मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 177, कुल 804 में से
संदर्भ में पढ़ें१७ ] प्रथमाध्याये द्वितीयपादः १२५ भा० वि० - एवमर्थवादत्वेनानुपलब्धिविरोधं परिहरतान्यानर्थक्यदोषो निराकृतः अधुना फलविधित्वमभ्युपगम्यापि निराकरोति - फलस्येति । सूत्रतात्पर्यमाह - अन्वारुह्येति । अभ्युपगम्यवादं विवृणोति = यद्यपीति । यद्यपि पूर्णाहुत्यादिवाक्ये फलविधिः क्रियते, तथापि नाग्निहोत्रादीनामानर्थक्यम्, किन्त्वर्थवत्तैव । तत्र हेतुः - परिमाणत इति । फलविशेषः स्यादिति सम्बन्धः । यत इति शेषः, लौकिकचन्दनकर्पूरकस्तूरिकाग्न्यादिजनितसुखेष्वपि विशेषानु- मानात् कर्मपरिमाणतारतम्यानुसारेण फलतारतम्यसम्भवात् पूर्णाहुत्या स्तोकस्तोकफलावाप्तावपि न महतां कर्मणामानर्थक्यमित्यर्थः । तदनेनैवं सूत्रं योजितं फलस्य कर्मभ्यो निष्पत्तेः श्रुतत्वात्तेषां कर्मणां परिमाणं फलविशेषः; फले विशेषः परिमाणविशेषः स्यात् - लोकवदिति । ननु दक्षिणादौ परिमाणसाम्येऽपि सारासारद्रव्यकृतफलवैषम्येण भवितव्यम् अन्यथा सारद्रव्यदाने प्रवृत्त्यनुपपत्तेरित्याशङ्क्य परिमाणग्रहणस्योपलक्षणार्थत्वं मत्वाह - सारतो वेति ॥ १७ ॥ त० वा० - तच्चैतत्त्समानस्वर्गादिफलेष्वग्निहोत्रादिषूपयोक्ष्यत इत्युपन्यस्तम्, साधनानुरूपत्वात्साध्यानाम् । सर्वे हि कामाः पूर्णाहुत्याऽवाप्यमानाः स्तोकस्तोकाः प्राप्यन्ते । तत्र फलभूमाथिनः कर्मान्तरविधिरर्थवान्भविष्यतीति स्थिते चोद्यते - युक्तं लोके कृष्यादिफलानां प्रत्यक्षावगतत्वात्साधनानुरूपं जन्म । पूर्णाहुत्यादिषु त्वत्यन्तशास्त्राधीनत्वादविशेषश्रुते फले किम्मूला विशेषकल्पना । न ह्यग्निहोत्र- ज्योतिष्टोमस्वर्गयोः कश्चिद्विशेषः श्रूयते । न चानुमानमीदृशे विषये समर्थम् । तदभिधीयते । विधिसामर्थ्यादिदं सिद्धम् । कथम् ? यदि ह्यल्पान्महतश्च कर्मणः समं फलं जायेत, ततोऽर्के चेन्मधु विन्देतेत्यनेनैव न्यायेनाल्पेन सिद्धे महति न कश्चित्प्रवर्तेत । तत्र विधिशक्तिबाधः स्यात् । अविहतशक्तिस्तु सन् 'अर्थाद्वा कल्पनैकदेशत्वादित् (जै० १।४।२०) इति विधिरेव फलाधिक्यमङ्गीकरोति । अतो यथा विश्वजिदादौ फलसद्भावः प्रमाणवान् एवमिह तद्विशेष इति । किञ्च कर्मणामल्पमहतां फलानां च स्वगोचरः । विभागः स्थानसामान्यादविशेषेऽपि चोदिते ॥ २ ॥ यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमिति विनियोगव्यवस्था, तथैव कर्मगोचरेऽल्पस्य कर्मणः परिमाणसामान्येन फल- गोचरेऽल्पमेवोपतिष्ठते । मध्यमस्य मध्यमम्, महतो महदिति स्थानमेव विनियोजकम् । स्मरणमप्येवमेव । चातुर्मास्यसौमेषु च फलार्थवादो यदाऽग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्रियेत्यारभ्य न्यूनाग्निहोत्रदशसंवत्सरप्रयो-