मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 167, कुल 804 में से
संदर्भ में पढ़ें१३ ] प्रथमाध्याये द्वितीयपादः ११५ अग्नि के दर्शन को लक्ष्य कर गुणवाद के अनुसार यह कहा गया है । अतः यह अर्थवाद उक्त दोनों विधियों के प्राशस्त्य का बोधक होने से स्वरूप में तात्पर्य नहीं है । "दूरभूयत्वात्" अधिक दूरी होने से, अर्थात् दूरी का भूयस्त्व आधिक्य होने से दिन में अग्नि की शिखा दृश्य नहीं होती है एवं रात में धूम दृश्य नहीं होता है। अतः इस प्रकार गौण कथन है ॥ १२ ॥ स्त्र्यपराधात्कर्तुश्च पुत्रदर्शनम् ॥ १.२.१३ ॥ शा० भा०—दृष्टविरोध एवोदाहरणं 'न चैतद्विद्म' इति । तत् प्रवरे प्रक्रिय- माणे देवाः पितर इति ब्रूयादित्याकाङ्क्षितत्वादस्य विधेः शेषः । अब्राह्मणोऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्यादिति स्तुतिः । दुर्ज्ञानत्वादज्ञानवचनं गौणम् । स्त्र्यपराधेन कर्तुश्च पुत्रदर्शनेन । अप्रमत्ता रक्षत तन्तुमेनमित्यादिना दुर्ज्ञानम् ॥ १३ ॥ भा० वि०—अस्याप्युदाहरणान्तरेऽव्याप्तिमाशङ्क्य निमित्तान्तरोपन्यासेन परिहरति—स्त्र्यपराधादिति । प्रक्रियमाणे यजमानो ब्रूयात् देवाः पितर इत्यादीति पूरणीयम् । प्रवरानुमन्त्रणविधिशेषत्वेऽपि कथं स्तुतिरित्याशङ्क्य गुणवादादित्याह—अब्राह्मणोऽपीति । तत्र च प्रसिद्धब्राह्मण्यानां ब्राह्मणत्वलाभो निष्प्रयोजन इति ब्राह्मण्याप्रसिद्धिप्रतिपादनेन स्तुत्युपपादकमेतद्वाक्यमित्यर्थः । तथापि ज्ञायमाने कथमज्ञानवचनमित्याशङ्क्य गुणवादादित्याह—दुर्ज्ञानत्वादिति । विदिना तद्गतं सौकर्यं लक्षयित्वा नञा निषिध्यत इत्यर्थः । दुर्ज्ञानत्वे कारणं सूत्रव्याख्यानेनाह – स्त्र्यपराधेनेति । दुर्ज्ञानमिति सम्बन्धः । स्त्रीणां स्वभर्तृव्यतिक्रमलक्षणापराधसम्भवेनेत्यर्थः ॥ १३ ॥ त० वा० —प्रवरे प्रक्रियमाणे यजमानो वदेद्देवाः पितर इत्यादि । तत्प्रशं- सार्थमुक्तमब्राह्मणोऽपि ब्राह्मणो भवति प्रवरानुमन्त्रणेनेति । तत्र प्रसिद्धब्राह्मण- त्वानामेव ब्राह्मण्यलाभो निष्प्रयोजन इति तदुपपत्त्यर्थमुक्तं न चैतद्विद्म इति । ज्ञायमाने त्वज्ञानवचनं दुर्ज्ञानत्वात् । यत्सुखेनाज्ञानम्, तदज्ञानमेव । तच्च स्त्र्य- पराधनिमित्तम् । सत्यपि च स्त्र्यपराधे यदि मातुरेव क्षेत्रिणो वा पुत्रः स्यात्त- तस्तयोः प्रसिद्धजातित्वान्नैव दुर्ज्ञानता भवेत् । तयोरप्येवमेवं तत्पूर्वजयोरित्य- नादिन्यायेन जातिरवधार्येतैव । यतस्तु माता भस्त्रा पितुः पुत्र इति स्मर्तॄणां दर्शनं जनयितुश्च नानाजातित्वोपपत्तिः, तेन वर्णसंकरः । वेदेऽपि चा प्रमत्ता रक्षत तन्तुमेनमिति जातिविच्छेददर्शनं स्त्र्यपराधकर्तृपुत्रनिमित्तमेवोपपद्यते । अन्यथा ह्यपरिरक्ष्यमाणेऽपि नैव स्वजातितन्तुविच्छेदो भवेत् । तेनास्ति प्रशंसा- वकाश इति । निरूढब्राह्मण्यप्रवरसंकीर्तनात्तत्प्रभवोऽयमिति ज्ञानाद् ब्राह्मणः कृतो भवतीति स्तुतिः ॥ १३ ॥