मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 156, कुल 804 में से
संदर्भ में पढ़ें१०४ मीमांसादर्शनम् [ सू० रोदननिमित्तस्य शब्दस्य दर्शनादित्यादिनोक्तस्तत्सिद्धिकरत्त्वादिः प्रकारविशेषो यावत्त- त्सिद्धिसूत्रे वक्ष्यमाणतया नालोच्यते, तावच्छुद्धेनेवेति तावच्छब्दस्यार्थः । स्तेनाद्युदाहरणे- ष्वपि तर्हि सूत्रान्तरानर्थक्यं स्यादत आह—शेषेति । ननु तत्सिद्धिसूत्रेण गुणवादप्रकारविशेषनिरूपणे स्तेनाद्युदाहरणेष्वपि शुद्धस्य गुणवाद- सूत्रस्य स्तुत्यसम्भवपरिहारसामर्थ्यादिनिरूपणे वा रोदनाद्युदाहरणेष्वप्यसामर्थ्यात्किं कृतेयं व्यवस्थेति आह—तत्रेति । यद्यपि तत्सिद्ध्यादीनां षण्णामेव गौणवृत्तिप्रकारत्वात्सर्व- प्रकारविशेषनिरूपणं तत्र करिष्यते, तथाप्यस्मिन्नुदाहरणेऽयं प्रकार इति स्तुत्युदाहरण- निष्ठतया सूत्रेणानिरूपणात्किंचित्सारूप्याद्युदाहृतानां स्तेनं मन इत्यादीनां सम्बन्धितयैहै- वोच्यते स्वप्राधान्येन तु तत्र सर्वं गौणतानिमित्तं वक्ष्यत इति, प्राधान्यवाचिना परशब्देनोक्तं गौणवृत्तिलक्षणकथनमात्रपरत्वात्तत्सिद्धिः सूत्रस्येति भावः । रोदनार्थवादे च गुणवादसूत्रयोजनार्थं विध्येकवाक्यत्वं विनार्थवादान्वयायोगात्पूर्वं विध्येकवाक्यत्वमेव साकाङ्क्षत्वे भाष्ये सोऽरोदीदित्यादिना प्रश्नपूर्वकं भाष्यकृतोपपादितं तद्व्याचष्टे—सोऽरोदीदिति । यद्यपि निन्दानिषेधयोरैकवाक्यत्वम्, तथापि सर्वोदाहरण- गतानामाकाङ्क्षाहेतुकविध्येकवाक्यत्वप्रतिपादकभाष्याणां साधारणोऽयं व्याख्याग्रन्थ इति सूचयितुमुपलक्षणार्थं विधिस्तुत्योरित्युक्तम् । प्रत्यवयवमित्यनेन पदानामिति बहुवचनार्थो दर्शितः । अन्यथा हि पुरास्य संवत्सराद् गेहे रोदनं भवतीत्यनेनैव निन्दासिद्धेः शेषपदाना- मानर्थक्यं स्यात् । अवान्तरपदवर्गाभिप्रायाश्चात्र पदशब्दः । एतदर्थवादोपक्रमस्य 'देवासुराः संयत्ता आसन्ते देवा विजयमुपयन्तोऽग्नौ वामं वसुसन्न्यदधतेदमुनो भविष्यति यदि नो जेष्यन्तीति, तदग्निन्र्यंकायत तेनापाक्रामत्ते देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्सन्तेत्यस्याप्येकवाक्यत्वसिद्धयर्थमरोदीदित्यादि' भाष्यं व्याचष्टे—स इतीति । स इत्युक्ते तस्य प्रकृतस्य प्रत्ययादित्यर्थः । यद्वा स इत्यस्य सर्वनामस्वपाठात्कथं प्रकृतापेक्षत्वमित्याशङ्क्य सर्वनामतच्छब्दादेशेन स इत्यनेन स्थानिनस्तच्छब्दस्य प्रत्ययादित्यन्यथा व्याचष्टे—अथ वेति । तद्रजतमित्यस्य भाष्यकारेणानुपन्यासात्स्वयं तत्सम्बन्धं दर्शयति—एवमिति । उपपत्तिश्चेति भाष्यं व्याचष्टे—सर्वा चेति । उपरितनस्येत्युक्तेऽप्युपरितनग्रन्थोपन्यासस्य प्रयोजनमाह— कोऽसाविति । हेतुत्वेनेतिभाष्यं व्याख्यातुमाशङ्कते—केनेति । रजतदानस्य रोदनोत्पादकत्वे को हेतुरित्यर्थः । उत्तरत्वेन भाष्यं व्याचष्टे—तदुपपाद्यत इति । भाष्येऽयमिति पूर्वोक्त- रोदनप्रभवत्वरूपार्थपरामर्शः । पूर्वोपन्यस्तस्य निषेधस्य पुनरुपन्यासे प्रयोजनमाह— तस्मादिति । कथं विधेरुपकुर्वन्तीति पृष्ट्वा गुणवादेनेत्यादिनोक्तत्वेन गुणवादसूत्रं भाष्यकृता योजितं तद्व्याचष्टे—निन्दयेति । दोषसङ्कीर्त्तनात्मकत्वान्निन्दाया गुणशब्दानुपपत्तिमाशङ्क्य तत्प्रतिषेधस्येत्यादिभाष्यकृतोक्तं कथं पुनरित्यादिना निरालम्बनस्तुत्यनुपपत्तिमाशङ्कया-