मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 150, कुल 804 में से
संदर्भ में पढ़ें९८ मीमांसादर्शनम् [ सू० हेतुत्वेन निर्देशादुपपत्तिरेवेयमित्यर्थः । सोपपत्तिकस्य निन्दावाक्यस्य निषेध- वाक्यैकवाक्यत्वम् दर्शयितुम् पुनर्निषेधवाक्यं पठति—तस्मादिति । तच्छब्दस्यो- पपत्तिकनिन्दापरामर्शकः सापेक्षत्वेनैकवाक्यत्वं निगमयति—एवमिति । ततश्च विध्येकवाक्यत्वादर्थवादत्वोपपत्तिरिति भावः । साकाङ्क्षत्वमङ्गीकृत्योपकारा- भावेन विध्येकवाक्यत्वमाक्षिपति—कथमिति । यद्यपि निन्दानिषेधयोरेवेह साकाङ्क्षत्वेनोपकारकत्वेन चैकवाक्यत्वं व्युत्पाद्यते, तथापि सर्वोदाहरणाना- मेकवाक्यत्वसाधारणोऽयं ग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिग्रहणम् । आदिमेऽर्थे सूत्रं योजयन्नुत्तरमाह—गृहेति । हि शब्दः प्रसिद्धौ प्रसिद्धं हि बहुक्षीरादिवाक्यस्य गुणवादेन विधिशेषत्वम्, तद्वदत्रापि रोदनोत्पादकगुणवादेन निन्दाया निषेधशेषत्वमित्यर्थः । निन्दामेवोपपादयति—रोदनेति । दोषसङ्कीर्त्त- नात्मकत्वान्निन्दायाः गुणशब्दानुपपत्तिमाशङ्क्याह—तदिति । निवृत्तिफले हि निषेधे निन्दार्थमुच्यमाना दोषा गुणा एव निवृत्त्युपयोगित्वादित्याशयः । निरालम्बननिन्दानुपपत्त्या निषेधशेषत्वमाक्षिपति—कथं पुनरिति । न खल्वग्नि- ररोदीदित्यत्रेदमेव वाक्यं प्रमाणम्, अस्य निषेधशेषत्वाभ्युपगमात्, प्रमाणा- न्तराभावात् च रोदनमकुर्वति तस्मिन् कथम् रोदीति शब्दः रोदनकर्तृत्त्ववाची शब्द इत्यर्थः । तस्य यदश्रु तद्रजतमित्यस्यापि निरालम्बनत्वादाह—कथं देति । एवमुपपादकवाक्यस्य निरालम्बनत्वमुक्त्वोपपाद्यास्यापि तदाह—पुरेति । मध्यमेऽर्थे सूत्रं योजयन्नुत्तरमाह--तदुच्यत इति । गुणाद्वादो गुणवाद इति व्याचष्टे--गौण इति । एष अरोदीदित्यादिः तत्रारोदीदित्यस्य तावदालम्बन- माह—रुद्र इति । रोदनं निमित्तं यस्येति विग्रहः, रुद्रशब्दस्तावदग्नौ प्रसिद्धः-- "त्वमग्ने रुद्रो असुरो महोदिवः, रुद्रो वा एष, यदग्निः ।" इति मन्त्रब्राह्मणयोः प्रयोगदर्शनात्, तत्र च रोदिते रोदनार्थत्वाद्वप्रत्ययस्य च कर्त्रर्थत्वात् रोदनकर्तृवाची रुद्रशब्दोऽगम्यते । तस्मात् सिंहगुण इव देवदत्तः सिंहशब्देन रुद्रशब्देनाग्निर्विषयीक्रियमाणोऽरोदीदित्युच्यत इत्यर्थः, अश्रुप्रभव- वचनस्यालम्बनमाह वर्णति । वर्णसारूप्याच्छुक्लत्वादिलक्षणादश्रुप्रभवमित्याह । प्रकृतिविकारयोरेव प्रायस्सारूप्यदर्शनात्, इह च सारूप्यादुत्प्रेक्षया प्रकृति- विकारभावमाहेत्यर्थः । किमर्थं निन्दन्निन्दाहेतोः निन्दार्थमिति यावत्, पुरास्येत्यस्यापि सालम्बन- माह—निन्दन्निति । लोके हि धनत्यागनिमित्तमत्यन्तोदारस्यापि गृहजनः पीड्यते, तेन धनत्यागसामान्याद्रोदनोपन्यासो गौणः न मुख्यः । निन्दार्थत्वेन च मुख्यार्थाभावो न दोष इत्यर्थः ।