मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 165, कुल 804 में से
संदर्भ में पढ़ें१२ ] प्रथमाध्याये द्वितीयपादः ११३ गौणशब्द इत्यन्वयः। दृश्यमानधूमगते विषयतया दृशिसंबन्धे दृशिनालक्षिते दूरभूयस्त्वे धूमे विधीयेते, अर्चिषी च निषिध्येते एवं च यथा दिवा दूरत्वबाहुल्ये धूमे दृश्येते नैवमर्चिषि, रात्रौ यथार्चिषि नैवं धूम इत्यर्थः ॥ १२ ॥ त० वा०—तस्माद्धूम एवेति दिवाऽग्निरदित्यं गच्छतीत्यस्योपपत्तित्वेन । तदिदं किमर्थमुच्यते । मिश्रलिङ्गाग्निहोत्रमन्त्रविधिस्तुत्यर्थम् । कथं पुनरग्नि- र्ज्योतिर्ज्योतिरग्निः स्वाहा; सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्यनयोर्मिश्रलिङ्ग- त्वम् । यदा विविक्तावेवाग्निसूर्यो देवतात्वेनोपलभ्येते । केचिदाहुः । अग्निर्ज्योतिरित्युत्र ज्योतिःशब्दः सूर्यवाची सूर्यो ज्योतिरिति पुनरग्निवाची तेनोभौ मिश्रलिङ्गाविति । तदयुक्तम् । ज्योतिःश्रुतेस्तेजःसामान्य- वाचित्वेनोभयत्र सामानाधिकरण्येनोपपत्तेः । अन्यतरपर्यायश्च सन्नितरत्र न प्रयुज्येत । न हि यो यत्पर्यायः, स तेनैव सह प्रयुज्यते । सूर्यवाची सन्प्रातर्मन्त्रे न प्राप्नोति । अग्निवाची सायंमन्त्रे । तस्मादुदाहरणं भ्रान्तिलिखितमितीमावु- दाहर्तव्यावग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति । तद्विधेश्च स्तुतिः प्रथमविहितकेवलदेवत्यमन्त्रपर्युदासेन मिश्रलिङ्गविधानो- पपत्तिरियमुच्यते । यदनयोर्मिश्रत्वं दिवाऽग्नेरनुप्रवेशान्नक्तं चाऽऽदित्यस्येति केवलेड्या न युक्तेति । अस्मिन्नपि तु व्याख्याने पर्युदसनीयत्वेनैव पूर्वमन्त्रोदाहरणम् । इतरौ तु स्तुतिभागिनौ मिश्रलिङ्गाभिधानादेव ज्ञायेते इति नोच्चारिताविति भाष्यं नेयम् । अत वोभयोः केवलमिश्रलिङ्गयोर्मध्ये पठितोऽयमर्थवादः । तत्र उभय- देवतयोरन्या प्रशंसा, इतरयोः पुनरियम्, यस्माद्दिवाऽग्निरदित्यं गच्छति, तस्मात्सूर्य एव तदा ज्योतिः । एवं नक्तमग्निरतस्तौ व्यवस्थितावेव यष्टव्याविति स्तुतिः । कथं तु धूम एवेत्यवधारणा । दूरस्थैर्भूम्रा दिवा धूम एव गृह्यते, रात्रावर्चिरिति केनचिदंशेन स्तुत्यालम्बनम् ॥ १२ ॥ न्या० सू०—धूमार्थवादस्य भाष्यकृता मिश्रलिङ्गमन्त्रविधिशेषत्वमुक्तम् । तदुपपाद- यति —तस्मादिति । उदाहृतयोर्मिश्रलिङ्गत्वं दूषयति —कथं पुनरिति । परमतेन समाधत्ते —केचिदाहुरिति । तद् दूषयति—तदयुक्तमिति । न केवलं प्रमाणो- भावात् ज्योतिः शब्दस्याग्निसूर्यशव्दपर्यायत्वाभावः, किं तु बाधक सद्भावादपीत्याह— अन्यतरेति । भाष्यानादरेण स्वयं मिश्रलिङ्गमन्त्रविधिशेषत्वमाह—तस्मादिति । अत्रैवार्थे भाष्यं योजयति --अस्मिन्नपि त्विति । अनेन च प्रातरितीतिकरणः काकुत्वेनैव व्याख्यातः सत्यप्यस्मिन्प्रक्रमे यदग्नये च प्रातर्जुहोतीत्यग्निसूर्ययोः केवलयोर्देवतात्वेन विहितत्वा- त्केवलदेवत्यमन्त्रयोर्लिङ्गतोऽपि प्राप्तिसम्भवे मिश्रलिङ्गमन्त्रविधिपर्युदस्तप्रतिप्रसवमात्रार्थ- ८