भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 171, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 171

१४ ] प्रथमाध्याये द्वितीयपादः ११९ दुर्ज्ञानमेव पुत्रस्य ब्राह्मण्यामित्यर्थः, दुर्ज्ञानत्वस्याप्युदाहरणान्तरेऽव्याप्तिपरिहार्थः “आकालिकेप्सा” इति सूत्रम् तद्व्याख्यातुं को हि तद्वेदेत्यादिर्विधिशेषत्वं ताव- दाह—शास्त्रेत्यादिना। प्रवर्ग्यसमये शालाया दिक्ष्वतीकाशान् छिद्राणि करोति इत्यस्य विधेश्शेष इत्यर्थः। सम्प्रति गुणवादेन स्तुतित्वमाह—प्रत्यक्षेति। अतीकाशकरणं हि धूमापगमहेतुत्वाद् दृष्टफलकम्, तेन प्रशस्तमिति स्तूयत इत्यर्थः। तथापि कथं ज्ञायमानवचनेऽज्ञानवचनमित्याशङ्क्य सूत्रं योजयति –अनव- कॢप्रोति। अतीकाशकरणफलं प्रत्यक्षम्, कर्मजन्यं तु विप्रकृष्टकालत्वात् परोक्षम्, तेन विदिना लक्षितमपरोक्षत्वं को हीत्याक्षिप्य इत्यर्थः, तेन पूर्वसूत्रार्था- निमित्तात्पञ्चमीमाकृष्यैव सूत्रं योजितम् तदानीमेवोत्पद्यमानमाकालिकं प्रत्यक्ष- दृष्टफलम्, तत्रेप्सा=आप्तुमिच्छा, साऽज्ञानवचने निमित्तमिति ॥ १४ ॥ त० वा०–यत्तदानीमेवोत्पद्यते, तदाकालिकम्। तच्च सर्वलोकस्याभिमतम्, न यच्चिरभावि। तस्मात्प्रावर्ग्यकाले दिक्ष्वतीकाशकरणं प्राग्वंशस्य प्रशस्यते। तद्धि सद्यःफलं धूमक्लेशाननुभवात्। इतरत्तु कर्मजन्यं सत्कदाचिद्भविष्यति। कस्तद्वेद, शास्त्रमात्रगम्यं हि तत्। इदं तु सर्वप्रत्यक्षम्। तदपेक्षया च ज्ञाय- मानेऽप्यज्ञायमानवचनमितरप्रशंसार्थम्। पाठान्तरमाकालिके, डाद्यन्तवचन इति। अकालिकमिति वा पाठः। काल इति लोके विप्रकर्ष उच्यते। तत्र भवं काला- ठञिति ठञि कालिकं न कालिकमकालिकम् ॥ १४ ॥ न्या० सु०—सूत्रं व्याचष्टे—यत्तदानीमेवेति। ईप्सापदव्याख्यानार्थं तच्चेत्युक्तम्। न यच्चिरभावीत्यनेनाकालिकस्यैवाप्तुमिच्छेति साधारणत्वं दर्शितम्। अनेन चानवकॢप्ति- वचनमभिमतत्वेनामुष्मिकं निन्दितुमित्युक्तं भवति। आमुष्मिकनिन्दाया विधेः स्तुति- पर्यवसानप्रतिपादनार्थं प्रत्यक्षफलत्वेन स्तुतिरिति भाष्यं व्याचष्टे—तस्मादिति। चिर- भाव्यनभिमतत्वादित्यर्थः। अतीकाशाः-छिद्राणि प्राग्वंशः-पत्नीशाला। स्तुतिस्वरूप- माह—तद्धीति। अनवकॢप्तिवचनालम्बनाभिधानार्थमनवकॢप्तिवचनमिति भाष्यं व्याचष्टे- तदपेक्षया चेति। अत्रापि यदमुष्मिन् लोक इत्यामुष्मिकफलपरामशिना यच्छब्देन तद्गत- मभिमतत्वं लक्षयित्वा, तस्यानवकॢप्तिः को वेदेत्यनेनोच्यते। भाष्ये च गौणग्रहणेन रूपात्प्रायादिति पञ्चम्युपात्तगुणवादनिमित्तत्वमनुकृष्याकालिकेप्सा गुणवादनिमित्तमित्येवं सूत्रं योजितम्। कामिनः काम्यमानफलाभिमतेरपि प्रत्यक्षत्वादलवकॢप्तिवचनानुपपत्ति- माशङ्क्य तदपेक्षयेत्युक्तम्। यथा प्रत्यक्षफलं सर्वाभिमतम्, नैतत्त्येत्यर्थः। समानकाला- वाद्यन्तावस्येत्यर्थविवक्षायामन्वाख्यानादाकालिकपदात्तदानीमुत्पत्त्याख्यार्थालाभमाशङ्क्य विशिष्टेऽर्थे त्वाख्यातपदीदं पदमेककालक्षणया प्रत्यासत्योत्पत्त्याख्यैककाल्यवाचीति दर्श- यितुमाह—पाठे त्विति। आद्यन्तवचन इतीतिकरणेनोपक्रमोक्ताकालिकपदार्थपरामर्शीहीदं- पाठे तदानीमेवोत्पाद्यमानमनेन सूत्रेणाकालिकमनेन यातमित्यर्थः। पाठान्तरमिति क्व-