मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 166, कुल 804 में से
संदर्भ में पढ़ें११४ मीमांसादर्शनम् [ सू० त्वेन केवलदेवत्यमन्त्रविधानस्य स्तुत्यनाकाङ्क्षत्वान्नास्य तच्छेषतेति, तत्पर्युदासेन मिश्रा- लिङ्गयोरपूर्वस्य विधानस्याकाङ्क्षितत्वात्तच्छेष इति । एवं भाष्यकारमतेन ब्राह्मणेनाप्यग्निसूर्यविधिमङ्गीकृत्य केवललिङ्गमन्त्रविधेस्तदर्थ- शास्त्रतादोषपरिहाराय प्रतिप्रसवमात्रार्थत्वात् स्तुत्यनाकाङ्क्षतोक्ता । इदानीमाधाराग्नि- होत्राधिकरणे वाक्यभेदमयाद् ब्राह्मणे चाग्निसूर्यविधेर्निराकरिष्यमाणत्वाल्लिङ्गतः प्राप्त्य- भावात् तदर्थशास्त्रत्वाभावेनापूर्वविधित्वात् स्तुत्याकाङ्क्षोपपत्तेरस्यैवायं शेष आह— अथ वेति । यद्यप्यनयोर्विध्योर्मध्ये पठितः, तथापि मिश्रलिङ्गविधेयं दग्नये सायं जुहुयादा- सूर्याय वृश्चेत् यत्सूर्याय प्रातर्जुहुयादासूर्याय वृश्चेत्, देवताभ्यः समदन्दध्यादग्निर्ज्योति- र्ज्योतिः सूर्य्यः स्वाहेति सायं होतव्यं सूर्य्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातस्तयोरुभाभ्यां प्रातनं देवताभ्यः समदन्दधातीति देवताद्रोहापादकत्वेन केवलदेवत्यनिन्दापूर्वकम्ग देवता- द्रोहानापादकत्वलक्षणप्रशंसान्तरसद्भावेन निराकाङ्क्षत्वात्केवलदेवत्यविध्योरेवायं प्रशंसे- त्यर्थः । भाष्यं चैवमस्मिन्नर्थे योज्यम् । मिश्रलिङ्गयोरित्यनादरे षष्ठी सप्तमी वेयं सतोरपि सन्निधौ मिश्रलिङ्गयोर्मन्त्रयोर्विहितयोः प्रशंसान्तरसद्भावेन तयोः स्तुत्यनाकाङ्क्षत्वादुदा- हृतकेवललिङ्गमन्त्रविधानस्यैवेयमाकाङ्क्षितत्वाच्छेष इति । अस्मिन्पक्षे स्तुतिस्वरूपं दर्शयति—यस्माद्धि्वेति । व्यवस्थितशब्देनोभयोरित्यादिभाष्यं नक्तमग्नेर्दिवा च सूर्यस्य सन्निधाने व्यवस्थया होम इत्येवं व्याख्यातम् । जुहोतिचोदितस्याप्युद्देशांशे भागरूपे देवता- न्वयमभिप्रेत्य यष्टव्यावित्युक़्तम् । पूर्वव्याख्याने तूभयशब्दो मिश्रवचनः । दूरभूयस्त्वादित्यदर्शनाभिधानालम्बनप्रतिपादनाथं भाष्यं प्रश्नपूर्वं व्याचष्टे—कथं त्विति । दूरस्थस्य भूयस्त्वेन यद्दर्शनं नाम, दर्शनगतोऽतिशयो दृशिना लक्षितः स नञा निषिध्यते पशुशब्दलक्षितमिव प्राशस्त्यमपशुशब्देन अपशवो वा अन्ये गो अश्वेभ्य इत्यनेन नञेति भावः—केनचिदिति । दूरभूयस्त्वांशेनादर्शनं स्तुतेरालम्बनमित्यर्थः ॥ १२ ॥ भा० प्र०—दृष्टविरोध के उदाहरणस्वरूप "तस्माद्" धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरैवाग्नेर्नक्तं ददृशे न धूमः" इस अर्थवाद का उदाहरण दिया है। यह अर्थवाद "अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोत सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः" । (ऐ० ब्रा० ५।५।६) सायंकाल अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा' यह कह कर अग्निहोत्र होम करे एवं प्रातःकाल "सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा" यह कहकर अग्निहोत्र होम करे—यह विधिद्वय का शेष या अङ्ग है। इसका कारण यह है कि दिन में अग्नि की अर्चिः अर्थात् अग्निशिखा दिखाई नहीं देती है, केवल धूम ही दिखाई देता है, इसीलिए दिन में अग्नि के अदृश्य होने से सूर्य का मन्त्र ही प्रशस्त है, और दिन में अधिक दूर में स्थित अग्नि दृष्टिगोचर नहीं होती है, केवल धूम ही दृश्य होता है एवं रात में धूम दृश्य नहीं रहता है, किन्तु अग्नि की शिखा दिखाई देती है—यह अनुभव सिद्ध है। इसी प्रकार अधिक दूरी के कारण दिन में अग्नि का अदर्शन एवं धूम का दर्शन और