मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 157, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये द्वितीयपादः १०५ लम्बनाभिधानपरतया पुनरेतदेव सूत्रं योजितम् । तद्व्याचष्टे-गुणवादश्चेति । अरोदीदित्य- स्यालम्वनप्रतिपादनार्थं रुद्र इत्यादिभाष्यं व्याचष्टे — रुद्रशब्देति । रोदिते रोदनार्थंस्वा- द्रक्प्रत्ययस्य च कर्त्रर्थत्वाद्रोदनकर्तृवाची रुद्रशब्दो व्याकरणादवगम्यते । तस्य च त्वमग्ने रुद्रो असुरो महो दिव इत्यादावग्नौ प्रयोगदर्शनाद्रुद्रो वा एष यदग्निरिति चार्थवाददर्शना- द्रुद्रमग्नि द्विजाः प्राहुरिति—चारण्यकपर्वणि 'कुमारसम्भवोपाख्यानदर्शनात् । प्रस्तरे यजमानकार्यकर्तृत्ववत्तत्कार्यकारित्वेन रोदनकर्तृत्वकल्पनेत्यर्थः । तैत्तिरीयशाखागतार्थ- वाददर्शनादग्नौ रुद्रशब्दोऽस्माभिर्व्याख्यातः । अन्येषां तु कपर्दिनीं रुद्रशब्दं व्याचक्षाणामभिप्रायं न विद्मः । अश्रुप्रभवत्वाभि- धानालम्बनप्रतिपादनार्थं वर्णसारूप्यादितिभाष्यं व्याचष्टे — अश्रुगश्चेति । यदि नामेत्यनेन द्रवत्वमात्रेण वैलक्षण्यमित्युक्तम् । अनेन चान्यत्र प्रकृतिविकारयोः सादृश्यदर्शनादिहापि सादृश्येन प्रकृतिविकारभावोत्प्रेक्षा दर्शिता । रोदनं भवतीत्यस्यालम्बनाभिधानार्थं निन्दन्ने- वेति भाष्यं व्याचष्टे—धनत्यागेनेति । नन्वेवमपि मुख्यस्यार्थस्यासत्यत्वात्तल्लक्षिता निन्दाप्यसत्या स्यादत आह--एवमिति । नाविनाभावेनोपाख्यानादेर्मुख्यस्यार्थस्य स्तुति- निन्दालक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्तुतिनिन्दारूपार्थप्रतिपादनोपायमात्रत्वेनोपाख्या- नार्थवादैः प्रतिपाद्यते । न चोपायमात्रत्वेन कल्पितस्यासत्त्वं तद्वाराथं प्रतिपत्तेर- सत्यत्वं प्रतिपादयति । क्विब्यादेरसत्यत्वेऽपि तद्द्वारस्य शब्दान्वाख्यानस्य सत्यत्वदर्शना- दिति भावः । वपोत्खननार्थवादस्य विध्येकवाक्यत्वप्रतिपादनार्थं तथेत्यादिभाष्यं व्याचष्टे—एवमिति । कथं गुणवाद इत्यनेन कीदृशी स्तुतिरिति पृष्ट्वेत्थं नामेत्यादिना स्तुतिस्वरूपं भाष्यकृता दर्शितं तद्व्याचष्टे—आत्मेति । ईदृश्यपि स्तुतिर्भवतीति दर्शयितुं दृष्टान्तमाह—यथेति । कथं पुनरित्यनेनासद्वृत्तान्तान्वाख्यानानुपपत्तिमाशङ्क्योच्यत इत्यादिना किमराताऽर्थेन स्तुत्यसम्भवाभिप्रायेयमाशङ्का, निरालम्बनान्वाख्यानासम्भवाभिप्रायो वेति विकल्प्य, आद्ये कल्पे तावदपारमार्थिकस्याप्युपायत्वं क्विबादिवत्सम्भवतीत्युक्तम् । तदुपपादयति - वृत्तान्तेति । अनेन चोपाख्यानानामसत्यत्वेऽपि तत्रार्थवादानामतातपर्यात्तातपर्यंगोचरीभूते च प्राशस्त्याप्राशस्त्यरूपेऽर्थे सत्यत्वान्न तावदप्रामाण्यापत्तिरित्युक्तम् । कथं पुनरसत्यस्य पारमार्थिकस्तुतिनिन्दोपायत्वमित्याशङ्कयाह—शब्दभावनाङ्गं वेति । अयमाशयः धूमा- देर्ज्ञानापेक्षत्वेऽपि अर्थरूपेण कारणत्वात्तस्य चार्थभावेऽपि तद्विषयत्वरूपेण सत्यत्वाद्रज्जु- सर्पज्ञानस्येव भयकारणत्वं युक्तमेवोपायत्वमिति । अर्थसत्तानपेक्षत्वप्रदर्शनायैव सा चेत्या- द्युक्तम्—प्रवर्तेऽहमिति । विज्ञानोत्पादे यः शब्दस्य व्यापारः, स एव शब्दभावनांशब्दे- नोच्यते । एवंविधविज्ञानोत्पादकत्वमेव शब्दस्य प्रवर्त्तकत्वम्, न तु वाद्यादिवदौदसीन्य- प्रच्यावकत्वम् । तथोक्तम्—प्रवर्त्तेंऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्त्तनफला मतिः ॥ इति ।