मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 175, कुल 804 में से
संदर्भ में पढ़ें१६ ] प्रथमाध्याये द्वितीयपादः १२३ सर्वत्वमाधिकारिकम् ॥ १.२.१६॥ शा० भा०—अन्यान्नर्थक्यवाक्य उदाहरणं 'पूर्णाहुत्या सर्वान्कामानवाप्नो- तीति' पूर्णाहुतिं जुहोतीत्याकाङ्क्षितत्वादस्य विधेः शेषः । य उ चैनमेवं वेदेति, तरति मृत्युमित्यस्याऽऽकाङ्क्षितत्वाच्छेषः । फलवचनं स्तुतिः, सर्वकामफलस्य निमित्ते सर्वकामावाप्तिवचनं गौणम् । असर्वेषु सर्ववचनमधिकृतापेक्षम् ॥ १६ ॥ भा०वि०—सम्प्रति सर्वकामावाप्तिवचसस्सालम्बनत्वं दर्शयन् सर्वत्वपदावृत्त्या सूत्रवाक्यं योजयति—सर्वकामेति । सर्वे कामाः फलं यस्य कर्मणः, तन्निमित्ते संस्कृताग्नौ विषये सर्वकामावाप्तिवचनं निमित्ते नैमित्तिकत्वोपचारात् गौण- मित्यर्थः । सर्वत्वं=सर्वकामत्वम्, आधिकारिकं फलसम्बन्ध्येव तन्निमित्तेऽग्ना- वुपचरितमिति वदता सूत्रकारेणोक्त इत्यर्थः । पशुबन्धवाक्येऽप्येकस्मै वा अन्ये यज्ञक्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति अधिकृतस्य ज्योतिष्टोमस्य सर्वकामसाधनत्वात् तदङ्गभूतस्य पशुबन्धस्य तद्द्वारा सर्वलोकसाधनत्वम् स्तुत्यर्थमुपचारादुक्तमिति सूत्रं योज्यम् । मृत्युतरणोदाहरणे तु पूर्वसूत्रगतविद्यापदानुषङ्गेन विद्याप्याधिकारिकीति विपरिणामं कृत्वा अश्वमेधफलमपि मृत्युत्तरणादि तदुपकारिण्यां विद्यायामश्व- मेधस्तुत्यर्थमुपचारेणोक्तमिति योज्यमित्याशयः । नन्वग्न्यादिद्वारेणापि न सर्वकामनिमित्तत्वमित्याशङ्क्यान्यथा सूत्रं योजयति—असर्वेष्विति । यथा लोके सर्वमन्नं भुक्त इत्यादौ सर्वशब्दः प्रकृतापेक्षः, तथात्रापि प्रकृताग्निसाध्यफलग्राही भविष्यतीत्यर्थः ॥ १६ ॥ त० वा०—संस्कारकर्मत्वान्न फलविधिः । स्तुतेस्त्वालम्बनं निमित्ते नैमि- त्तिकवदुपचारात् । सर्वकामनिमित्तानां कर्मणां सामान्यसाधनभूतानग्नीनवाप्नो- तीत्यर्थः । सूत्रं चैवं योज्यते—सर्वकामनिमित्तैः कर्मभिराहिताग्नित्वादिदानी- मधिकृत इति वक्तव्ये सत्याधिकारिकं सर्वत्वं स्तोतुमवाप्तावुपचरितम् । ननु चाऽऽकाशगमनसुरकन्यालाभादयोऽत्यन्तासन्तः सर्वशब्देन वैदिकेषु कर्मसु निमित्तद्वारेणापि न शक्यन्तेऽनुवदितुमतः पुनः सूत्रमुच्यते । यथैवौदनादिषु सर्वशब्दोऽधिकृतापेक्षत्वान्न त्रैलोक्यं गृह्णाति, तथाऽत्राग्निकर्माधिकृतफलग्राही भविष्यतीत्यदोषः ॥ १६ ॥ न्या० सु०—फलवचनं स्तुतिरिति भाष्येण पूर्णाहुति-पशुबन्धयोः सर्वकामलोकफल- त्ववचनम्, अश्वमेधविद्यायाश्च मृत्युतरणादिफलत्ववचनं प्रशंसार्थत्वान्नानुपलब्धिविरुद्धमिति