भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 173, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 173

१५ ] प्रथमाध्याये द्वितीयपादः १२१ जायत इति शेषः । मुखशोभा वाजिसत्त्वं च गुणवचनत्वाद् गौणः शब्दः । शोभत इव शिष्यैरुद्वीक्ष्यमाणम् । कुले संतताध्ययनश्रवणान्मेधावी जायते, स प्रतिग्रहादन्नं प्राप्नोतीति ॥ १५ ॥ भा० वि०-फलाभावसूत्रोक्तमनुपलब्धिविरोधं निराकर्तुमाह-विद्येति । सूत्रं व्याख्यातुं विधिशेषत्वमाह = तथेत्यादिना । आस्यप्रजायां वाजी जायत इति वेदानुमन्त्रणस्य शेष इत्यन्वयः । अध्ययनविधिनैवार्थज्ञानफलत्वं दर्शयता ज्ञानस्य स्वयमपुरुषार्थत्वात् कैमर्थ्याकाङ्क्षायामनुष्ठानयोग्यपुरुषकरणादनुष्ठानार्थत्वं सूचयता पारार्थ्यं तस्य दर्शितम्, पारार्थ्ये च सिद्धे फलश्रुतेरर्थवादत्वाद्विद्या- प्रशंसयानुष्ठानशेषता सिध्यतीति भावः । स्तुत्यर्थतयापि कथमसतोर्मुखशोभा- वाजिमत्त्वयोरुक्तिस्तत्राह-मुखेति । गुणाद्वचनं यस्य तत् गुणवचनं = गौणमित्यर्थः, एतेन गौणस्यैवाविद्यार्थस्य प्रशंसार्थत्वेनाभिधानान्नानुपलब्धिविरोध इति सूत्रार्थो दर्शितः । गौणत्वमेवोपपादयति - गौण इति । गुणमाह-शिष्यैरिति भृशं शोभने हि वस्तुनि पुनः पुनरुद्वीक्षणं भवति, विद्वद्वदनस्य च । शिष्यैरुद्वीक्ष्यमाणत्वात् तत्र शोभत इति व्यपदेशः इत्यर्थः । सम्प्रति वाजिमत्त्वाभिधानस्य गौणत्वं गुणकथनपूर्वकमाह-कुलेति । कुलेऽस्य विदुषो गृहे यत्सन्ततमध्ययनं तस्य श्रवणादस्य वंशे मेधावी पुत्रो जायत इत्यर्थः । यद्वा अस्य कुले वंशे मेधावी जायत इति सम्बन्धः । ततः किमत आह- स इति । अवाप्नोतीति सम्भावितत्वगुणाद्वाजिमत्त्वं गौणमिति शेषः । पूर्णाहुत्यादिवाक्येष्वपि अनुपलब्धिविरोधं परिहरति-सर्वत्वमिति । आकाङ्क्षितत्वाच्छेष इति । अतः परं सर्वान् लोकान् पशुबन्धयाज्यभिजयति इति पशुना यजेतेत्यस्य विधेःशेष इति पठितव्यम् । वेदेत्यस्य विधेरिति सम्बन्धः, पूर्वसूत्रात् प्रशंसापदमादाय सर्वत्वमिति सूत्रांशं व्याकुर्वन्ननुपलब्धिविरोधं परि- हरति-फलेति । पूर्णाहुतेरग्निसंस्कारार्थत्वात्, पशुबन्धस्य चारादुपकर्मकत्वात्, अश्वमेधज्ञानस्य च पुरुषसंस्कारार्थत्वात्, संस्कारकर्मणां च फलश्रुतेरर्थवादत्वात्, सर्वकामत्वादिरूपं फलं प्रशंसैवेति नानुपलब्धिविरोध इत्यर्थः ॥ १५ ॥ त० वा०-अध्ययनविधिशेषत्वादफलविधिः सन्यथाविज्ञातमुखशोभावाजि- मत्त्वानुवादो विज्ञायते । न चैक एव प्रकारो मुखशोभायाः, संस्थानं रमणीयता लावण्यं चेति । स्त्रीविषयं ह्येतत् । विदुषां पुनः पदवाक्यन्यायोद्गारि मुखं शोभते तेनाऽऽत्मना मुख्ययैव वृत्त्या शीभते । पुत्रश्च वाजवान्ब्रह्मवर्चसद्वारेण । अथापि गौणता, तथाऽपि स्तुतिपरत्वाददोषः ॥ १५ ॥