भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 141, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 141

८ ] प्रथमाध्याये द्वितीयपादः ८९ च शब्देन भैक्षाचरणगुरुशुश्रूषाऽधश्शय्यादयो गृह्यन्ते, ते सर्वे सर्वस्मिन् वायुर्वे क्षेपिष्ठेत्येवं जातीयके वायव्यं श्वेतमित्यादिविधिवाक्यैः तुल्यमाद्रियन्ते आदर- णेनानुष्ठातृभिरनुष्ठीयन्त इत्यर्थः, भवत्वध्ययनानुग्राहकधर्माणामर्थवादेष्वप्यादरः तथापि कथमानर्थक्यपरिहारः तत्राह-अविघ्नार्थमिति- 'अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टमीपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ इत्यादिस्मृतेः तावद्विघ्नहेतुद्ध्यायनिरासेनाक्षरग्रहणं साधयतः सम्प्रदायस्या- नध्यायादिनियमजातमनुग्राहकमवगम्यते, न च निष्प्रयोजनस्य विघ्नेन किंचित् कार्यं तत्र क्लेशपरिहाराय विघ्नस्यैव युक्ततरत्वात्, तेनैषां धर्माणां सम्प्रदाया- विघ्नार्थमादरेणानुष्ठीयमानत्वात् सप्रयोजनार्थवादाध्ययनस्यावसीयत इति भावः। नन्वादरस्य स्मृतिमूलत्वाभिधानात्, तस्याश्च मूलरहितत्वात् कथं प्रयोजन- वत्त्वाध्यवसायः, स्मरणाच्चेति स्मृत्यधिकरणे वक्ष्यमाणन्यायेन वेदमूलत्वा- दृढमिति वेदमूल एवायमादर इत्यर्थः। वेदमूलश्चादरः प्रयोजनवत्त्वाद्भेदाव- गताहते न सम्भवतीति सामान्येन प्रयोजनावगमान्नानर्थक्यमर्थवादानामित्याह- अत इति। यस्मान्न प्रमादपाठः, तस्मात्प्रयोजनविशेषाकाङ्क्षायां स्तुत्यर्थेनार्थ- वत्त्वं भविष्यतीति हेत्वर्थेन इति शब्देनेति दर्शितम्। अथवा साम्प्रदायिकधर्मादिरान्यथानुपपत्त्या प्रयोजनवत्त्वमुक्त्वा, इदानीं यदेवेदं वेदस्य स्मरणं धारणात्मकपालनापरपर्यायं साम्प्रदायिकम्, तेनाप्यध्येतृ- पुरुषवर्त्तिप्रयोजनवत्त्वाभिप्रायोनुमानपूर्वकं प्रयोजनत्वप्रतिपादकवाक्यानुमानात् नानर्थक्यम् इत्यन्यथा सूत्रं व्याचष्टे-स्मरणं चेत्यादिना। इतिशब्देन पूर्ववद्विशेष- पर्यंवसानं दर्शितम् ॥ ८ ॥ त० वा०-चशब्दव्याख्यानार्थं परिचोदनोपन्यस्ता। आनर्थक्यमेवास्त्विति। तन्नैव। कुतः ? पूर्वोक्तेन न्यायेनार्थस्यावगम्यमानत्वात् । अथ वा तन्नेत्यवच्छिद्यैवमर्थावगमादित्युक्तप्रकारपरामर्शः। किं च तुल्यं चेत्ति योजना। संप्रदायानुग्रहार्थं धर्मजातम्। तत्संबन्धस्मरणात्। स्वर्गादिसंयो- गाच्च। न चास्य प्रयोजनवत्संनिहिताध्ययनपरित्यागेनार्थत्वे प्रमाणमस्ति। संप्रदायाङ्गत्वेऽपि चाविघ्नस्याऽऽकाङ्क्षितत्वात्। तादर्थ्यस्मरणाच्चाविघ्नार्थ- त्वम्। न ह्यान्यत्कल्प्यमानं स्वाध्यायेतिकर्त्तव्यतानुगुणं भवति। यदि तावत्स्वर्गः कल्प्येत, ततः पुरुषार्थत्वमेवाऽऽपद्यते। अथ पुनः क्रतुफलसिद्धिरेवं पठिते वेदे भवतीति। एवमपि दूरस्थोपकारितैव। तस्मात्संप्रदायस्याक्षरग्रहणं साधयतो नियमजातमनुग्राहकम् ।