकम् । सम्प्रदायः प्रयोजनं येषां धर्माणाम्, सर्वे ते विधिपदा- नामर्थवादपदानां च तुल्याः । अध्यायानध्ययने, गुरुमुखात्प्रतिपत्तिः, शिष्यो- पाध्यायता च । सर्वस्मिन्नेवंजातीयकेऽविधानार्थे तुल्यमाद्रियन्ते । स्मरणं च दृढम् । अतो न प्रमादपाठ इति ॥ ८ ॥ भा० वि०—ननु तुल्यं चेति च शब्देन विधिनात्वेकवाक्यत्वादित्यनेन यः स्तुत्यर्थत्वमर्थवादानामुपयोग उक्तस्तत्रैव युक्त्यन्तरं समुच्चीयत इति प्रतीयते, तच्चायुक्तम्, तुल्यसाम्प्रदायिकत्वस्य भवितव्यं प्रयोजनेनेत्येतावन्मात्रसाधकत्या स्तुत्यर्थत्वासाधकत्वादित्याशङ्क्य नानेन स्तुत्यर्थत्वे हेत्वन्तरं समुच्चीयते, किन्तु स्तुत्यर्थत्वान्नानुपयोग इत्यनुपयोगपरिहार उक्तस्तत्रैव हेत्वन्तरमिति दर्शयितुं तामेवानुपयोगपरिचोदनामनुवदति—अथेति । स्तुतिप्रतिपादकत्वेना- भिमतेभ्यः प्राग्विधायकानि विधिपदानीति शेषः, तत्र 'हेतुर्विधिसरूपत्वादिति, अर्थवादमनपेक्ष्यैव विधिपर्यवसायिवसन्तादिवाक्यसारूप्यादित्यर्थः, किमर्थानि तर्हि तानीत्याह—स्तुतीति । प्रमादपतितानि अबुद्धिपूर्वाधीतानि अनर्थका- नीत्यर्थः, अत्रेतिरध्याहार्यः, तत्र पूर्वोपपादितोपयोगप्रतीतं परिहारमन्तर्भाव्य, तेन परिहान्तरसमुच्चये च शब्दं व्याख्यातुं पूर्वसूत्रोक्तमनुपयोगपरिहारं स्मार- यति—तन्नेति । तत्र हेतुः—एवमिति । पूर्वोक्तप्रकारेण स्तुत्यर्थतया अर्थवत्वाव- गमादित्यर्थः, न केवलमर्थवत्त्वावगमादनुपयोगासंभवः, साम्प्रदायिकतुल्यत्वा- च्चेत्येतत्सूत्रगतं च शब्दं योजयति—तुल्यं चेति । साम्प्रदायिकपदार्थं दर्शयन्वा- क्यार्थमाह—सम्प्रदाय इति । सम्प्रदायो अध्ययनं प्रयोजनं येषां भावानामध्या- यानध्ययनादीनामित्यर्थः सम्प्रदायाख्याध्ययनानुग्राहकत्वं च धर्माणाम् । 'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यस्सरहस्यो द्विजन्मना ॥ इति स्मृत्या विनियोगादवगन्तव्यम् । ननु योऽर्थवादानर्थक्यमभ्युपैति, तस्य साम्प्रदायिकतुल्यत्वमप्यसिद्धमिति शङ्कां साम्प्रदायिकान् धर्मान् विवृण्वन् परिहरति—अध्यायेत्यादिना । अध्यायान- ध्ययनपरिच्छेदपरिसमाप्त्यादावुत्थानादिः गुरुमुखात् प्रतिपत्तिः ग्रहणं तन्नियम इति यावत् । शिष्योपाध्यायतो अधीहि भो इत्याद्युपसदनक्रियायां कर्तृकर्मभावः, १. स्वरूपत्वादिति० मु० भा० पु० पा० ।