मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 145, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये द्वितीयपादः ९३ परिहार एव त्वदुक्तदोषान्तराप्राप्तिश्चेति च शब्दं व्याकुर्वन् प्रतिज्ञां व्याचष्टे— अपि चेति । यद्यपि पूर्वं स्तेयादिवाक्यमुदाहृत्य शास्त्रदृष्टविरोधो दर्शितः, तथापि सोऽरोदीदित्यादिष्वपि सो विशेषादनुसन्धेयः इति वक्तुमाह—सोऽरो- दीदिति । प्रश्नपूर्वकं प्रयोगे हीत्यादीत्यादिहेतुं व्याचष्टे—कुत इत्यादिना प्रयोगः अनुष्ठानः, कर्त्तव्यतेति यावत् । तस्मिन् हि प्रयोगे स्तेयादोनां रोदनवपोत्खनन- दिङ्मोहस्तेयानृतवदनादीनाम् उच्यमानेकल्प्यमाने शास्त्रदृष्टविरोधः स्यात् न चासौ कल्प्यत इत्यर्थः । ननु श्रुतस्यार्थस्य प्रयोजनवत्त्वाय विधिः कल्पनीय इत्याशङ्कयापाकरणार्थं शब्दार्थस्त्वप्रयोगभूत इतीदं व्याचष्टे शब्दार्थ इति । सूत्रे तुशब्दश्शङ्काव्यावर्त्तकः, वाच्यार्थविषयोऽर्थशब्दः तेषु सोऽरोदीदित्यादिषु प्रयुज्यतेऽनेनेति व्युत्पत्त्या प्रयोजन-प्रयोगः, विवक्षितश्चार्थः प्रयोजनं भवतीति लक्षणया प्रयोगशब्देन विवक्षितत्वमुक्तम् प्रयोगमप्राप्तोऽप्रयोगभूतः अविवक्षित इत्यर्थः । एतदुक्तं भवति विवक्षितार्थस्य हि प्रयोगवत्त्वसिद्धयेऽध्याहारादिनानुष्ठान- कल्पना अयं तु न विवक्षितः, तेन कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेति, यस्मान्न विधिकल्पना, तस्मान्न शास्त्रदृष्टविरोधादीत्युपसंहारभागं व्याचष्टे— तस्मादिति । स्तेयादिवाक्यं रोदनादिवाक्यस्याप्युपलक्षणं गुणवादस्त्वित्यनेन त्रयोऽर्थाः सूचिताः । तत्र प्रथमं तावच्छब्दार्थस्त्वप्रयोगभूत इत्यन्तेन विवक्षयार्थभावना- नुपयोग उक्ते कथं नामोपयोगः इत्यपेक्षायां गुणस्य वाद इति षष्ठीसमासाश्रयणेन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्क्ष्यात्यनेन स्मारितम्, तत्रापि स्वार्था- सत्यत्वे कथं स्तुतिरित्त्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थं- सत्यत्वानादरोऽप्यनेनाभिधीयते, तथा भवतु स्तुत्यर्थत्वम्, तथापि कथं क्वचित् विधेयस्तुतिपरत्वम् अविधेयगतायाः स्तुतेः भिन्नविषयत्वादित्यपेक्षायां गौण्या- वृत्त्याप्यनेनोच्यते ॥ ९ ॥ त० वा०—उक्तदोषपरिहारोऽतः परम् । शास्त्रदृष्टविरोधिका याऽत्रानुपपत्ति- र्विधिकल्पनायामुक्ता तामस्मत्पक्षमप्राप्तां मन्यामहे । अथवेदं स्तुतिव्याख्यानं तामनुपपत्तिमप्राप्तमिति व्याख्येयं येषां ह्रस्वः पाठः । प्रयोगे ह्यनुष्ठाने रोदनवपोत्खननदिङ्मोहस्तेयानृतवादादीनां कल्प्यमाने विरोधः स्यात् । अस्माकं तु पुनर्य एषां शब्दानां श्रोतोऽर्थः, स नैव विवक्षितः । न चाध्याहारादिभिर्विधिः, किं तर्हि ? स्तुतिमात्रं विवक्षितः । न च तद्विरुध्यते । तस्मादुपपद्येत ।