मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
९८ मीमांसादर्शनम् [ सू० हेतुत्वेन निर्देशादुपपत्तिरेवेयमित्यर्थः । सोपपत्तिकस्य निन्दावाक्यस्य निषेध- वाक्यैकवाक्यत्वम् दर्शयितुम् पुनर्निषेधवाक्यं पठति—तस्मादिति । तच्छब्दस्यो- पपत्तिकनिन्दापरामर्शकः सापेक्षत्वेनैकवाक्यत्वं निगमयति—एवमिति । ततश्च विध्येकवाक्यत्वादर्थवादत्वोपपत्तिरिति भावः । साकाङ्क्षत्वमङ्गीकृत्योपकारा- भावेन विध्येकवाक्यत्वमाक्षिपति—कथमिति । यद्यपि निन्दानिषेधयोरेवेह साकाङ्क्षत्वेनोपकारकत्वेन चैकवाक्यत्वं व्युत्पाद्यते, तथापि सर्वोदाहरणाना- मेकवाक्यत्वसाधारणोऽयं ग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिग्रहणम् । आदिमेऽर्थे सूत्रं योजयन्नुत्तरमाह—गृहेति । हि शब्दः प्रसिद्धौ प्रसिद्धं हि बहुक्षीरादिवाक्यस्य गुणवादेन विधिशेषत्वम्, तद्वदत्रापि रोदनोत्पादकगुणवादेन निन्दाया निषेधशेषत्वमित्यर्थः । निन्दामेवोपपादयति—रोदनेति । दोषसङ्कीर्त्त- नात्मकत्वान्निन्दायाः गुणशब्दानुपपत्तिमाशङ्क्याह—तदिति । निवृत्तिफले हि निषेधे निन्दार्थमुच्यमाना दोषा गुणा एव निवृत्त्युपयोगित्वादित्याशयः । निरालम्बननिन्दानुपपत्त्या निषेधशेषत्वमाक्षिपति—कथं पुनरिति । न खल्वग्नि- ररोदीदित्यत्रेदमेव वाक्यं प्रमाणम्, अस्य निषेधशेषत्वाभ्युपगमात्, प्रमाणा- न्तराभावात् च रोदनमकुर्वति तस्मिन् कथम् रोदीति शब्दः रोदनकर्तृत्त्ववाची शब्द इत्यर्थः । तस्य यदश्रु तद्रजतमित्यस्यापि निरालम्बनत्वादाह—कथं देति । एवमुपपादकवाक्यस्य निरालम्बनत्वमुक्त्वोपपाद्यास्यापि तदाह—पुरेति । मध्यमेऽर्थे सूत्रं योजयन्नुत्तरमाह--तदुच्यत इति । गुणाद्वादो गुणवाद इति व्याचष्टे--गौण इति । एष अरोदीदित्यादिः तत्रारोदीदित्यस्य तावदालम्बन- माह—रुद्र इति । रोदनं निमित्तं यस्येति विग्रहः, रुद्रशब्दस्तावदग्नौ प्रसिद्धः-- "त्वमग्ने रुद्रो असुरो महोदिवः, रुद्रो वा एष, यदग्निः ।" इति मन्त्रब्राह्मणयोः प्रयोगदर्शनात्, तत्र च रोदिते रोदनार्थत्वाद्वप्रत्ययस्य च कर्त्रर्थत्वात् रोदनकर्तृवाची रुद्रशब्दोऽगम्यते । तस्मात् सिंहगुण इव देवदत्तः सिंहशब्देन रुद्रशब्देनाग्निर्विषयीक्रियमाणोऽरोदीदित्युच्यत इत्यर्थः, अश्रुप्रभव- वचनस्यालम्बनमाह वर्णति । वर्णसारूप्याच्छुक्लत्वादिलक्षणादश्रुप्रभवमित्याह । प्रकृतिविकारयोरेव प्रायस्सारूप्यदर्शनात्, इह च सारूप्यादुत्प्रेक्षया प्रकृति- विकारभावमाहेत्यर्थः । किमर्थं निन्दन्निन्दाहेतोः निन्दार्थमिति यावत्, पुरास्येत्यस्यापि सालम्बन- माह—निन्दन्निति । लोके हि धनत्यागनिमित्तमत्यन्तोदारस्यापि गृहजनः पीड्यते, तेन धनत्यागसामान्याद्रोदनोपन्यासो गौणः न मुख्यः । निन्दार्थत्वेन च मुख्यार्थाभावो न दोष इत्यर्थः ।
१० ] प्रथमाध्याये द्वितीयपादः ९९ वपोत्खननवाक्येऽपि द्वेधा सूत्रं योजयितुं विध्येकवाक्यत्वं तावदाह-तथेति । रोदनवाक्यस्य निषेधशेषत्वदृष्टान्तार्थस्तथाशब्दः 'स आत्मन' इत्यादि तूपरमा- लभेतेत्यस्य विधेश्शेषः तेनाकाङ्क्षितत्वादिति योजना । ननु कथमस्य विध्यपेक्षितार्थविषयत्वम्, येन तदाकङ्क्षितत्वं स्यादिति चोदयति—कथमिति । सूत्रेणोत्तरमाह—इत्थं नामेति । विशिष्टफलत्वादिदं कर्म. स्वावयवोत्कर्तनेनापि कृतम्, तत्कर्तव्यं धनसामादिनेति किमु वक्तव्यमित्यर्थः । तामग्नौ प्रागृह्णादिति वाक्योक्तं गुणान्तरमाह—एतच्चेति । एतत् एतादृशं प्रहृतमात्रायां प्रक्षिप्तमात्रायां ······· 'प्रभूतपश्वादिफलत्वमनेनोक्तमिति हृदयम् । इदानीमस्मिन्नुदाहरणेऽन्यथा सूत्रं व्याख्यातुं निरालम्बनस्तुत्यनुपपत्तिं शङ्कते--कथमिति । पूर्ववत्प्रमाणाभावादनुत्खिन्नायामित्यर्थः, उपलक्षणञ्चैतत् उत्तरवाक्यानामपि निरालम्बनत्वेन क·······वक्तवाभावस्य यथा सोऽरोदी- दित्यादीनां गौणोऽर्थ आलम्बनम्, नैव प्रजापतिवपाखननादिवाक्यानां लभ्यते, तेनार्थान्यत्वात् स्तुतिलक्षणया प्ररोचनानुपपत्तिरित्यभिसन्धिः । किमिदमसत्तार्थेन स्तुत्यसंभवचोद्यम् ? किंवा निरालम्बनान्वाख्यानानुपपत्ति- चोद्यम् ? तत्राद्यं परिहरति--असद्दिति । स्तुत्यर्थेनोपयुज्यत इति शेषः । कुत इत्यत आह—प्रशंसेति । यद्यर्थवादावगतस्यार्थस्य प्ररोचनहेतुत्वं ततोऽर्थाभावेन प्राशस्त्यलक्षणाभावात् सा न स्यात् शब्द एव त्ववान्तरव्यापारीकृतार्थ- प्रत्ययः प्ररोचयति, ततश्च विनाप्यर्थं तत्प्रत्ययेनैव प्राशस्त्यावगमात् प्ररोचना- सिद्धिरित्यभिसंहितम् । ननु प्राशस्त्यवदर्थवादस्यापि गम्यमानत्वात् कथमभावः तत्राह-इह त्विति । अर्थवादमात्रोक्तिः प्ररोचनेति वृत्तान्तज्ञानजनितप्राशस्त्याप्राशस्त्यज्ञानाभ्यां प्ररोचनाद्वेषावित्यर्थः । ततः किम् ? अत आह--तत्रेति । अविवक्षितं वृत्तान्त- रूपेऽर्थे इति शेषः, नैतद् वृत्तान्तपरमिति यावत्, प्रवृत्त्यादिप्रयोजनत्वात्, प्ररोच- नादिपरत्वं तु न युक्तमित्याह--वृत्तान्तेति । अन्वाख्यापन इति अन्वाख्यानम् । वृत्तान्तरूपेऽन्वाख्याने विधीयमाने=तात्पर्येण प्रतिपाद्यमाने वेदस्यादिमत्तादोषः आदिमतोऽर्थस्य प्रतिपादनादित्यर्थः, अतश्चाविवक्षितवैवार्थं तज्ज्ञानादेव प्राशस्त्यसिद्धेः प्ररोचनासिद्धिरिति समुदायार्थः । नन्वस्त्वर्थज्ञानमात्रस्य स्तुत्युपयोगित्वम्, निरालम्बनं तु ज्ञानमन्वाख्यानं वा न संभवतीति द्वितीयं शङ्कते--कथमिति । इदमन्वाख्यानमन्वाख्यायते क्रियत इत्यर्थः । निरालम्बनत्वमात्रमेवमपि कथञ्चित् परिहर्तुं शक्यमित्युत्तर- माह—नित्य इत्यादिना । "प्रजापतिर्वा इदमेक आसीत्" इत्यादौ प्रजापतिशब्दः प्रजा पातीति व्युत्पत्त्या विकल्पेन वाय्वादिवचन इत्यर्थः, स आत्मन इत्यत्र
१०० मीमांसादर्शनम् [ सू० वपाशब्दस्यालम्बनमाह—स इत्यादिना । वायोः प्रजापतेर्वृष्टिवर्पामध्यवर्ती सारविषयत्वाद्वपाशब्दस्य वायुमध्यवर्तित्वात् तद्धेतुकत्वाच्च वृष्टेः तथाकाशस्य वायुर्वपा । अवकाशाभावे वायोरप्रवृत्तेस्तन्मध्यवर्तित्वाद्वयुरहितस्यापवरका- काशस्यो दुःखोत्पादकत्वेन तत्सारत्वाच्च । तथादित्यस्य रश्मिर्वपा रश्मेरा- दित्यावयवत्वेन तन्मध्यवर्तित्वाद्राश्म्यायत्तत्वेन प्रकाशस्य सारत्वाच्चेत्यर्थः । तामग्नावित्यस्यालम्बनमाह-तामग्नावित्यादिना । तत्रापि यथाक्रमं विद्युदग्नौ वृष्टेर्वपायाः प्रक्षेपकल्पना तस्याविन्धनत्वप्रसिद्धेः, आर्बीसे शारीरे जाठरे अग्नी वायोर्निक्षेपकल्पना आन्तरत्वसामान्यात्, लौकिके अग्नौ रश्मेर्वपाया निक्षेप- कल्पना, आदित्यो वा अस्तं यदग्निमप्रविशतीति श्रुतेः स्वरूपेण चादित्यस्य स्वर्गस्थस्य भूमिष्ठाग्निप्रवेशासंभवात्, रश्मिद्वारा तत्प्रवेशोपपत्तेश्चेत्यर्थः । ततोऽ- जस्तूपर इत्यस्यालम्बनमाह—तत इति । अजत्वमन्नादीनां सामान्याकारेण द्रष्टव्यम्, तत्र व्रीह्यादिरूपस्यान्नस्य विद्युद्वृष्टिसंयोगाज्जन्यऊष्मणोदकेन च विना तज्जन्यादर्शनादूष्मणश्च तेजो गुणत्वात् विद्युतश्च तेजस्त्वादुपचारा- त्तज्जन्याभिधानम्, वायुजाठराग्निसंयोगाच्चरमधातुरूपस्य बीजस्य जन्यजाठ- राग्निपाचितस्यान्नरसस्य व्यानाख्येन वायुना विण्मूत्रादिभ्यो विविक्तीकृतस्य चरमधातुरूपेण परिणामात् बीजकारणत्वं जाठरादेः रश्मिलौकिकाग्निसम्बन्धा- द्वीरुधन्म उष्मजन्यत्वेन व्रीह्यादिवत् भौमाग्निजन्यत्वात्, निदाघकालजन्यत्वेन च वीरुधां रश्मिजन्यत्वावगमादित्यर्थः । निगमयति—इत्येधमिति । शब्दाः प्रजापतिशब्दप्रभृतयः, तं स्वायै देवताया आलभेत, ततो वै स प्रजाः पशूनसृजतेत्यस्यालम्बनमाह-तन्निति । आलभ्येत्यस्य व्याख्यानमुपयुज्येति प्राप्येत्यर्थः । असृजतेत्यस्यालम्बनमुक्तम् । प्राप्नुवन्तीति सर्वप्रजानां व्रीह्यादिपरिणामप्रभवत्वादन्नस्य तद्धेतुत्वं बीजादेस्तु स्पष्टमेव प्रजादि- कारणत्वं तेनालभेतेत्यादयोऽपि शब्दा गौणा एवेत्यर्थः । दिङ्मोहोदाहरणेऽपि सूत्रं योजयितुं विधिशेषत्वं तावदाह—आदित्य इति । कर्मसु कौशलेन दीव्यन्तीति देवा=ऋत्विजः, देवयजनं=यज्ञभूमिः । भवतु विधि- शेषत्वम्, तथापि कथं स्तुतिरित्याशङ्क्य गुणवादादित्याह—सर्वेति । प्रमाणान्त- रानिवर्त्योऽपि हि दिङ्मोह आदित्यचरुणा निवर्त्यते, किमुतान्ये व्यामोहा इति व्यामोहनिर्वर्तकत्वेन स्तुतिरित्यर्थः, निरालम्बनस्य दिङ्मोहपदस्य कथं स्ताव- कत्वमित्याह—कथमिति । सूत्रेणोत्तरमाह-अप्राकृतस्येति । प्रकृतावनभ्यस्तस्या- नेकस्य कर्मराशेर्बुद्धौ सन्निहितत्वात् कथमेनमविदितं करिष्याम इत्याकुलोभाव- सम्भवेन लौकिका इव कर्तव्यतामूढाः ऋत्विजोऽप्याकुलत्वसामान्यात् गौण्यावृत्त्या दिङ्मूढा इत्युच्यन्त इत्यर्थः ।
१० ] प्रथमाध्याये द्वितीयपादः १०१ नन्वेवं ‘दिशो न प्राजानन्’ इति दिङ्मोहाभिधानस्य सालम्बनत्वेऽपि पथ्यां स्वस्तिमयजन् प्राचीमेव दिशं प्राजानन्, अग्निना दक्षिणा, सोमेन प्रतीचीम्, सवित्रोदीचीम्, दित्योर्ध्वमिति दितेर्दिग्भेदज्ञापकत्वोक्तेः किमालम्बनमत आह— अवधारणेति । अवधारणार्थमवकाशदानमवधारणावकाशदानम्, आदिशब्देन तत्फलप्रणिधानविचारावुक्तौ, प्रायणीयायां हि दर्शपूर्णमासविकृतौ प्रायः प्राकृतान्यभ्यस्तान्येव कर्माण्येव क्रियन्ते, ततश्च तत्समय एव भविष्यत्स्व- नभ्यस्तेषु कर्मस्ववधारणार्थं प्रणिधानादिसम्भवात् प्रायणीयायां चादित्यः प्रायणीय इत्यादित्यचरुविधानाददितिः ज्ञापयतीति गौण औपचारिक एष- वाद इत्यर्थः ॥ १० ॥ त० वा०—यत्र तावद्विधिस्तुत्योरेकविषयता तत्रोपपद्यतां नाम सम्बन्धः, विषयनानात्वे तु कथमिति ? गुणादित्याह । यत्क्रियायाः संबन्धिनि स्तोतव्ये, तत्संबन्ध्यन्तरं स्तूयते । अथ वा यद्विकारे प्रकृतिसंबन्धिनि विधानार्थं स्तोतव्ये, तत्संबन्ध्यन्तरं प्रकृतिः स्तूयते । तत्र तद्द्वारेणापि लोके वेदे च स्तुतिसिद्धेः प्रकारान्तरता । तस्माददोषः । एतस्यास्तु स्तुतेरर्थमुपरिष्टाद्वक्ष्यति शान्ताभिरद्भिः संबद्धो विकारः शान्तिहेतुर्भवन्द्यजमानस्य कष्टं शमयतीति । गुणवादसूत्रेण शुद्धेनैव तावद्रोदनाद्युदाहरणत्रयपरिहारः । शेषसूत्राण्यप्ये- तदुक्तोपपादनार्थतया संभन्त्स्यन्ते । तत्रोदाहृतानां गौणतानिमित्तं किंचिदिहैव वक्ष्यते, परं तु तत्सिद्धिसूत्रे । सोऽरोदीदिति साकाङ्क्षत्वेनैकवाक्यता विधिस्तु- त्योः प्रत्यवयवं कथ्यते । स इति प्रकृतापेक्षः । कुतः ? तत्प्रत्ययात् । तद्धि प्रकृतं प्रतीयते । अथ वा तच्छब्दस्य प्रकृतग्राहित्वं प्रसिद्धम् । स इत्युक्ते तच्छब्दप्रत्ययात्स एवार्थः । एवं तस्य यदश्रु, तद्रजतमिति संबन्धः । सर्वा नेयमुपरितनस्य निन्दा- ग्रन्थस्योपपत्तिरिति तदनन्तरं तदभिधानमुपपद्यते । कोऽसौ ग्रन्थः ? तं दर्शयते । यो बर्हिषि रजतं दद्यात्पुराऽस्य संवत्सराद् गृहे रोदनं भवेदिति । केन हेतुना तदेवं भवतीति ? तदुपपाद्यते, कारणानुरूपत्वात्कार्यस्य, रोदनप्रभवरजतदाना- द्रोदनोत्पत्तिस्तस्मान्न देयमिति सकलमदानस्योपपत्तिरिति । निन्दया तच्छेषत्व- मर्थवत् । गुणवादस्तु शब्दालम्बनं रुद्रशब्दोत्थापितविज्ञानवशेन रोदनसामा- न्यतोऽदृष्टकल्पना । अश्रुुणश्च शौक्ल्याद्यदि नामैतत्कठिनं भवेत्ततो रजतसदृशं भवेदित्युत्प्रेक्ष्य तत्प्रभवनिन्दा । धनत्यागेनात्यन्तोदारस्यापि गृहजनः पीड्यत इति तत्सामान्याद्वा रोदनोपन्यासः । एवं येन केनचिदालम्बनेन निन्दाविज्ञानो- त्पत्तिः प्रतिषेधोपकारिणीति, मुख्यार्थाभावेऽप्यदोषः ।
१०२ मीमांसादर्शनम् [ सू० एवं वपोत्खननादिवाक्ययोजना। स्वात्मवपोत्कर्तनेनापि हि विशिष्टप्रयोज- नार्थं कर्माणि क्रियन्ते, किमुत बाह्यधनत्यागेनेति स्तुतिः। यथा नेत्रमप्युद्धृत्यायं ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति। वृत्तान्तपर्यवसायी च वेदस्तत्र प्रामाण्यमप्रतिपद्यमानः स्तुतौ सत्यत्वान्नान्यत्रान्वेषणमर्हतीति निष्प्रयोजनो- पाख्यानसत्यतया नार्थेन। शब्दभावनाङ्गं वार्थवादाः। सा च प्रवृत्तिविज्ञान- मात्रेणैवोपयुज्यते, नार्थेन। अर्थात्मिकायां तु सर्वत्राविसंवादः सिद्ध एव। अथोच्येत असदन्वाख्यानेन स्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते। कामं परमार्थे वक्तारो भवन्ति काऽत्र स्तुतिर्निन्दा वा, सत्यमेवैतदिति। असत्ये तु यस्मादन्यत्र दुष्टमप्यवधृतमिह गुणवन्तमिति ब्रवीत्यतो नूनं मे प्ररोचयति, तथा गुणवन्तं सन्तं निन्दति निवर्तयितुमिति। ततश्चैवं विदित्वा यो यस्यानति- क्रमणीयः, तदनुरोधेन स तथा प्रवर्त्तते। वेदश्च प्रमाणमिति स्थितम्। तेन प्रवृत्तिनिवृत्यनुग्रहणीये स्वसंवेद्येऽर्थे पुंसः प्रशस्ताप्रशस्तज्ञाने भवतः। इह ते वेदेनोत्पादिते। तस्मात्तदनुरूपं व्यवहर्त्तव्यमिति। लोकेऽपि यां क्रियां फलान्तर- युक्तां मेधादिहेतुत्वेनाऽऽसां मन्यन्ते तस्यां कञ्चित्प्रवर्त्तयन्तस्तदभिप्रेतं सौभाग्यादि- फलमसत्यमप्युपन्यस्य नियुञ्जते। तत्प्रवृत्तश्चेतरोऽपि क्रियाश्रयं फलं प्राप्नोति। यद्यपि च प्रतिपत्ता जानाति नैतदत्र पारमार्थिकं फलं मदभिप्रायानुसारेणैतै- रुपन्यस्तं सर्वथा त्वपुरुषार्थे मां न प्रवर्त्तयन्ति, तदसत्यं नामैतत्किमप्यन्यद- वाप्स्यामीति ज्ञात्वाऽनुतिष्ठति। एवं वेदेऽपि विधिना तावत्फलमवगमितमर्थ- वादात्स्वसत्येन नाम प्ररोचयन्तु न तद्गते सत्यासत्यत्वे किञ्चिद् दूषयतः, प्रवर्त्तनमात्रोपकारित्वात्। यत्तु परस्ताद्विवक्ष्यति, तद्विधेरुपरीगतमिति निश्चित्य नैव विद्वांसो न प्रवर्त्तन्ते। तरमादुपाख्यानासत्यत्वमतन्त्रम्। न हि शुक्तिकादृष्टसत्यरजतो यदि रजतान्तरं तद्देशे लभते ततोऽभिसंधीयते। शुक्ति- कावस्तु किञ्चिदालम्बनं श्रुतिसामान्यमात्रेण सर्वत्र योजनीयम्। यथेह महाभूतानि प्रजाः पान्तीति प्रजापतित्वेनोच्यन्ते। वाय्वादीनां यथा- संख्येन मध्यवर्त्तिनः सारावृष्ट्यादयो वपाः, तामग्नाविति तेनैव क्रमेण वैद्युते वृष्टिम्, अर्बीसे शरीरान्तर्वर्त्तिनि वायुमन्तश्चरत्वसामान्याद्रश्मिं लौकिके तदाप्यायनात्तस्य। ततोऽज इति बीजादीनां सामान्येनानादित्वादजत्व- प्रसिद्धेः तमालभ्य प्राप्य प्रजाः पशूनाप्नोति। सर्वप्रजानां व्रीह्यादिपरिणाम- प्रभवत्वादित्यालम्बनम्। एतस्मिंस्तु प्रक्रमे सत्यं सालम्बनता, किं तु स्तुतित्वमेव हीयते। अतः स्तुतित्वात्यागेनैव स्वार्थसत्यतां वर्णयामः। मन्त्रार्थवादेतिहासप्रामाण्यात्सृष्टि- प्रलयाविष्येते, तत्र सृष्ट्यादौ प्रजापतिरेव योगी तस्मिन्काले पुण्यकर्मोद्भवमभ्युप-
१० ] प्रथमाध्याये द्वितीयपादः १०३ गमेन पशूनामभावात्स्वमाहात्म्येनाऽऽत्मन एव पशुरूपमभिनिर्माय वपोत्खननादि कृतवान्, ततोऽसमाप्त एव कर्मणि तूपरः पशुरुत्थित इतीदृशमिदं कर्म प्रत्या- सन्नफलम् । एवं च महता यत्नेन प्रजापतिना चरितमिति सर्वं सत्यमेव । प्रति- सृष्टि चर्तुलिङ्गन्यायेन तुल्यनामप्रभावव्यापारवस्तुत्पत्तेर्नानित्यताप्रसङ्ग इति । कर्मसु कौशलेन दीव्यन्तीति देवा ऋत्विजः, ते देवयजनाध्यवसानान्तरं दर्शपूर्णमासयोरनभ्यस्तं सौमिकं कर्मराशिमालोक्य कथमविदितं करिष्याम इत्याकुलीभावसामान्याद्दिङ्मोहाभिधानम् । तथा च लोके कर्तव्यतासु दिशो मे परिभ्रमन्तीति वक्तारो भवन्ति । तत्र तद्व्युदासेनादितियागः प्रशस्यते । कथं तु तद्व्युदसनम् । अवधारणावकाशदानात् । यावद्धि प्रायणीयायां प्राकृतानि समभ्यस्तानि कर्माणि क्रियन्ते, तावदितरेषु भविष्यत्सु प्रणिधानं भवति, अन्यथा सर्वस्मिन्नप्राकृते निरवकाशत्पादनवधारणं स्यात् । तेनाऽऽदित्येनैवैतज्ज्ञापितमिति मोहापनयेन स्तुतिः ॥ १० ॥ न्या० मू०-यदा शब्दार्थस्त्वप्रयोगभूत इत्यनेन श्रौतार्थाविवक्षोक्ता, तदा गुणस्य वाद इति षष्ठीसमासाश्रयणादन्येन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रे नैराकाङ्क्ष्याय स्मार्यते, स्वार्थसत्यत्वे वा कथं स्तुतिरित्यपेक्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थसत्य- त्वानादरोऽभिधीयते । यदा तु स्तुत्यर्थत्वमेव शब्दार्थस्त्वित्यनेनोक्तम्, तदा विधिस्तु यो- भिन्नविषयत्वे कथं विधायकानुग्रहार्थत्वमर्थवादस्येत्याशङ्कानिराकरणार्थमेतत्सूत्रमिति भाष्यकारेण व्याख्यातम् । तत्र भिन्नविषयत्वे स्तुत्यर्थत्वःसम्भवपरिचोदनादेकविषयत्वे स्तुतित्वं पूर्वपक्षिणोऽभिमतमिति कस्यचिच्छङ्का स्यात्, ततश्च 'सोऽरोदीदित्यादिसम्भव- चोद्यानुपपत्तिरित्याशङ्क्य अभ्युपेत्यवादमात्रेणेतरत्राङ्गीकृत्य भिन्नविषयत्वे तावत्परिचोद- नेति व्याचष्टे—यत्र तावदिति । गौण इति तद्धितं पञ्चमीसमासप्रदर्शनपरतया व्याचष्टे--गुणादिति । उपचारश्चात्र गुणशब्देनाभिप्रेतः, यत्सम्बन्धिनीति सम्बन्धिशब्दः क्रियापेक्षः, प्रकृत्यपेक्षो वेति द्वेधा व्याचष्टे—यत्क्रियाया इति । अभिजनसंस्तवेन चेत्यादिभाष्यार्थमाह-यत्रेति । अभिजायते अस्मादितिव्युत्पत्त्योत्पत्तिस्थानमभिजनशब्देनोच्यते । अश्मकशब्दो जनपदविशेषवाची । कीदृशी स्तुतिरित्यपेक्षामाह—एतस्यास्त्विति । 'वेतसशाखयाऽवकामिश्राग्निं विकर्षति, आपो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीति श्रूयते । तत्र वेतसावकयोर्विधेयत्वेन स्तुत्यर्हत्वात्तदर्थे वाऽपां स्तुतिप्रतीतेः शान्ताभिरिति सहयोगे तृतीयाश्रयणेनाद्भिः सहचरितः सम्बन्धो वेतसावकीरूपो विकारः प्रकृतिगुणयोगेन शान्तत्वादस्येति सर्वनामो- पात्तस्य यजमानस्य कष्टपरपर्यायां शुचं शमयतीति वेतसावकयोरनेन प्रकारेण स्तुतिरित्यर्थः । रोदनाद्युदाहरणत्रये केवलमेव गुणवादसूत्रं स्तुत्यसम्भवपरिहारार्थतया भाष्यकृता व्याख्यातम् । तस्य गुणवादप्रकारशेषाणानिरूपणेनासामर्थ्यमाशङ्क्याह—गुणवादेति ।
१०४ मीमांसादर्शनम् [ सू० रोदननिमित्तस्य शब्दस्य दर्शनादित्यादिनोक्तस्तत्सिद्धिकरत्त्वादिः प्रकारविशेषो यावत्त- त्सिद्धिसूत्रे वक्ष्यमाणतया नालोच्यते, तावच्छुद्धेनेवेति तावच्छब्दस्यार्थः । स्तेनाद्युदाहरणे- ष्वपि तर्हि सूत्रान्तरानर्थक्यं स्यादत आह—शेषेति । ननु तत्सिद्धिसूत्रेण गुणवादप्रकारविशेषनिरूपणे स्तेनाद्युदाहरणेष्वपि शुद्धस्य गुणवाद- सूत्रस्य स्तुत्यसम्भवपरिहारसामर्थ्यादिनिरूपणे वा रोदनाद्युदाहरणेष्वप्यसामर्थ्यात्किं कृतेयं व्यवस्थेति आह—तत्रेति । यद्यपि तत्सिद्ध्यादीनां षण्णामेव गौणवृत्तिप्रकारत्वात्सर्व- प्रकारविशेषनिरूपणं तत्र करिष्यते, तथाप्यस्मिन्नुदाहरणेऽयं प्रकार इति स्तुत्युदाहरण- निष्ठतया सूत्रेणानिरूपणात्किंचित्सारूप्याद्युदाहृतानां स्तेनं मन इत्यादीनां सम्बन्धितयैहै- वोच्यते स्वप्राधान्येन तु तत्र सर्वं गौणतानिमित्तं वक्ष्यत इति, प्राधान्यवाचिना परशब्देनोक्तं गौणवृत्तिलक्षणकथनमात्रपरत्वात्तत्सिद्धिः सूत्रस्येति भावः । रोदनार्थवादे च गुणवादसूत्रयोजनार्थं विध्येकवाक्यत्वं विनार्थवादान्वयायोगात्पूर्वं विध्येकवाक्यत्वमेव साकाङ्क्षत्वे भाष्ये सोऽरोदीदित्यादिना प्रश्नपूर्वकं भाष्यकृतोपपादितं तद्व्याचष्टे—सोऽरोदीदिति । यद्यपि निन्दानिषेधयोरैकवाक्यत्वम्, तथापि सर्वोदाहरण- गतानामाकाङ्क्षाहेतुकविध्येकवाक्यत्वप्रतिपादकभाष्याणां साधारणोऽयं व्याख्याग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिस्तुत्योरित्युक्तम् । प्रत्यवयवमित्यनेन पदानामिति बहुवचनार्थो दर्शितः । अन्यथा हि पुरास्य संवत्सराद् गेहे रोदनं भवतीत्यनेनैव निन्दासिद्धेः शेषपदाना- मानर्थक्यं स्यात् । अवान्तरपदवर्गाभिप्रायाश्चात्र पदशब्दः । एतदर्थवादोपक्रमस्य 'देवासुराः संयत्ता आसन्ते देवा विजयमुपयन्तोऽग्नौ वामं वसुसन्न्यदधतेदमुनो भविष्यति यदि नो जेष्यन्तीति, तदग्निन्र्यंकायत तेनापाक्रामत्ते देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्सन्तेत्यस्याप्येकवाक्यत्वसिद्धयर्थमरोदीदित्यादि' भाष्यं व्याचष्टे—स इतीति । स इत्युक्ते तस्य प्रकृतस्य प्रत्ययादित्यर्थः । यद्वा स इत्यस्य सर्वनामस्वपाठात्कथं प्रकृतापेक्षत्वमित्याशङ्क्य सर्वनामतच्छब्दादेशेन स इत्यनेन स्थानिनस्तच्छब्दस्य प्रत्ययादित्यन्यथा व्याचष्टे—अथ वेति । तद्रजतमित्यस्य भाष्यकारेणानुपन्यासात्स्वयं तत्सम्बन्धं दर्शयति—एवमिति । उपपत्तिश्चेति भाष्यं व्याचष्टे—सर्वा चेति । उपरितनस्येत्युक्तेऽप्युपरितनग्रन्थोपन्यासस्य प्रयोजनमाह— कोऽसाविति । हेतुत्वेनेतिभाष्यं व्याख्यातुमाशङ्कते—केनेति । रजतदानस्य रोदनोत्पादकत्वे को हेतुरित्यर्थः । उत्तरत्वेन भाष्यं व्याचष्टे—तदुपपाद्यत इति । भाष्येऽयमिति पूर्वोक्त- रोदनप्रभवत्वरूपार्थपरामर्शः । पूर्वोपन्यस्तस्य निषेधस्य पुनरुपन्यासे प्रयोजनमाह— तस्मादिति । कथं विधेरुपकुर्वन्तीति पृष्ट्वा गुणवादेनेत्यादिनोक्तत्वेन गुणवादसूत्रं भाष्यकृता योजितं तद्व्याचष्टे—निन्दयेति । दोषसङ्कीर्त्तनात्मकत्वान्निन्दाया गुणशब्दानुपपत्तिमाशङ्क्य तत्प्रतिषेधस्येत्यादिभाष्यकृतोक्तं कथं पुनरित्यादिना निरालम्बनस्तुत्यनुपपत्तिमाशङ्कया-
१० ] प्रथमाध्याये द्वितीयपादः १०५ लम्बनाभिधानपरतया पुनरेतदेव सूत्रं योजितम् । तद्व्याचष्टे-गुणवादश्चेति । अरोदीदित्य- स्यालम्वनप्रतिपादनार्थं रुद्र इत्यादिभाष्यं व्याचष्टे — रुद्रशब्देति । रोदिते रोदनार्थंस्वा- द्रक्प्रत्ययस्य च कर्त्रर्थत्वाद्रोदनकर्तृवाची रुद्रशब्दो व्याकरणादवगम्यते । तस्य च त्वमग्ने रुद्रो असुरो महो दिव इत्यादावग्नौ प्रयोगदर्शनाद्रुद्रो वा एष यदग्निरिति चार्थवाददर्शना- द्रुद्रमग्नि द्विजाः प्राहुरिति—चारण्यकपर्वणि 'कुमारसम्भवोपाख्यानदर्शनात् । प्रस्तरे यजमानकार्यकर्तृत्ववत्तत्कार्यकारित्वेन रोदनकर्तृत्वकल्पनेत्यर्थः । तैत्तिरीयशाखागतार्थ- वाददर्शनादग्नौ रुद्रशब्दोऽस्माभिर्व्याख्यातः । अन्येषां तु कपर्दिनीं रुद्रशब्दं व्याचक्षाणामभिप्रायं न विद्मः । अश्रुप्रभवत्वाभि- धानालम्बनप्रतिपादनार्थं वर्णसारूप्यादितिभाष्यं व्याचष्टे — अश्रुगश्चेति । यदि नामेत्यनेन द्रवत्वमात्रेण वैलक्षण्यमित्युक्तम् । अनेन चान्यत्र प्रकृतिविकारयोः सादृश्यदर्शनादिहापि सादृश्येन प्रकृतिविकारभावोत्प्रेक्षा दर्शिता । रोदनं भवतीत्यस्यालम्बनाभिधानार्थं निन्दन्ने- वेति भाष्यं व्याचष्टे—धनत्यागेनेति । नन्वेवमपि मुख्यस्यार्थस्यासत्यत्वात्तल्लक्षिता निन्दाप्यसत्या स्यादत आह--एवमिति । नाविनाभावेनोपाख्यानादेर्मुख्यस्यार्थस्य स्तुति- निन्दालक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्तुतिनिन्दारूपार्थप्रतिपादनोपायमात्रत्वेनोपाख्या- नार्थवादैः प्रतिपाद्यते । न चोपायमात्रत्वेन कल्पितस्यासत्त्वं तद्वाराथं प्रतिपत्तेर- सत्यत्वं प्रतिपादयति । क्विब्यादेरसत्यत्वेऽपि तद्द्वारस्य शब्दान्वाख्यानस्य सत्यत्वदर्शना- दिति भावः । वपोत्खननार्थवादस्य विध्येकवाक्यत्वप्रतिपादनार्थं तथेत्यादिभाष्यं व्याचष्टे—एवमिति । कथं गुणवाद इत्यनेन कीदृशी स्तुतिरिति पृष्ट्वेत्थं नामेत्यादिना स्तुतिस्वरूपं भाष्यकृता दर्शितं तद्व्याचष्टे—आत्मेति । ईदृश्यपि स्तुतिर्भवतीति दर्शयितुं दृष्टान्तमाह—यथेति । कथं पुनरित्यनेनासद्वृत्तान्तान्वाख्यानानुपपत्तिमाशङ्क्योच्यत इत्यादिना किमराताऽर्थेन स्तुत्यसम्भवाभिप्रायेयमाशङ्का, निरालम्बनान्वाख्यानासम्भवाभिप्रायो वेति विकल्प्य, आद्ये कल्पे तावदपारमार्थिकस्याप्युपायत्वं क्विबादिवत्सम्भवतीत्युक्तम् । तदुपपादयति - वृत्तान्तेति । अनेन चोपाख्यानानामसत्यत्वेऽपि तत्रार्थवादानामतातपर्यात्तातपर्यंगोचरीभूते च प्राशस्त्याप्राशस्त्यरूपेऽर्थे सत्यत्वान्न तावदप्रामाण्यापत्तिरित्युक्तम् । कथं पुनरसत्यस्य पारमार्थिकस्तुतिनिन्दोपायत्वमित्याशङ्कयाह—शब्दभावनाङ्गं वेति । अयमाशयः धूमा- देर्ज्ञानापेक्षत्वेऽपि अर्थरूपेण कारणत्वात्तस्य चार्थभावेऽपि तद्विषयत्वरूपेण सत्यत्वाद्रज्जु- सर्पज्ञानस्येव भयकारणत्वं युक्तमेवोपायत्वमिति । अर्थसत्तानपेक्षत्वप्रदर्शनायैव सा चेत्या- द्युक्तम्—प्रवर्तेऽहमिति । विज्ञानोत्पादे यः शब्दस्य व्यापारः, स एव शब्दभावनांशब्दे- नोच्यते । एवंविधविज्ञानोत्पादकत्वमेव शब्दस्य प्रवर्त्तकत्वम्, न तु वाद्यादिवदौदसीन्य- प्रच्यावकत्वम् । तथोक्तम्—प्रवर्त्तेंऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्त्तनफला मतिः ॥ इति ।
१०६ मीमांसादर्शनम् [ सू० तदेवात्र प्रवृत्तिविज्ञानशब्देनोक्तम् । तन्मात्रेण शब्दभावनोपयुज्यते प्रवर्तेऽहमिति विज्ञानं यावता प्रवर्त्स्यन्त्योत्पाद्यते, तावन्मात्रेण पर्यवस्यति नातिरिक्त मपेक्षत इत्यर्थः । तच्चार्थसत्तानपेक्षात्प्राशस्त्यज्ञानमात्रात्सिद्ध्यतीति दर्शयितुं नार्थेनेत्युक्तम् । केचित्तु प्रकृतोपयोगानुसारेणैवं व्याचक्षते । तत्प्रवृत्त्यङ्गभूतप्राशस्त्यविज्ञानमात्रेण सोपयुज्यते । प्रवृत्त्युत्पादे समर्था भवतीति । नन्वेवं सत्युपाख्यानवत्स्वर्गयागादिसाध्यसाधनभावसङ्कीर्त्तनस्यापि प्रवर्त्तनोपाय- मात्रत्वापत्तेरसत्यता स्यादत आह-अर्थात्मिकायां त्विति । उपाख्यानानामपुरुषार्थो- पयिकत्वेन वेदस्य तत्राव्यापारात्प्रमाणान्तरानुपलब्धेश्चासत्यत्वं ज्ञातम् । साध्यसाधनभावे तु वेदस्य व्यापाराभावे निष्फलत्वापत्तेरतुल्यत्वम् । वेदप्रतीतस्यापि तु प्रत्यक्षविरोधे असत्यता स्यात् न त्वसावस्तीत्यविसंवादग्रहणेनोक्तम् । शब्दभावनायामपीतिकर्त्तव्यताभूत- प्राशस्त्यज्ञानोपायमात्रे कस्मिंश्चिद्विसंवादः, न तु पुरुषप्रवृत्तिविधिज्ञानप्राशस्त्यज्ञानरूपे साध्यसाधनेतिकर्त्तव्यतांशे । अर्थभावनायां त्वितिकर्त्तव्यतोपायेऽपि द्रव्यदेवतादौ न विसंवाद इति सर्वत्रेत्यनेनोक्तम् । एतदेव प्रश्नपूर्वकं विवृण्वन्नाह-अथेति । उत्तरमाह-सुतरामिति । स्वार्थसत्यत्वेन तात्पर्यशङ्कायां स्तुतिपरत्वान्निश्चयादिति भावः । एतदेवोपपादयति-काममिति । इति ब्रवीतीतिकरणोऽर्थवादगताभिधानप्रकारनिर्देशार्थः । अनेन वपोत्खननादिना प्रकारेण गुणवन्तमर्थं ब्रवीतीत्यर्थः । नन्वर्थसत्तानपेक्षप्राशस्त्यज्ञानमात्रात् प्रवृत्तावनासक्तेनापि प्रवृत्तिः स्यात् । अत आह-ततश्चेति । नन्विष्टानिष्टप्राप्तिपरिहारहेतुत्वादाजादेरनतिक्रम- णीयत्वं स्यात् वेदस्य, तत्कथम् ? अत आह-वेदश्चेति । इष्टानिष्टसाधनबोधकत्वाद्वेदोऽप्य- नतिक्रमणीय इति भावः । ततः किमिति चेदत आह-तेनेति । येन कारणेन वेदः प्रमाणम्, तेन कारणेन तदनुरूपं व्यवहर्त्तव्यमित्यर्थः । प्राशस्त्याप्राशस्त्यज्ञानयोरसत्योपायकत्वेना- सत्यत्वादनादरमाशङ्क्योपायासत्यत्वेऽपि वेदकृतत्वेनानयोः सत्यत्वं दर्शयितुम्-प्रवृत्ती- त्याद्युक्तम् । ये इह विधेयनिषेधार्थविषये प्राशस्त्याप्राशस्त्यज्ञाने भवतः, ते वेदेनोत्पादिते यस्मात्; तस्मात्तदनुरूपमिति यस्माच्छब्दाध्याहारेण योज्यम् । ज्ञानोत्पत्तौ विप्रतिपत्तिं निराकर्त्तुम्-स्वसंवेद्यत्वमुक्तम् । वेदादरणीयत्वाय प्रवृत्तिनिवृत्त्यनुग्राहकत्वाभिधानम् । अनुग्राहकत्वोपपादनाय पुंग्रहणम्, न चैतदलौकिकमित्याह-लोकेऽपीति । प्रवर्त्त्याभिप्रेत- सौभाग्याद्यपेक्षया वपाभक्षणादिक्रियाफलस्य मेधादेः फलान्तरत्वामभिधानम् । तदित्यव्ययं पञ्चम्यर्थे नियोगं परामृशति, तस्मान्नियोगात्प्रवृत्तः क्रियाश्रयं तन्निमित्तं मेधादिफलं प्राप्नोतीत्यर्थः । ननु सौभाग्यादेरपारमार्थिकत्वं यो न जानाति, स एव प्रवर्त्तताम् । यस्तु प्ररोच्यमानः स्वाभिप्रेतफलासत्यत्वं जानाति, स कथं तदुद्देशेन प्रवर्त्तत इति । तदाह- यद्यपि चेति । तदसत्यत्वेऽपि आप्ताभिप्रेतफलानुमानेन प्रवर्त्तत इत्यर्थः । तत्प्रकृते योज- यति-एवमिति । ननु यदि प्ररोचनावगतफलानुसारेण न प्रवृत्तिः, किमुद्दिश्य तर्हि प्रवृत्ति-
१० ] प्रथमाध्याये द्वितीयपादः १०७ रिति तन्नाह—यत्त्विति । परस्तादनुष्ठानोत्तरकालं यत्फलं भविष्यति, तत् विधेरुपगतमिति¹ विध्याश्रयं तत्प्रमाणकमित्यर्थः । उपसंहरति—तस्मादिति । प्रमाणान्तरेष्वपेक्षितार्थ- लाभेनोपायासत्यत्वं व्यवहारं दर्शयतीत्याह—न हीति । शुक्तिकामदृष्टं सत्यं पारमा- र्थिकं रजतं येन स तथोक्तः, विफलारम्भताभिसन्धानम् । अथालम्बनसद्भावात्तत्र व्यव- हारसिद्धिः, तदत्रापि समानमित्याह—शुक्तिकावत्त्विति । कथं पुनरनुखिन्नायामित्यस्यैव चोद्यस्येह निरालम्बनान्वाख्यानासम्भवाभिप्रायकत्वं कथं पुनर्निरालम्बनमन्वाख्यायत इत्य- नेनाशङ्क्यं नित्यः कश्चिदित्यादिना भाष्येण त्रिविधालम्बनाभिधानेन निराकृतम् । तद्व्या- चष्टे—यथेहेति । यथेत्यनेनासद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेनेत्यादेः परिहारस्य सर्वसदन्वा- ख्यानविषयत्वं सूचितम् । अत एव पूर्वपक्तिकायां सर्वत्रेत्युक्तम् । व्याख्यात्रयस्य निरूपणम् वृष्ट्यादीनां वपात्वं मध्यवर्त्तित्वसारत्वलक्षणगुणयोगेनोपपादयति—वाय्वादीनामिति । वृष्ट्युत्पत्त्यवसानयोर्वाय्वायत्तत्वात्तन्मध्यवर्त्तित्वं सनेम्यभवं मरुतो जुनन्तीत्यादौ च वृष्टि- हेतुत्वेन वायुस्तुतौ । तत्सारत्वं वृष्टेः । अवकाशाभावे वायोरवृत्तेस्तन्मध्यवर्त्तित्वं । वायु- रहितस्य चापवरकाद्याकाशस्योष्मदुःखोत्पादकत्वात् । तत्सारत्वं रश्मेरादित्यावयवत्वात् । तन्मध्यवृत्तित्वं रश्म्यायत्तत्वाच्च प्रकाशकत्वस्य तत्सारत्वम् । तामग्नावित्यादिभाष्यं व्याचष्टे—तामग्नाविति । वैद्युतस्याबिन्धनत्वप्रसिद्धेस्तत्र वृष्टेर्निक्षेपकल्पना । ऋषीस- शब्दस्य शरीरवाचित्वात्तदन्तर्वर्त्यग्निरार्षीसोऽभिधीयते तस्मिन्वायोर्निक्षेपकल्पनाया- मालम्बनमन्तश्चरत्वसामान्यम्, आदित्यो वाऽस्तं यदग्निमनुप्रविशतीत्यादि दर्शनात् । स्वरूपेण स्वर्गस्थस्यादित्यस्य भूमिष्ठाग्निप्रवेशायोगाद्रश्मिप्रवेशकल्पना । बीजादिष्वज- शब्दप्रयोगे निमित्तमाह—ततोऽज इति । व्रीह्यादेरन्नस्योष्मणा विनाऽप्ररोहाद्दर्शनात्तस्य च तेजोगुणत्वादाम्नयो ह्योषधय इति च लिङ्गादग्न्युदकसंयोगजत्वावगतेस्तत्सामान्यात् वृष्टिवैद्युतसंयोगस्य कारणत्वाभिधानम् । जाठराग्निपाचितस्यान्नरसस्य व्यानाख्येन वायु- विशेषेणाबीजभूतेभ्यो विण्मूत्रादिभ्यो विविक्तीकृतस्य चरमधातुरूपेण परिणामाद्वायोर्बीज- कारणत्वाभिधानम् । वीरुधादेर्व्रीह्यादिवदेव भौमाग्निजन्यत्वान्निदाघकाले च प्ररोहदर्शने- नादित्यरश्मिजन्यत्वावगमाद्रश्म्यग्निसंयोगजन्यत्वं लभेः प्राप्तौ स्मरणात् । तदर्थतयोपयु- ज्येति पदं व्याचष्टे—तमालभ्येति । अन्नादिसेवनस्य प्रजापशूत्पत्तिकारणत्वाभिधाना- लम्बनमाह—सर्वप्रजानामिति । तन्निरासः एतच्च व्याख्यानत्रयं वैकल्पिकं युगपद्दर्शितम् । तद् दूषयति—एतस्मिंस्त्विति । प्रक्रमो रीतिर्व्याख्यानप्रकार इति यावत् । एवशब्देन स्तुतिसिद्धयर्थं सालम्बनत्वानुरोधेन प्रधान- भूतस्तुतिबाधोऽङ्गगुणविरोधन्यायाद्युक्त इति सूचितम् । १. रुपरोति २ पु० पा० ।
१०८ मीमांसादर्शनम् [ सू० स्वमतेन व्याख्यानम् स्वमतेन व्याख्यातुं प्रतिजानीते—अत इति । सृष्ट्यादिविषयमेतदुपाख्यानं व्याख्यातुं तदनङ्गीकारादनुपपत्तिमशङ्क्याह— मन्त्रेति । वस्तुवृत्त्या सृष्टिप्रलयाभावेऽपि मन्त्रादि- व्याख्यालम्बनत्वेनोपायमात्रतया तदङ्गीकरणमिति भावः । व्याख्यानमाह - तत्रेति । आत्मनः पशुरूपनिर्माणशक्तिद्योतनार्थं योगिग्रहणं पुण्यकर्मणामेव मन्वादीनां सृष्ट्यादावु- द्भवः पुराणादिष्वभ्युपगम्यते । यद्वा पुण्यस्यैव कर्म्मणः फलदानायोद्भवः । 'अरोगः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ॥' इति स्मरणात् । ततोऽजस्तूपर उदगादित्यत्र तत इति पञ्चम्यानन्तर्यप्रदर्शनार्थेति व्याचष्टे—तत इति । वपापुरोडाशाङ्गप्रचारात्मकत्वात्पशुयागस्य वपाप्रचारमात्रेणा- समाप्तिः । आनन्तर्याभिधानस्य स्तुत्युपयोगमाह—ईदृशमिति । वपोत्खननाभिधानस्योप- योगमाह—एवं चेति । सालम्बनत्वाभिप्रायः सत्यशब्दः । प्रसङ्गाद्वृत्तान्तान्वाख्यानेऽपि- त्याद्यधस्तनभाष्यं दूषयति—प्रतिसृष्टि चेति । दिङ्मोहोदाहरणे देवशब्दालम्बनमाह-- कर्म्मस्थिति । के त इत्यपेक्षायामृतृत्विजस्त- इत्युक्तम् । दिङ्मोहशब्दालम्बनाभिधानार्थमप्राकृतस्येति भाष्यं व्याचष्टे—देवयजनेति । देवयजनं यज्ञभूमिः । दृष्टश्च लोके व्याकुलीभावे दिग्भ्रमव्यपदेश इत्याह - तथा चेति । अदितेर्ज्ञापकत्वाभिधानस्यालम्बनप्रतिपादनार्थमवधारणेति भाष्यं व्याचष्टे—तत्रेति । कथमदितियागेनावधारणस्यावकाशो दीयते । अत आह— यावद्धीति । दर्शपूर्णमासाविद्वा सोमेन यजेतेतिदर्शपूर्णमासानन्तरं सोमयागस्तस्य चापूर्वत्वाददर्शपूर्णमासयोरनभ्यस्तस्याङ्ग- जातस्योपस्थापनाद्यामोहमात्रं प्रायणीयेष्टापनीयते । सा हि सोमस्याङ्गं दर्शपूर्णमास- योश्च विकार इति पूर्वाभ्यस्तदर्शपूर्णमासिकर्त्तव्यतानुष्ठानेन करिष्यमाणेषु कर्म्मस्ववधानं भवतीति भावः । पथ्यां स्वस्तिमयजम्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणाम्, सोमेन प्रतीचीं, सवित्रोदीचीम्, अदित्योर्ध्वमिति मोहापनयेन स्तुतिः ॥ १० ॥ भा० प्र०-यदि पूर्वपक्षी यह कहें कि जिस स्थल में अन्य की विधेयता एवं अन्य का प्राशस्त्य कहा जाता है, वहाँ व्यधिकरणता दोष प्राप्त होने से अर्थवाद वाक्य विधेय विषय की परोचना नहीं कर सकता है । ऐसी स्थिति में विधि के साथ एकवाक्यता न होने से अर्थवाद वाक्य का प्रामाण्य भी नहीं हो सकता है—इसी आशङ्का के उत्तर में सूत्रकार ने “गुणवादस्तु” यह सूत्र कहा है । इस सूत्र में प्रयुक्त “तु” शब्द के द्वारा पूर्वपक्षी की आशङ्का का निवारण किया गया है । इन स्थलों में गुण के समान ही विवक्षा रहती है । जैसे “वेतसशाखया अवकाभिश्च अग्निं विकर्षति” इस वाक्य में बेतस शाखा विधेय है । किन्तु, इसके परवर्ती “आपो वै शान्ताः” इस अर्थवाद वाक्य में जल को शान्त कहकर प्रशंसा की गई है । जैसे कोई व्यक्ति काञ्ची देश में पूर्वजों की
१० ] प्रथमाध्याये द्वितीयपादः १०९ परम्परा क्रम से निवास कर रहा है, यह जानकर उसके सम्बन्ध में कुछ कहने के उद्देश्य से यदि काञ्ची देश की प्रशंसा करता है, तब उस देश की प्रशंसा से उस व्यक्ति के द्वारा उसकी ही प्रशंसा अवगत होती है, वैसे ही इस स्थल में भी जल का शान्तत्व कथन जल में उत्पन्न वेतस शाखा की ही प्रशंसा की गई है। वेतस एवं अवका शान्त स्वभाव जल से उत्पन्न होने से स्वयं शान्त स्वभाव है, इसीलिए वह यजमान के भी अनिष्ट की शान्ति करने में समर्थ हैं—यही प्रकृत में अर्थवाद का तात्पर्य है। इसी प्रकार “बर्हिषि रजतं न देयम्” (तै० सं० १।५।१।२) इस वाक्य में बर्हि नामक यज्ञ में रजत के दान का निषेध किया गया है, इसी के बाद “सोऽरोदीत् यद- रोदीत् तद्रुद्रस्य रुद्रत्वम् । तस्य यदश्रु शीर्यन्ते” इत्यादि अर्थवाद में कहा गया है कि उसने (रुद्र ने) रोदन किया, यही रुद्र का रुद्रत्व है, अर्थात् इसीलिए वह रुद्र है, रोदन काल में जो अश्रुपात हुआ; वही रजत है। इसका आशय यह है कि जो व्यक्ति बर्हिः याग में रजत दक्षिणा के रूप में देता है उसके घर पर वर्ष के भीतर ही ऐसा अनिष्ट होता है, जिससे निश्चित रूप में उसको रोदन करना पड़ता है। इस प्रकार इसके द्वारा रजत के दान की निन्दा कर रजत को दक्षिणा के रूप में न देने की प्रशंसा की गई है। “यः प्रजायाकामः यः पशुकामः स्यात् स एतं प्राजापत्यमजं तूपरमालभेत”, (तै० सं० २।१।१।४,५) यह विधिवाक्य कहा गया है “प्रजाकामी एवं पशुकामी व्यक्ति प्रजा- पति देवता के उद्देश्य से तूपर अर्थात् शृङ्गहीन छाग के द्वारा यज्ञ करे”। इसी के बाद श्रुति में कहा गया है—“प्रजापतिरात्मनो वपामुदखिदत्”। इससे पूर्व में पशु नहीं था, अतः प्रजापति ने पशु के स्थानपर हृदय के मेदा को काटकर अग्नि में आहुति की और इस कर्म का ऐसा सामर्थ्य है कि अग्नि में पशु की वपा की जगह पर अपने वपा की आहुति देने के साथ ही साथ तूपर अज एवं अन्य पशु भी उत्पन्न हुए। यह घटना सत्य हो या असत्य इससे कुछ होना नहीं है। क्योंकि, अत्यन्त काल्पनिक वस्तु के द्वारा भी प्रशंसा या निन्दा करना आज भी लोक व्यवहार में प्रसिद्ध है। प्रकृत में इसके द्वारा यहो कहा गया है कि कर्म शीघ्र फल देता है, अथवा इसका यह तात्पर्य है कि विशिष्ट प्रयोजन की सिद्धि के लिए जब अपनी वपा का छेदनकर भी कर्म का अनुष्ठान किया गया तब धन आदि बाह्य पदार्थों के व्यय से तो वह कर्तव्य ही है। लोकव्यवहार में भी ऐसा कहा जाता है कि जीवन विसर्जन कर भी मानमर्यादा की रक्षा करूँगा तब रुपये पैसे की क्या बात है, प्रकृत में भी यही समझना चाहिए। इसी प्रकार “आदित्यः प्रायणीयश्चरुः” (तै० सं० ६।१।५।१) इत्यादि में आदित्य देवता के उद्देश्य से जो प्रायणीय आदि नामक यज्ञ के चरु का विधान किया गया है, उसी के साथ “देवा वै देवयजनकाले दिशो न प्रजानन्” यह श्रुति कही गई है। देवताओं को भी देवयज्ञ करते समय दिङ्मोह हुआ था, किन्तु, अदिति देवता के सामर्थ्य से उन देवताओं का मोह दूर हो गया, अतः, सोमयाग अनेक कर्मकलापों का सङ्कुल है। इसलिए
११० मीमांसादर्शनम् [ सू० यजमान की इसमें भ्रान्ति या भूल होना स्वाभाविक है । किन्तु, अदिति देवता सम्बन्धी प्रायणीय एवं उदयनीय याग के चरु करने पर अदिति देवता के प्रभाव से यजमान का भ्रम दूर होगा । इस प्रकार इन स्थलों में गुणवाद ही विवक्षित है । जिस स्थल में कोई गुण विशेषगत सादृश्य का उल्लेख कर अर्थविशेष का आरोप किया जाता है, उसको वहाँ गुणवाद कहा जाता है । प्रथम अध्याय के चतुर्थ पाद के तत्सिद्धिजातिसारूप्य- प्रशंसा भूमलिङ्गसमवाया इति गुणाश्रयाः (१।४।२३) इस सूत्र के विश्लेषण में गुणवाद का व्याख्यान किया जायेगा ॥ १० ॥ रूपात् प्रायात् ॥ १.२.११ ॥ शा० भा०—हिरण्यं हस्ते भवति, अथ गृह्णातीति साकाङ्क्षत्वादस्य विधेः शेषः—स्तेनं मनः, अनृतवादिनी वागिति । निन्दावचनं हिरण्यस्तुत्यर्थेन यथा- किमृषिणा, देवदत्त एव भोजयितव्यः । कथं पुनरस्तेनं मनो निन्दितुमपि स्तेन- शब्देनोच्यते, वाचं चाननृतवादिनीमप्यनृतवादिनीति ब्रूयात् । गुणवादस्तु रूपात् । यथा स्तेनाः प्रच्छन्नरूपा । एवं च मन इति गौणः शब्दः । प्रायाच्चा- नृतवादिनी वागिति ॥ ११ ॥ भा० वि०—यद्यप्यप्राप्ता चेत्यादिना सूत्रद्वयेनार्थभावनाङ्गत्वनिरासेनार्थ- वादानां गुणवादेन शब्दभावनाङ्गत्वमुक्तम्, तथाप्युदाहृतेष्वेव केषुचिद्वाक्येषु गौणतानिमित्तगुणविशेषदर्शनायोत्तरसूत्रसन्दर्भः, तत्र पूर्वोक्तदृष्टविरोधोदाहरणे तावदाह—रूपात्प्रायादिति । तत्र स्तेयानृतार्थवादस्याकाङ्क्षत्वेन हिरण्यहस्त- धारणपूर्वकत्वविशेषत्वं तावदाह—हिरण्यमिति । ननु स्तेयाद्यर्थवादेन वाङ्मनसयोः निन्दा क्रियते, कथं विधिशेषत्वं तत्राह—निन्देति । सर्वक्रियाङ्गत्वेनात्यन्तान्तरङ्गभूतयोरपि अनयोः स्तेयादि धर्मत्त्वेन दूर एव हिरण्यादूनत्वमिति निन्दावचनं स्तुत्यर्थत्वेन न निषेधार्थतया सन्निहितविध्याकाङ्क्षितस्तुतिपरत्वेन तदेकवाक्यत्वे संभवति निषेधकल्पनानुपपत्तेः । यथा अनाहुतिर्वैजर्तिलाश्च गवीधुकाश्चेत्यस्य सन्निहित- पयोहोमस्तुत्यर्थत्वेन तदेकवाक्यत्वसंभवे न निषेधकल्पना तद्वदित्यर्थः, निन्दत्वेन प्रतीयमानमपि न तत्परं, किं तु स्तुत्या विधिपरं दृष्टमित्युदाहरति—यथेति । ननु निन्दितमपि कथमस्तेनं मनः स्तेनशब्दो ब्रूयात्, ऋतवादिनीं च कथं वाचमनृतवादिनीति ब्रूयात्, निरालम्बतवायत्तेरिति चोदयति—कथं पुनरिति । पूर्वसूत्रेणोत्तरमाह—गुणेति । कोऽसौ गुण इत्याशङ्क्य यथाक्रममुदाहरण- द्वयेऽपि रूपातप्रायादिति च योजयति—यथेति वागिति । गौणइत्यनुषङ्गः स्तेन- धर्मस्याप्रत्यक्षस्य मनसि भावात् गौणः स्तेनशब्दः, प्रायिकत्वेन च वाचोऽनृत- वादिनीत्वोक्तिरित्यर्थः ॥ ११ ॥
११ ] प्रथमाध्याये द्वितीयपादः १११ त० वा०—इह सर्वं क्रियमाणं मनसा संकल्प्य वाचा चाभिधाय क्रियते तदत्यन्तान्तरङ्गभूतयोरप्यनयोर्दूरेण हिरण्यादूनत्वं स्तेयानृतवादयोगादिति । या निन्दा तन्मात्रपर्यवसायिनी, सा निषेधफला भवति । विधिपरा तु स्तुत्यर्था जायते । तदुपपादनस्य दृष्टार्थत्वात् । यथा वक्ष्यति 'न चेदन्यं प्रकल्पयेत्प्रक्लृप्ता- र्थवादः स्याद्' जै० १०।८।४ इति ॥ ११ ॥ न्या० सू०—अत्र भाष्यकारेण स्तेनानृतवादाद्यर्थवादस्य हिरण्यहस्तधारणपूर्वकग्रहण- विधिशेषत्वमुक्त्वा निन्दाया विधिशेषत्वानुपपत्तिमाशङ्कय निन्दावचनमित्याद्युक्तम् । तदुप- पादयति—इहेति । ननु निन्दया निषेध एव कल्प्यतां किमित्यसावन्यस्तुतिपर्यन्तं नीयेतेत्यत आह— या निन्देति । निषेधैकवाक्यत्वं विना निन्दात्वानवधारणाच्च तद्बलेन निषेधकल्पनं युक्तम् । न चैवमानर्थक्यापत्तिः निन्दामात्रपर्यवसानाभावादिति भावः । कथमस्या विधि- शेषतेत्याशङ्कयाह—तदुपपादनस्येति । वक्ष्यते च दशमे विधिसन्निधौ श्रुताया निन्दाया निषेधाकल्पनेन विधेयस्तुत्यर्थत्वमित्याह—यथेति । जर्तिलयवाग्वा वा जुहुयाद् गवीधुकया- वाग्वा वा जुहुयान्न ग्राम्यान्पशून् हिनस्ति, नारण्यानथो खल्वाहुरनाहुतिर्वैजर्तिलाश्च गवीधुकाश्च पयसाऽग्निहोत्रं जुहुयादिति विधेः अनाहुतिरिति च निन्दया निषेधानुमाना- द्विधिनिषेधाविति प्राप्ते सिद्धान्तयिष्यते । न चेदन्यं प्रकल्पयेत् प्रक्लृप्तावर्थवादः स्यादादर्थं- क्यात्परसामर्थ्याच्चेति (१०-८) । शिष्टा तु प्रतिषेधः स्यात् इति पूर्वाधिकरणसूत्रानुषङ्गे- णेदं योज्यम् । न चेदन्यं विधिं प्रकल्पयेद्यद्यत्र प्रत्यक्षो विधिः सन्निहितो न स्यात्, ततः षोडशिग्रहणवाक्यवदेकेन शिष्टा परेण प्रतिषेधः स्यात् । इह तु पयसाऽग्निहोत्रं जुहुयादिति विध्यन्तरस्य प्रक्लृप्तत्वात्तच्छेषभूतोऽयमर्थवादः स्यात्, अन्यथा निषेधैकवाक्यत्वं विना निन्दात्वानवधारणेनानाहुतित्वकीर्त्तनस्य निषेधकल्पकत्वासम्भवादानर्थक्यापत्तेः । कथ- ञ्चित्कल्पितस्यापि वा निषेधस्य षोडशिग्रहणनिषेधवद्विकल्पार्थत्वात् तस्य चात्र पयः प्रभृतिद्रव्यान्तरविधानादेव सिद्धेरानर्थक्यापरिहारात् यवागूस्तुतिनिन्दयोः कथं पयः- स्तुत्यर्थत्वमित्याशङ्कय परसामर्थ्याच्चेत्युक्तम् । ग्राम्यारण्यपशुहिंसानापादकत्वेन प्रशस्ता- नामपि जर्त्तिलगवीधुकानां पयःप्रयोगापेक्षया दुष्टत्वात्पयः प्रशस्ततरमिति परेण पयोविधि- नान् Derecho सामर्थ्यादित्यर्थः, एवं चैकवाक्यत्वे सम्भवत्यनेकादृष्टानुबन्धिवाक्यभेदापादकविधि- त्वाङ्गीकरणायोगात् जुहुयादिति लिङोऽपि स्तुत्यर्थत्वसिद्धिः ॥ ११ ॥ भा० प्र०—पूर्वपक्षी ने शास्त्रदृष्ट प्रदर्शन के लिए 'स्तेनं मनः अनृतवादिनी वाक्' इस अर्थवाद का उल्लेख किया है यह अर्थवाद "हिरण्यं हस्ते भवति अथ गृह्णाति" (तै० सं० ४।८।२।३) इस विधिवाक्य से उपदिष्ट हाथ के द्वारा हिरण्य धारण की कर्तव्यता की प्रशस्तता का ज्ञापन है । चोर जिस प्रकार प्रच्छन्न रूप से रहता है— उसका स्वरूप गृहीत नहीं होता है, मन भी वैसा ही है एवं वाणी भी प्रायः अनृत- वादिनी है, किन्तु, हाथ का न तो वैसा प्रच्छन्न रूप है और और न अनृतयुक्त है । इस-
११२ मीमांसादर्शनम् [ सू० लिए हाथ में हिरण्य का धारण कर्तव्य है । मन की स्तेन स्वरूपता एवं अनृतभाषण में प्रायिकता रूप सादृश्य के अनुसार गौणभाव से मन को स्तेन एवं वाणी को अनृत- वादिनी कहा है, किन्तु, मन का स्तेनत्व या वाक्य की अनृतवादिता विवक्षित नहीं है । जैसे ऋषि से क्या काम है, यदु ही इसका विधान करेगा इस प्रकार के वाक्य में ऋषि की अपटुता प्रकटित नहीं होती है किन्तु यदु का ही सामर्थ्याधिक्य विवक्षित होता है— इस स्थल में भी इसो प्रकार है । "रूपात्" = समान रूप होने से "प्रायात्" प्रायिकता रूप से । गुणवाद के अनुसार मन को स्तेन एवं वाणी को अनृतवादिनी कहा है । ऋग्वेदभाष्यभूमिका में भी कहा है—ऋषि की क्या आवश्यकता है, देवदत्त की ही पूजा करे । इसमें देवदत्त की पूजा को स्तुति के लिए ही ऋषि के प्रति औदासीन्य का प्रदर्शन है, ऋषि के पूज्यत्व का निषेध नहीं है ॥ ११ ॥ दूरभूयस्त्वात् ॥ १.२.१२ ॥ शा० भा०—दृष्टविरोध उदाहरणं तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरेवाग्नेर्नक्तं ददृशे, न धूम इति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति; सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति मिश्रलिङ्गमन्त्रयोर्विधा- नस्याऽऽकाङ्क्षितत्वाच्छेषः । उभयोर्देवतयोः संविधाने होम इति स्तुतेरुपपत्तिः । दूरभूयस्त्वाद् धूमस्याग्नेश्चादर्शने गौणः शब्दः ॥ १२ ॥ भा० वि०—उक्तगुणवादनिमित्तस्योदाहरणान्तरेऽव्याप्तिमाशङ्क्य परिहरति— दूरेति । उदाहरणान्तरमेवाह—दृष्टेति । अस्मिन्नुदाहरणे निमित्तान्तरं वक्तुं विधिशेषत्वं तावद्धूमार्थवादस्य दर्शयति—अग्निरिति । प्रातर्जुहोतीति प्रक्रमे सत्यपीति शेषः, अस्य मिश्रालिङ्गमन्त्रविधेश्शेषमिदमुदाहरणमिति सम्बन्धः । इदमिहाकूतम्, यदग्नये च प्रजापतये च सायं जुहोति, यत्सूर्याय प्रजापतये च प्रातर्जुहोतीत्यग्निसूर्ययोः केवलयोर्देवतात्वेन विहितत्वादेव केवलदैवत्य- मन्त्रयोः लिङ्गतोऽपि प्राप्तिसंभवात् मिश्रलिङ्गमन्त्रविधिपर्युदस्तप्रतिप्रसवन- मात्रार्थत्वेन च केवलदैवत्यमन्त्रविधानस्य स्तुत्यनपेक्षत्वान्मिश्रलिङ्गमन्त्रविधान- स्याग्निज्योतिर्ज्योतिस्सूर्यः स्वाहेति सायं होतव्यम्, सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातरित्यस्यापूर्वत्वेन स्तुत्याकाङ्क्षत्वादस्य विधेश्शेषः । शेषत्वं च तस्माद्धूम एवेत्यादेर्दिवाग्निरादित्यं गच्छतीत्यादिमिश्रताप्रतिपादनस्योपपत्ति- त्वेनेति विधिशेषत्वमुक्त्वा गुणवादेन स्तुतित्वमाह—उभयोरिति । द्वयोरपि सन्ध्ययोर्मिश्रदेवतासन्निधानाद्यथार्थाभ्यामेव मन्त्राभ्यां होम इति स्तुतेरपि सम्भव इत्यर्थः । ननु तथापि धूम एवेत्याद्यवधारणा निरालम्बनेत्याशङ्क्य सूत्रं योजयति— दूरेति । धूमस्य दूरभूयस्त्वादग्नेरदर्शने गौणः शब्दः अग्नेर्दूरभूयस्त्वादूमस्यादर्शने
१२ ] प्रथमाध्याये द्वितीयपादः ११३ गौणशब्द इत्यन्वयः। दृश्यमानधूमगते विषयतया दृशिसंबन्धे दृशिनालक्षिते दूरभूयस्त्वे धूमे विधीयेते, अर्चिषी च निषिध्येते एवं च यथा दिवा दूरत्वबाहुल्ये धूमे दृश्येते नैवमर्चिषि, रात्रौ यथार्चिषि नैवं धूम इत्यर्थः ॥ १२ ॥ त० वा०—तस्माद्धूम एवेति दिवाऽग्निरदित्यं गच्छतीत्यस्योपपत्तित्वेन । तदिदं किमर्थमुच्यते । मिश्रलिङ्गाग्निहोत्रमन्त्रविधिस्तुत्यर्थम् । कथं पुनरग्नि- र्ज्योतिर्ज्योतिरग्निः स्वाहा; सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्यनयोर्मिश्रलिङ्ग- त्वम् । यदा विविक्तावेवाग्निसूर्यो देवतात्वेनोपलभ्येते । केचिदाहुः । अग्निर्ज्योतिरित्युत्र ज्योतिःशब्दः सूर्यवाची सूर्यो ज्योतिरिति पुनरग्निवाची तेनोभौ मिश्रलिङ्गाविति । तदयुक्तम् । ज्योतिःश्रुतेस्तेजःसामान्य- वाचित्वेनोभयत्र सामानाधिकरण्येनोपपत्तेः । अन्यतरपर्यायश्च सन्नितरत्र न प्रयुज्येत । न हि यो यत्पर्यायः, स तेनैव सह प्रयुज्यते । सूर्यवाची सन्प्रातर्मन्त्रे न प्राप्नोति । अग्निवाची सायंमन्त्रे । तस्मादुदाहरणं भ्रान्तिलिखितमितीमावु- दाहर्तव्यावग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति । तद्विधेश्च स्तुतिः प्रथमविहितकेवलदेवत्यमन्त्रपर्युदासेन मिश्रलिङ्गविधानो- पपत्तिरियमुच्यते । यदनयोर्मिश्रत्वं दिवाऽग्नेरनुप्रवेशान्नक्तं चाऽऽदित्यस्येति केवलेड्या न युक्तेति । अस्मिन्नपि तु व्याख्याने पर्युदसनीयत्वेनैव पूर्वमन्त्रोदाहरणम् । इतरौ तु स्तुतिभागिनौ मिश्रलिङ्गाभिधानादेव ज्ञायेते इति नोच्चारिताविति भाष्यं नेयम् । अत वोभयोः केवलमिश्रलिङ्गयोर्मध्ये पठितोऽयमर्थवादः । तत्र उभय- देवतयोरन्या प्रशंसा, इतरयोः पुनरियम्, यस्माद्दिवाऽग्निरदित्यं गच्छति, तस्मात्सूर्य एव तदा ज्योतिः । एवं नक्तमग्निरतस्तौ व्यवस्थितावेव यष्टव्याविति स्तुतिः । कथं तु धूम एवेत्यवधारणा । दूरस्थैर्भूम्रा दिवा धूम एव गृह्यते, रात्रावर्चिरिति केनचिदंशेन स्तुत्यालम्बनम् ॥ १२ ॥ न्या० सू०—धूमार्थवादस्य भाष्यकृता मिश्रलिङ्गमन्त्रविधिशेषत्वमुक्तम् । तदुपपाद- यति —तस्मादिति । उदाहृतयोर्मिश्रलिङ्गत्वं दूषयति —कथं पुनरिति । परमतेन समाधत्ते —केचिदाहुरिति । तद् दूषयति—तदयुक्तमिति । न केवलं प्रमाणो- भावात् ज्योतिः शब्दस्याग्निसूर्यशव्दपर्यायत्वाभावः, किं तु बाधक सद्भावादपीत्याह— अन्यतरेति । भाष्यानादरेण स्वयं मिश्रलिङ्गमन्त्रविधिशेषत्वमाह—तस्मादिति । अत्रैवार्थे भाष्यं योजयति --अस्मिन्नपि त्विति । अनेन च प्रातरितीतिकरणः काकुत्वेनैव व्याख्यातः सत्यप्यस्मिन्प्रक्रमे यदग्नये च प्रातर्जुहोतीत्यग्निसूर्ययोः केवलयोर्देवतात्वेन विहितत्वा- त्केवलदेवत्यमन्त्रयोर्लिङ्गतोऽपि प्राप्तिसम्भवे मिश्रलिङ्गमन्त्रविधिपर्युदस्तप्रतिप्रसवमात्रार्थ- ८
११४ मीमांसादर्शनम् [ सू० त्वेन केवलदेवत्यमन्त्रविधानस्य स्तुत्यनाकाङ्क्षत्वान्नास्य तच्छेषतेति, तत्पर्युदासेन मिश्रा- लिङ्गयोरपूर्वस्य विधानस्याकाङ्क्षितत्वात्तच्छेष इति । एवं भाष्यकारमतेन ब्राह्मणेनाप्यग्निसूर्यविधिमङ्गीकृत्य केवललिङ्गमन्त्रविधेस्तदर्थ- शास्त्रतादोषपरिहाराय प्रतिप्रसवमात्रार्थत्वात् स्तुत्यनाकाङ्क्षतोक्ता । इदानीमाधाराग्नि- होत्राधिकरणे वाक्यभेदमयाद् ब्राह्मणे चाग्निसूर्यविधेर्निराकरिष्यमाणत्वाल्लिङ्गतः प्राप्त्य- भावात् तदर्थशास्त्रत्वाभावेनापूर्वविधित्वात् स्तुत्याकाङ्क्षोपपत्तेरस्यैवायं शेष आह— अथ वेति । यद्यप्यनयोर्विध्योर्मध्ये पठितः, तथापि मिश्रलिङ्गविधेयं दग्नये सायं जुहुयादा- सूर्याय वृश्चेत् यत्सूर्याय प्रातर्जुहुयादासूर्याय वृश्चेत्, देवताभ्यः समदन्दध्यादग्निर्ज्योति- र्ज्योतिः सूर्य्यः स्वाहेति सायं होतव्यं सूर्य्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातस्तयोरुभाभ्यां प्रातनं देवताभ्यः समदन्दधातीति देवताद्रोहापादकत्वेन केवलदेवत्यनिन्दापूर्वकम्ग देवता- द्रोहानापादकत्वलक्षणप्रशंसान्तरसद्भावेन निराकाङ्क्षत्वात्केवलदेवत्यविध्योरेवायं प्रशंसे- त्यर्थः । भाष्यं चैवमस्मिन्नर्थे योज्यम् । मिश्रलिङ्गयोरित्यनादरे षष्ठी सप्तमी वेयं सतोरपि सन्निधौ मिश्रलिङ्गयोर्मन्त्रयोर्विहितयोः प्रशंसान्तरसद्भावेन तयोः स्तुत्यनाकाङ्क्षत्वादुदा- हृतकेवललिङ्गमन्त्रविधानस्यैवेयमाकाङ्क्षितत्वाच्छेष इति । अस्मिन्पक्षे स्तुतिस्वरूपं दर्शयति—यस्माद्धि्वेति । व्यवस्थितशब्देनोभयोरित्यादिभाष्यं नक्तमग्नेर्दिवा च सूर्यस्य सन्निधाने व्यवस्थया होम इत्येवं व्याख्यातम् । जुहोतिचोदितस्याप्युद्देशांशे भागरूपे देवता- न्वयमभिप्रेत्य यष्टव्यावित्युक़्तम् । पूर्वव्याख्याने तूभयशब्दो मिश्रवचनः । दूरभूयस्त्वादित्यदर्शनाभिधानालम्बनप्रतिपादनाथं भाष्यं प्रश्नपूर्वं व्याचष्टे—कथं त्विति । दूरस्थस्य भूयस्त्वेन यद्दर्शनं नाम, दर्शनगतोऽतिशयो दृशिना लक्षितः स नञा निषिध्यते पशुशब्दलक्षितमिव प्राशस्त्यमपशुशब्देन अपशवो वा अन्ये गो अश्वेभ्य इत्यनेन नञेति भावः—केनचिदिति । दूरभूयस्त्वांशेनादर्शनं स्तुतेरालम्बनमित्यर्थः ॥ १२ ॥ भा० प्र०—दृष्टविरोध के उदाहरणस्वरूप "तस्माद्" धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरैवाग्नेर्नक्तं ददृशे न धूमः" इस अर्थवाद का उदाहरण दिया है। यह अर्थवाद "अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोत सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः" । (ऐ० ब्रा० ५।५।६) सायंकाल अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा' यह कह कर अग्निहोत्र होम करे एवं प्रातःकाल "सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा" यह कहकर अग्निहोत्र होम करे—यह विधिद्वय का शेष या अङ्ग है। इसका कारण यह है कि दिन में अग्नि की अर्चिः अर्थात् अग्निशिखा दिखाई नहीं देती है, केवल धूम ही दिखाई देता है, इसीलिए दिन में अग्नि के अदृश्य होने से सूर्य का मन्त्र ही प्रशस्त है, और दिन में अधिक दूर में स्थित अग्नि दृष्टिगोचर नहीं होती है, केवल धूम ही दृश्य होता है एवं रात में धूम दृश्य नहीं रहता है, किन्तु अग्नि की शिखा दिखाई देती है—यह अनुभव सिद्ध है। इसी प्रकार अधिक दूरी के कारण दिन में अग्नि का अदर्शन एवं धूम का दर्शन और
सूत्रव्याख्यानेनाह – स्त्र्यपराधेनेति । दुर्ज्ञानमिति सम्बन्धः । स्त्रीणां
१३ ] प्रथमाध्याये द्वितीयपादः ११५ अग्नि के दर्शन को लक्ष्य कर गुणवाद के अनुसार यह कहा गया है । अतः यह अर्थवाद उक्त दोनों विधियों के प्राशस्त्य का बोधक होने से स्वरूप में तात्पर्य नहीं है । "दूरभूयत्वात्" अधिक दूरी होने से, अर्थात् दूरी का भूयस्त्व आधिक्य होने से दिन में अग्नि की शिखा दृश्य नहीं होती है एवं रात में धूम दृश्य नहीं होता है। अतः इस प्रकार गौण कथन है ॥ १२ ॥ स्त्र्यपराधात्कर्तुश्च पुत्रदर्शनम् ॥ १.२.१३ ॥ शा० भा०—दृष्टविरोध एवोदाहरणं 'न चैतद्विद्म' इति । तत् प्रवरे प्रक्रिय- माणे देवाः पितर इति ब्रूयादित्याकाङ्क्षितत्वादस्य विधेः शेषः । अब्राह्मणोऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्यादिति स्तुतिः । दुर्ज्ञानत्वादज्ञानवचनं गौणम् । स्त्र्यपराधेन कर्तुश्च पुत्रदर्शनेन । अप्रमत्ता रक्षत तन्तुमेनमित्यादिना दुर्ज्ञानम् ॥ १३ ॥ भा० वि०—अस्याप्युदाहरणान्तरेऽव्याप्तिमाशङ्क्य निमित्तान्तरोपन्यासेन परिहरति—स्त्र्यपराधादिति । प्रक्रियमाणे यजमानो ब्रूयात् देवाः पितर इत्यादीति पूरणीयम् । प्रवरानुमन्त्रणविधिशेषत्वेऽपि कथं स्तुतिरित्याशङ्क्य गुणवादादित्याह—अब्राह्मणोऽपीति । तत्र च प्रसिद्धब्राह्मण्यानां ब्राह्मणत्वलाभो निष्प्रयोजन इति ब्राह्मण्याप्रसिद्धिप्रतिपादनेन स्तुत्युपपादकमेतद्वाक्यमित्यर्थः । तथापि ज्ञायमाने कथमज्ञानवचनमित्याशङ्क्य गुणवादादित्याह—दुर्ज्ञानत्वादिति । विदिना तद्गतं सौकर्यं लक्षयित्वा नञा निषिध्यत इत्यर्थः । दुर्ज्ञानत्वे कारणं सूत्रव्याख्यानेनाह – स्त्र्यपराधेनेति । दुर्ज्ञानमिति सम्बन्धः । स्त्रीणां स्वभर्तृव्यतिक्रमलक्षणापराधसम्भवेनेत्यर्थः ॥ १३ ॥ त० वा० —प्रवरे प्रक्रियमाणे यजमानो वदेद्देवाः पितर इत्यादि । तत्प्रशं- सार्थमुक्तमब्राह्मणोऽपि ब्राह्मणो भवति प्रवरानुमन्त्रणेनेति । तत्र प्रसिद्धब्राह्मण- त्वानामेव ब्राह्मण्यलाभो निष्प्रयोजन इति तदुपपत्त्यर्थमुक्तं न चैतद्विद्म इति । ज्ञायमाने त्वज्ञानवचनं दुर्ज्ञानत्वात् । यत्सुखेनाज्ञानम्, तदज्ञानमेव । तच्च स्त्र्य- पराधनिमित्तम् । सत्यपि च स्त्र्यपराधे यदि मातुरेव क्षेत्रिणो वा पुत्रः स्यात्त- तस्तयोः प्रसिद्धजातित्वान्नैव दुर्ज्ञानता भवेत् । तयोरप्येवमेवं तत्पूर्वजयोरित्य- नादिन्यायेन जातिरवधार्येतैव । यतस्तु माता भस्त्रा पितुः पुत्र इति स्मर्तॄणां दर्शनं जनयितुश्च नानाजातित्वोपपत्तिः, तेन वर्णसंकरः । वेदेऽपि चा प्रमत्ता रक्षत तन्तुमेनमिति जातिविच्छेददर्शनं स्त्र्यपराधकर्तृपुत्रनिमित्तमेवोपपद्यते । अन्यथा ह्यपरिरक्ष्यमाणेऽपि नैव स्वजातितन्तुविच्छेदो भवेत् । तेनास्ति प्रशंसा- वकाश इति । निरूढब्राह्मण्यप्रवरसंकीर्तनात्तत्प्रभवोऽयमिति ज्ञानाद् ब्राह्मणः कृतो भवतीति स्तुतिः ॥ १३ ॥
११६ मीमांसादर्शनम् [ सू० न्या० सू०—'न चैतद्विद्म' इत्यस्य प्रवर प्रव्रियमाणे ब्रूयादित्येतद्विधिशेषत्वं भाष्य- कृतोक्तम् । तत्र विध्यंशपूरणपूर्वकं स्तुत्युपयोगित्वमुपपादयति—प्रवर इति । अज्ञानवचना- लम्बनमभिधानार्थं दुर्ज्ञानत्वादिति भाष्यं व्याचष्टे—ज्ञायमाने स्विति । दुर्ज्ञाने कथमज्ञान- शब्दप्रवृत्तिरित्यपेक्षायामाह—यत्सुखेनेति । पूर्ववदत्रापि ज्ञानगतसौकर्यलक्षणो गुणो विदितो विदितलक्षितो नञा निषिध्यत इत्यर्थः । स्त्र्यपराधेनेति दुर्ज्ञानत्वोपपादनार्थत्वेन व्याचष्टे—तच्चेति । ननु स्त्र्यपराधेऽपि बीजाद्योनिर्बलीयसीत्यनेन न्यायेन मातृब्राह्मण्यमात्रेण क्षेत्रि- ब्राह्मण्येन वा पुत्रे ब्राह्मण्यसिद्धेः कथं दुर्ज्ञानतेत्याशङ्कानिराकरणार्थतया कर्तुश्च पुत्रदर्शने- नेति भाष्यं व्याचष्टे—सत्यपि चेति । किं तत्कर्तुः पुत्रदर्शनमित्यपेक्षायां येन जातः स एव स माता भस्त्रा पितुः पुत्रो इत्याद्युदाहृतम् । जनकब्राह्मण्यनिमित्तेऽपि पुत्रब्राह्मण्ये कथं दुर्ज्ञानत्वमत आह—जनयितुश्चेति । साक्षात्कर्तृपुत्रदर्शनं स्वयमुदाहृत्य भाष्यकारीय- मुदाहरणं द्योतकत्वेन योजयेति—वेदेऽपि चेति । उपपादितं स्तुत्युपयोगमुपसंहरति— तेनेति । दुर्ज्ञानत्वेनाब्राह्मण्यशङ्कासम्भवादब्राह्मणस्यापि प्रवरानुमन्त्रणाद् ब्राह्मण्यं भवती- त्येवंरूपा प्रशंसा युक्तेत्यर्थः । ननु ब्राह्मण्यस्य मातापितृसंबन्धनिमित्तत्वात्प्रवरानुमन्त्रणजन्यत्वाभिधानं किमाल- म्बनमत आह—निरूढेति । निरूढं=प्रसिद्धं ब्राह्मण्यं येषां प्रवराणां प्रव्रियमाणानां सङ्कीर्त्त्यमानानां तेषां सङ्कीर्त्तनादित्यर्थः ॥ १३ ॥ मा० प्र०—"नचैतद्विद्मो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा" इस अर्थवाद में भी दृष्टविरोध प्रदर्शित किया है, किन्तु यह भी ठीक नहीं है, क्योंकि "प्रव्रियमाणे ब्रूयात् देवाः पितरः" (मै० सं० १।४।११) प्रवर के कथन के समय देवाः पितरः इत्यादि कहना चाहिए यह इस विधि का शेष या अङ्ग होता है। आशय यह है कि यजमान यदि देवाः पितरः पितरो देवा योऽस्मि सन् यजे योऽस्मि सन् करोमि" इस मन्त्र में प्रवर अनुमन्त्रित करे, ऐसी स्थिति में अब्राह्मण भी ब्राह्मण हो जाता है। इस प्रकार इसके द्वारा प्रवरअनुमन्त्रण की प्रशंसा की गई है। किन्तु ब्राह्मणत्वादि की अज्ञेयता विवक्षित नहीं है, कारण ब्राह्मण, क्षत्रिय आदि प्रत्यक्ष सिद्ध है, ब्राह्मणत्वादि जाति जन्म के अनुसार है, गुण के अनुसार नहीं है, यह प्रत्यक्ष सिद्ध है। शास्त्रकारों के अनुसार गोत्व आदि जाति के समान ब्राह्मणत्वादि जाति भी प्रत्यक्षगम्य एवं जन्मगत है। यदि ब्राह्मणत्वादि जाति को जन्मगत नहीं माना जाय तब दृष्टविरोध, शास्त्रविरोध, अन्यो- न्याश्रय, अव्यवस्था एवं एक साथ वृत्तिद्वय-विरोध आदि अनेक दोषों की सम्भावना है। ब्राह्मणत्वादि जाति जन्मगत है, यह प्रत्यक्षगम्य होने से उसका अपलाप करने पर दृष्ट- विरोध होगा । "अष्टवर्षं ब्राह्मणमुपनयीत" आठ वर्ष के ब्राह्मणपुत्र को ब्राह्मण कह कर उल्लेख किया गया है। यदि जन्मगत जाति न मानी जाय तो इसकी असङ्गति होगी
१३ ] प्रथमाध्याये द्वितीयपादः ११७ कारण, आठ वर्ष के बालकों में साधारणतया ब्राह्मणोचित किसी भी गुण की अभिव्यक्ति नहीं होती है । क्षत्रिय एवं वैश्य के प्रसङ्ग में भी इसी प्रकार उपनयन की अवस्था का निर्णय किया गया है । यदि जाति को जन्मगत नहीं माना जाय तो इन शास्त्रवचनों के साथ विरोध होगा । ब्राह्मणत्वादि जाति का आचार से जन्म मानने पर अन्योऽन्याश्रय दोष होगा, क्योंकि, जहाँ चारों वर्णों के आचारके विषय में उपदेश दिया गया है, वहाँ ब्राह्मणत्वादि जाति का परिचय देना शास्त्र का उद्देश्य नहीं था, किन्तु, आचार के विधान में ही शास्त्र का तात्पर्य्य है । अतः, जो व्यक्ति ऐसे आचार से सम्पन्न है, वह ब्राह्मण है, इसमें शास्त्र का तात्पर्य्य नहीं है । क्योंकि धर्म के प्रतिपादन करने में ही शास्त्र का उद्देश्य है । ऐसी स्थिति में वैसा आचार करने पर ब्राह्मण होगा, और ब्राह्मणत्व पूर्व से सिद्ध रहने पर ही वे आचार अनुष्ठेय होंगे, इस प्रकार ब्राह्मणत्व एवं आचार दोनों की उत्पत्ति परस्पर सापेक्ष होने से अन्योऽन्याश्रय दोष है, क्योंकि, ब्राह्मणत्व आदि पूर्व से सिद्ध न रहे तो उसको उद्देश्य कर किसी आचार का विधान सम्भव ही नहीं है। जाति को जन्मगत न कहकर आचार जन्य मानने पर अव्यवस्था भी होगी, क्योंकि, एक ही व्यक्ति कभी सदाचार करता है एवं कभी दुराचार या कदाचार करता है, अतः, सदाचार के समय वह ब्राह्मण और दूसरे ही क्षण कदाचार करने के समय शूद्र होगा । इस प्रकार एकही व्यक्ति में ब्राह्मणत्वादि कभी भी व्यवस्थित नहीं रहेगा, पुनः पुनः जाति का परिवर्तन होगा । ऐसी स्थिति में वह ब्राह्मण है या ब्राह्मणेतर इसका प्रमाण देना संसार में दुर्लभ हो जायगा । फलतः, शास्त्रीय विधि के अनुष्ठान का लोप हो जायेगा । इस प्रकार युगपत् वृत्तिद्वयका विरोध भी होगा, कारण, एकही व्यक्ति एकही प्रयत्न से ऐसा कर्म कर सकता है कि जिसके फल स्वरूप किसी का अनिष्ट और किसी का इष्ट होगा ! इससे युगपत् परपीडा और परानुग्रह करने से उनमें शूद्रत्व एवं ब्राह्मणत्व दो विरुद्ध जातियों का एक साथ समावेश होगा । इत्यादि । पूर्वप्रसङ्ग में जाति की दुर्ज्ञेयता को लक्ष्य कर "नचैतद् विद्मः" इत्यादि वाक्य में उस विषय का अज्ञान कहा गया है । जाति दुर्ज्ञेय है, कारण, गोत्वादि जाति के प्रत्यक्ष में जैसे अनेक इतिकर्तव्यता या सहकारी रहते है, वैसे ही ब्राह्मणत्वादि जाति के प्रत्यक्ष में भी उत्पादन कर्ता की जाति का स्मरण करना इतिकर्त्तव्यता या सहकारी है । उत्पादक कौन है, इसको जननी को छोड़कर कोई भी नहीं कह सकता हैं । स्त्रियों में दुश्चरित्रा भी रहती हैं । इसलिए, पति ही सभी पुत्रों का जनक है, यह भी नहीं कहा जा सकता है । क्योंकि, जारज रमणी जार से पुत्र की उत्पत्ति कर सकती है । पिता एवं माता की समान जातीयता ही जाति की विशुद्धि का कारण है, अन्यथा माता अन्य जाति का और पिता दूसरा जाति का होने पर पुत्र की जाति अश्वतर के समान शङ्कर हो जायेगी । इस प्रकार वर्णशङ्करता जिससे न हो इसी लिए श्रुति कह रही है कि "अप्रमत्ता रक्षत तन्तुमेनम्" हे रमणियो ? तुम सब असावधान न होकर अर्थात् यत्न-