भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रतात्पर्यमाह - अन्वारुह्येति । अभ्युपगम्यवादं विवृणोति = यद्यपीति । यद्यपि

१७ ] प्रथमाध्याये द्वितीयपादः १२५ भा० वि० - एवमर्थवादत्वेनानुपलब्धिविरोधं परिहरतान्यानर्थक्यदोषो निराकृतः अधुना फलविधित्वमभ्युपगम्यापि निराकरोति - फलस्येति । सूत्रतात्पर्यमाह - अन्वारुह्येति । अभ्युपगम्यवादं विवृणोति = यद्यपीति । यद्यपि पूर्णाहुत्यादिवाक्ये फलविधिः क्रियते, तथापि नाग्निहोत्रादीनामानर्थक्यम्, किन्त्वर्थवत्तैव । तत्र हेतुः - परिमाणत इति । फलविशेषः स्यादिति सम्बन्धः । यत इति शेषः, लौकिकचन्दनकर्पूरकस्तूरिकाग्न्यादिजनितसुखेष्वपि विशेषानु- मानात् कर्मपरिमाणतारतम्यानुसारेण फलतारतम्यसम्भवात् पूर्णाहुत्या स्तोकस्तोकफलावाप्तावपि न महतां कर्मणामानर्थक्यमित्यर्थः । तदनेनैवं सूत्रं योजितं फलस्य कर्मभ्यो निष्पत्तेः श्रुतत्वात्तेषां कर्मणां परिमाणं फलविशेषः; फले विशेषः परिमाणविशेषः स्यात् - लोकवदिति । ननु दक्षिणादौ परिमाणसाम्येऽपि सारासारद्रव्यकृतफलवैषम्येण भवितव्यम् अन्यथा सारद्रव्यदाने प्रवृत्त्यनुपपत्तेरित्याशङ्क्य परिमाणग्रहणस्योपलक्षणार्थत्वं मत्वाह - सारतो वेति ॥ १७ ॥ त० वा० - तच्चैतत्त्समानस्वर्गादिफलेष्वग्निहोत्रादिषूपयोक्ष्यत इत्युपन्यस्तम्, साधनानुरूपत्वात्साध्यानाम् । सर्वे हि कामाः पूर्णाहुत्याऽवाप्यमानाः स्तोकस्तोकाः प्राप्यन्ते । तत्र फलभूमाथिनः कर्मान्तरविधिरर्थवान्भविष्यतीति स्थिते चोद्यते - युक्तं लोके कृष्यादिफलानां प्रत्यक्षावगतत्वात्साधनानुरूपं जन्म । पूर्णाहुत्यादिषु त्वत्यन्तशास्त्राधीनत्वादविशेषश्रुते फले किम्मूला विशेषकल्पना । न ह्यग्निहोत्र- ज्योतिष्टोमस्वर्गयोः कश्चिद्विशेषः श्रूयते । न चानुमानमीदृशे विषये समर्थम् । तदभिधीयते । विधिसामर्थ्यादिदं सिद्धम् । कथम् ? यदि ह्यल्पान्महतश्च कर्मणः समं फलं जायेत, ततोऽर्के चेन्मधु विन्देतेत्यनेनैव न्यायेनाल्पेन सिद्धे महति न कश्चित्प्रवर्तेत । तत्र विधिशक्तिबाधः स्यात् । अविहतशक्तिस्तु सन् 'अर्थाद्वा कल्पनैकदेशत्वादित् (जै० १।४।२०) इति विधिरेव फलाधिक्यमङ्गीकरोति । अतो यथा विश्वजिदादौ फलसद्भावः प्रमाणवान् एवमिह तद्विशेष इति । किञ्च कर्मणामल्पमहतां फलानां च स्वगोचरः । विभागः स्थानसामान्यादविशेषेऽपि चोदिते ॥ २ ॥ यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमिति विनियोगव्यवस्था, तथैव कर्मगोचरेऽल्पस्य कर्मणः परिमाणसामान्येन फल- गोचरेऽल्पमेवोपतिष्ठते । मध्यमस्य मध्यमम्, महतो महदिति स्थानमेव विनियोजकम् । स्मरणमप्येवमेव । चातुर्मास्यसौमेषु च फलार्थवादो यदाऽग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्रियेत्यारभ्य न्यूनाग्निहोत्रदशसंवत्सरप्रयो-

१२६ मीमांसादर्शनम् [ सू० गादिभिरेकदर्शपूर्णमासादिप्रयोगावासिवचनं कर्माल्पत्वमहत्त्वकृतं फलभेदं दर्शयति ॥ १७ ॥ न्या० सु०—अन्वारुह्य वचनस्य प्रयोजनमाह—तच्चैतदिति । दक्षिणापरिमाण- साम्येऽपि फलाधिक्यमन्तरेणासारद्रव्यदानेनापि क्रतुसिद्धौ सारद्रव्यदाने प्रवृत्त्ययोगात्सूत्रा- तिरेकेण भाष्ये सारग्रहणम् । विशेषमुपपादयति—साधनेति । अत्राशङ्कते—इति स्थित इति । परिहरति—तदभिधीयते इति । स्थानादपीयं व्यवस्था सिद्धयतीत्याह—किं चेति । श्लोकं व्याचष्टे—यथैवेति । कर्मगोचर इत्यादिना समुदायाभिप्रायः स्वगोचरशब्दः । निर्धारणे च सप्तमी व्यवस्थावचनश्च विभागशब्द इति व्याख्यातः । ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः । आभूतसंप्लवान्तं च फलमिष्टं तयोर्द्विज ॥ इत्यादिसमरणादपि व्यवस्थाऽवसीयेत इत्याह—स्मरणादपीति । यदग्निहोत्रं जुहोति अथ दशगृहमेधिन आप्नोत्येकया रात्र्या यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्ण- मासयाजिनामाप्नोति यदा दश, संवत्सरान् दर्शपूर्णमासाभ्यां यजतेऽथाग्निष्टोमयाजिनामा- प्नोतीत्याद्यन्यार्थदर्शनादपि व्यवस्थासिद्धिरित्याह—चातुर्मास्यसोमेषु चेति । चातुर्मास्य- वत्सोमेऽपीत्यर्थः ॥ १७ ॥ भा० प्र०-कर्म के परिमाण के अनुसार फल की अल्पता और आधिक्य होता है । निरूढ पशुबन्ध नामक यज्ञ से स्वर्ग की प्राप्ति होती है एवं ज्योतिष्टोम दर्शपूर्णमास आदि कर्मों से भी स्वर्ग की प्राप्ति होती है इसी प्रकार अश्वमेध विषयक ज्ञान ब्रह्महत्या आदि पापों से छुटकारा मिलता है एवं अश्वमेध यज्ञ के अनुष्ठान से भी ब्रह्महत्या आदि पापों की निवृत्ति होती है, किन्तु ये सभी एक प्रकार के नहीं हैं। अल्प परिश्रम साध्य कर्म से किस स्वर्ग की प्राप्ति होती है, वह भिन्न प्रकार एवं उसका स्थायित्व भिन्न जातीय होता है, एवं अधिक परिश्रम से साध्य कर्म से जिस स्वर्ग की प्राप्ति होती है वह उससे भिन्न एवं उसका स्थायित्व भी भिन्न है । इसलिए तैत्तिरीयसंहिता "उच्चावचकर्म्मणा- मेकविधफलासम्भवात् स्वर्गो बहुविधः", स्वल्प और महत् कर्म से एक प्रकार का स्वर्गरूपी फल नहीं हो सकता है; अतः, स्वर्ग अनेक प्रकार का है, जो व्यक्ति जिस प्रकार का कर्म करता है, उस कर्म के परिणाम के अनुसार स्वर्ग का भोग भिन्न प्रकार का होता है । जैसे एक कपड़ा पाँच रुपये का खरीदा जा सकता है और एक रुपया का भी कपड़ा खरीदा जा सकता है, किन्तु कपड़ा होने पर भी उनमें बहुत भेद है । इसी तरह कर्म की स्वल्पता और महत्त्व के अनुसार स्वर्ग भोग अल्पकाल स्थायी एवं अधिक काल स्थायी होता है । नरक के भोग का भी यही नियम है । इसी प्रकार कायिक वाचिक एवं मानसिक भेद से ब्रह्महत्या अनेक प्रकार की है । मन में ब्रह्महत्या की

१८ ] प्रथमाध्याये द्वितीयपादः १२७ कल्पना करने वाले व्यक्ति को जो पाप होता है वह अश्वमेध विषयक ज्ञान से निवृत्त होता है एवं ब्रह्महत्या का अनुष्ठान करने वाले व्यक्ति के पाप का यज्ञ के अनुष्ठान से ही मुक्ति होती है । समान फल का निर्देश रहने पर भी प्रकार में भेद रहता है । यह केवल युक्ति के आधार पर नहीं है, वरन् चातुर्मास्य सोम प्रकरण में जो अर्थवाद कहा गया है, उससे भी यही अर्थ सिद्ध होता है । "यदग्निहोत्रं जुहोत्यथ दश गृहमेधिनं आप्नोत्येकया रात्रिया" इत्यादि क्रम में गृहमेधी अग्निहोत्रं दर्शपूर्णमास आदि एक-एक याग के समान है, अतः स्वल्पायास अथवा बहु आयास साध्य अनेक कर्मों का एक प्रकार के फल का श्रवण रहने पर भी असामञ्जस्य का अवकाश नहीं है । फलस्य = फल का, कर्मनिष्पत्तेः = कर्म के द्वारा निष्पत्ति होने से, तेषां = कर्म- फलों का, परिणामतः = परिमाण के अनुसार, फल विशेषः = फल का अल्पता या आधिक्य, स्यात् = होता है । लोकवत् = लौकिक दृष्टान्त के अनुसार लोक व्यवहार में । जैसे भूमि का स्वल्पकर्षण एवं अधिक कर्षणरूप परिमाण के अनुसार कृषि आदि फल की अल्पता एवं अधिकता रहती है, वैदिक धर्म का भी परिमाण के अनुसार फल का तारतम्य होता है, क्योंकि कर्म के द्वारा ही फल की निष्पत्ति होती है ॥ १७ ॥ अन्त्ययोर्यथोक्तम् ॥ १.२.१८ ॥ शा० भा०—अभागिप्रतिषेधादित्यादावुदाहृतं—न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति, हिरण्यं निधाय चेतव्यमित्याकाङ्क्षितत्वादस्य विधेः शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । असति प्रसङ्गे प्रतिषेधो नित्या- नुवादः । यच्चानित्यदर्शनं 'बबरः प्रावाहणिरकामयत' इति । तत्परिहृतम् । अर्थवादाक्षेपेण पुनरुत्थितमिदानीमर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति ॥ १८ ॥ भा० वि०—एवं पूर्णाहूतिवाक्यस्य स्वार्थासत्यत्वादिनार्थक्यप्रसङ्गं परिहृत्य, अधुना न पृथिव्यामित्यादौ नाभागिप्रतिषेधप्रसङ्गः नापि बबरः प्रावाहणिरित्यादावनित्यसंयोगप्रसङ्ग इत्याह - अन्त्ययोरिति । अभागिप्रतिषेध- निरासार्थं सूत्रं योजयति—अभागीति । निन्दायाः कथं विधिशेषत्वमित्याशङ्क्य यथोक्तमितिपदं व्याकुर्वन् स्तेयानृतवादार्थवादन्यायमतिदिशति—पृथिव्यादीति । ननु शुद्धपृथिवीचयननिषेधस्य हिरण्यनिधानस्तुत्यर्थत्वेऽपि नान्तरिक्ष इत्यादेः कथं तच्छेषत्वं तत्राह—असतीति । असत्यामपि प्राप्तौ प्रतिषेधो नित्यानुवादो दृष्टान्तार्थः; यथान्तरिक्षे, दिवि वा चयनमनुमतम् । एवं शुद्धायामपि पृथिव्यामित्यर्थः ।

१२८ मीमांसादर्शनम् [ सू० अनित्यसंयोगपरिहारार्थमपि यथोक्तमिति सूत्रावयवं व्याचष्टे-यच्चेति । अनित्यदर्शनमनित्येन संयोगदर्शनं तत्परिहृतम्। परं श्रुतिसामान्यमात्र- मित्यनेनेति शेषः । प्रकर्षेण वाहयतोति प्रावाहणिशब्दस्य नित्ये वायौ व्युत्पत्तेः बबरशब्दस्य च शब्दानुकृतित्वात् प्रवाहणाख्यपुरुषसिद्धा प्रावाहणेरन्यस्या- सम्भवान्नित्यस्य संयोग इत्युक्तमित्यर्थः । स्यान्मतम् नित्यार्थाभ्युपगमोऽनर्थकः, नित्यार्थनामित्यापो वै शान्ता इत्यादी- नामानर्थक्यादित्युक्तमिति तत्राह-अर्थवादेति । आपो वै शान्ता इत्यादीनां स्तुत्यर्थेन प्रामाण्यस्य प्रतिपादितत्वात्, तेनैव प्रामाण्यस्य प्रतिपादनेन परिहृतमित्यर्थः । नन्वर्थवादभावाभावयोः विधेरेव प्रवर्तकत्वात् किमर्थवादप्रामाण्याभ्युपगमे- नेत्याशङ्कयाभ्युपगम्याप्यर्थवादिकफलकल्पनादेरर्थवादप्रामाण्याधीनत्वात् प्रयो- जनवदेवार्थवादप्रामाण्यमिति मत्वाधिकरणार्थमुपसंहरति-इतीति ॥ १८ ॥ त० वा०-यथैव वाङमनसयोर्निन्दा हिरण्यस्तुत्यर्था तथा शुद्धपृथिवीनिषेधः प्रक्लृप्तावर्थवादः स्याद् इत्येवं हिरण्यनिधानस्तुत्यर्थः, न प्रतिषेधमात्रफलः । नान्तरिक्षे न दिवीत्यौचित्येन शुद्धपृथिवीनिषेधसमर्थनायैव यथान्तरिक्षे दिवि वा वयनं न प्रसिद्धम्, तथा हिरण्यरहितायां पृथिव्यामिति स्तवनम् । अनित्यसंयोगो गतार्थः परं तु श्रुतिसामान्यमिति । प्रयोजनं रात्रिसत्रे पूर्वपक्षे स्वर्गः फलं स्यादिति सिद्धान्ते त्वर्थवादस्थमेव फलम् ॥ १८ ॥ न्या० सु०—अभागिप्रतिषेधपरिहारे स्तेयानृतवादार्थवादन्यायातिदेशार्थत्वेन यथोक्त- पदव्याख्यानार्थं पृथिव्यादीनामिति भाष्यम् । तत्र हिरण्यं निधायेत्यनेन पृथिव्याधारस्यैव हिरण्यस्य विधेः पृथिवीनिन्दानुपपत्तिमाराङ्क्य व्याचष्टे—यथैवेति । एवमपि शुद्धपृथिवी- निन्दामार्थेण हिरण्यस्तुतिसिद्धेरितरनिन्दानर्थक्यादादिशब्दानुपपत्तिमाराङ्कयाह—नान्त- रिक्ष इति । एतदेव विवृणोति—यथेति । अनित्यसंयोगपरिहारार्थत्वेन यथोक्तपदव्याख्या- नार्थं यच्चेति भाष्यं व्याचष्टे—अनित्यसंयोग इति । प्रकर्षेण वहतीति कर्त्तरि प्रावाहणि- शब्दव्युत्पत्तिसम्भवात् बबरशब्दस्य च शब्दानुकृतित्वेन नित्यवायपरत्वोपपत्तेर्नाप्रसिद्ध- प्रवाहणाख्यपुरुषकल्पनेन तदपत्यपरता नित्यानित्यसंयोगविरोधापादिका कल्पनीयेति भावः। प्रयोजनकथनम् ननु विध्युद्देशप्रामाण्यमात्रेणांशत्रयोपेतभावनानुष्ठानसिद्धेरनर्थवादप्रामाण्यचिन्ता निष्प्र- योजनेत्याशङ्कयाह—प्रयोजनमिति । एतच्चोपलक्षणार्थम् । ‘अक्ताः शर्करा’ इत्यत्र सन्दिग्धनिर्णयस्याश्वप्रतिग्रहेष्टयां व्यवधारणकल्पनस्य, वमनेष्टयां च वैदिकसोमवमन- निमित्तकत्वस्य, अष्टावुपभृति गृह्णातीत्यत्र चतुष्ट्वद्वयकल्पनस्य, ज्योतिष्टोमशब्दस्य सोमयाग- परत्वस्य धाय्यानां च समिध्यमानवती समिद्धवत्यन्तरालनिवेशस्य, सोमं विद्वा प्रजानां

१९ ] प्रथमाध्याये द्वितीयपादः १२९ चावश्यकत्वस्य, द्वयोः प्रणयन्तीत्यस्य च मध्यमपर्वद्वयविषयत्वस्यार्थवादप्रामाण्याधीन- त्वात् ॥ १८ ॥ इति सर्वानवद्यायां न्यायसुधायामर्थवादाधिकरणम् । भा० प्र०—अप्रसक्त का प्रतिषेध होने मे "नान्तरिक्षे अग्निश्चेतव्यः" इत्यादि अर्थवाद वाक्य अप्रामाणिक हैं, इस प्रकार की आपत्ति के परिहार के लिए "विधिना त्वेकवाक्यत्वात्" इत्यादि सूत्रों को कहा गया है । "नान्तरिक्षे अग्निश्चेतव्यः" इत्यादि अर्थवाद "हिरण्यं निधाय चेतव्यम्" (तै० सं० ५।२।६।१) अर्थात् स्वर्ण रखकर उसके ऊपर अग्नि का चयन करना चाहिए, यह विधि का शेष या अङ्ग है। अन्तरिक्ष में चयन निषेध नित्यानुवाद अर्थात् नित्यसिद्ध विषय का कथन मात्र है। क्योंकि, अन्तरिक्ष में या द्युलोक में अग्नि के चयन की सम्भावना नहीं है, "बबरः प्रावहणिः" इत्यादि वाक्यों का दृष्टान्त देकर जो अप्रामाण्य की आशङ्का की गई है, वह भी सङ्गत नहीं है, क्योंकि, जननमरणशील किसी व्यक्ति के विषय में यह नहीं कहा गया है। "स्वयं तु श्रुति सामान्यमात्रम्" (मी० द० १।१।३१) इस सूत्र में कहा गया है। इसलिए अर्थवाद वाक्यों के प्रामाण्य स्वीकार करने में किसी प्रकार की बाधा नहीं है। अन्त्ययोः = अन्य दो आपत्तियों के परिहार में, "यथा उक्तम्"=जो कहा गया है। अवशिष्ट दो आपत्तियों के परिहार में जैसा समाधान कहा गया है, यही इसमें भी समझना चाहिए ॥ १८ ॥ द्वितीयमौदुम्बराधिकरणम् विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् ॥ १.२.१९ ॥ शा० भा०—इह ये विधिवन्निगदा अर्थवादास्ते उदाहरणम् । 'औदुम्बरो यूपः, भवत्यूर्गवा उदुम्बर, ऊर्कं पशव, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जाऽवरुद्ध्यै [तै० सं० २-१-१ ६] इति । किमस्य विधिः कार्यम्, उतास्यापि स्तुतिरिति ॥ किं तावत्प्राप्तम् । विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् । विधिवन्नि- गदेष्वेवंजातीयकेषु फलविधिः स्यात् । फलं ह्यवगम्यते । तथा ह्यपूर्वमर्थं विधास्यति । इतरथा स्तुतिवादमात्रमनर्थकं स्यात् । स्तुतश्चास्तुतश्च तावानेव सोऽर्थः । अपि च ऊर्जाऽवरुद्ध्यै इति प्रयोजनं श्रूयते । न च प्रशस्तोऽयमर्थ इति कश्चिच्छब्दोऽस्ति । लक्षणया तु स्तुतिर्गम्येत । श्रुतिश्च लक्षणाया ज्यायसीति ॥ १९ ॥ भा० वि०—सामान्येनार्थवादानामानर्थक्यनिरासेन स्तुतिलक्षणया विध्येक- वाक्यत्वेन प्रामाण्ये साधिते, तेष्वेव केषुचित् विधित्वेनैवार्थवत्त्व- ९

सूत्रावयवं प्रकारान्तरेण व्याकुर्वन् हेत्वन्तरमाह—अपि चेति । एवं कामपदा-

१३० मीमांसादर्शनम् [ सू० संभवे किमिति स्तुत्यर्थत्वेनार्थवत्त्वमाश्रीयत इत्याशङ्क्यार्थवादत्वमेवानेन स्थिरीक्रियत इति सङ्गतिं मत्वा विषयं विविच्य दर्शयति— इहेत्यादिना । ये विधिवन्निगद्यन्ते अर्थवादाश्च ते तथा चिन्ताप्रयोजनं तु फलविधिसरूपाणां स्तुत्यर्थत्वेनार्थवादत्वसिद्धिरत्रापूर्वत्वैकवाक्यत्वाभ्यां संशयमाह—किमिति । अस्येति जातावेकवचनम् । अथवास्योदाहरणस्य विधिरज्ञातज्ञापनम्-अस्यापीति । वायुर्वे क्षेपिष्ठेत्यादि- वदित्यर्थः, कतरदत्र युक्तिमदिति जिज्ञासमानं प्रति पूर्वपक्षसूत्रमादत्ते—किमित्या- दिना । विधिः स्यादिति सामान्यनिर्देशेन फलविधिसरूपाणां सर्वेषामप्युदाहरण- त्वमभिमतमिति सूचयन् व्याचष्टे—विधिवदिति । अवधारणार्थेन वाशब्देन सूचितं हेतुमाह-फलं हीति । यथा हि गम्यमानत्वात् स्तुतेस्तत्परत्वमर्थवादानाम्, तथा फलस्यापि गम्यमानत्वात् तादर्थ्यमेवैतेषामित्यर्थः । ननु फलस्य गम्यमानत्वं स्तुत्यर्थतयापि स्यात् इत्याशङ्क्याह—पूर्वत्वा- दिति । व्याचष्टे - तथेति । तथा सति पूर्वं प्रमाणान्तरमस्य न विद्यते इत्यपूर्व- मनन्यलभ्यमर्थं विधास्यति=प्रतिपादयिष्यति । स्तुतेर्विध्युद्देशादप्याक्षेपात् फलस्य चानन्यलभ्यत्वात् तद्विधित्व एव प्रमाणान्तरापूर्वार्थत्वमित्यर्थः स्तुतिश्च सिद्धार्थ- कथन रूपत्वाद्वादमात्रम्, नाज्ञातज्ञापकं तच्चानर्थकमित्यर्थः, आनर्थक्ये हि शब्द- सूचितं हेतुं व्याचष्टे—स्तुतिश्चेति । न हि पर्णमयीत्यादौ स्तुतत्वेन स्तुतित्व- मभ्युपगच्छताऽपूर्वार्थत्वमपि नेष्यत इत्याशङ्क्य प…………कश्चिदतिशयोऽस्तु तत्त्वेन वा निष्कर्षो दृश्यते, तेन प्रवृत्तावपि न विशेष इति भावः । अपूर्वत्वादिति सूत्रावयवं प्रकारान्तरेण व्याकुर्वन् हेत्वन्तरमाह—अपि चेति । एवं कामपदा- भावेऽपि तादर्थ्यं चतुर्थ्या स्फुटं फलावगमादित्यर्थः । ननु वायुर्वा इत्यादौ प्रशस्तोऽयमिति पदाभावेऽपि स्तुतिस्तद्वत् किं न स्यादत आह—लक्षणयेति । इह च श्रुत्यर्थसंभवान्न लक्षणा युक्तेत्याह—श्रुति- श्चेति । अनेन लक्ष्यमाणस्तुतेर्वाच्यार्थपूर्वकत्वाद्वाच्यार्थस्य फलस्यानन्यपूर्वत्वाद- पूर्वशब्देन पूर्वमर्थान्तरमस्य न विद्यते इति श्रौतार्थलाभोऽभिसंहित इति सूत्रं व्याख्यातम् ॥ १९ ॥ त० वा०—एवमानर्थक्योपाख्यानादिप्रतियोगिष्वर्थवादेषु व्याख्यातेष्विदानीं विधिप्रतियोगिनो विचार्यन्ते । कुतः संशयः ? पूर्वत्र हि स्वार्थानुपयोगित्वेन दूरलक्षितस्तुतिग्रहणमङ्गीकृतम् । तत्संभवे तु स्तुतिरप्यनर्थकतुल्याऽऽपद्यते । विध्यंशश्च न कथंचनान्यस्मात्सिध्यति । प्ररोचना पुनः कथंचिद्विध्युद्देशादप्युप- पद्यत इत्युक्तं पुरस्तात् । अपि च प्रधानं विधिः, अङ्गं स्तुतिः, तत्र प्रधानविशे- षणसंभविनस्तद्गामित्वमेव युक्तम् । समाप्ते च विध्युद्देशे, अर्थवादः प्रवर्तते,

१९ ] प्रथमाध्याये द्वितीयपादः १३१ तत्प्रक्रमावस्थायामेव तु भावनांशाः संनिपतन्ति । विशेषेण तु फलं प्राथम्य- प्राधान्याभ्यामित्यादि मन्वानोऽपूर्णत्वादिति वदति । तदपेक्षया च स्तुतिमात्र- मनर्थकं मन्यते । ननु चैवं जातीयकः फलविधिरुतार्थवाद इति विचारश्चतुर्थेऽपि 'द्रव्यसंस्कार- कर्मसु' (जै० ४।३।१) इति भविष्यति । अतो नेह प्रस्तोतव्यः । तत्र केचिदाहुः अनेन गतार्थत्वात्तत्रैवैष पर्यनुयोगो युज्यते, न त्विदं पुनरुक्त- मिति । सत्यमेवम्, यदि तु तत्कालप्रतीक्षणात्किचित्परिहारान्तरं लभ्यते अतस्त- त्रान्विच्छेम । अथ पुनरिहैव शक्यते वक्तुम्, तथा संतीदानीमप्युच्यमाने मन्दो दोष इति । अत्रापरे वदन्ति तेन फलविधित्वनिराकरणमात्रपरमेव प्रष्टव्यम् । तदयुक्तम् । यतस्तेन फलविधित्वात्प्रच्यावितानामानर्थक्यप्रसक्तौ पूर्वाधिकरणेनैव स्तुत्यर्थता साधिता । तथा च दर्शितं शोभतेऽस्य मुखमित्यादिषु । केचित्पुनराहुः युक्तं 'वायुर्वे क्षेपिष्ठेत्यादोनाम्' स्तुतित्वम् । ऊर्जोऽवरुद्ध्यै इति पुनर्यथा फलविधित्वात्प्रच्याव्यते, तथैव विसंवादेन स्तुतित्वादपीति कामं विधिर्भवतु, येन कालान्तरभावित्वेन कथञ्चिद्विसंवादो निवर्त्तत इत्यारम्भः । तदप्ययुक्तम् । अपि च वेदे व्यक्तमसंवाद इति ह्यभ्युच्चयहेतुरपुनरुक्तः स्यात् । अधिकरणशरीरं तु तदेव । विसंवादोऽपि च गुणवादस्त्वित्यनेन न कश्चिद- परिहृतः । पुनरपि च तावन्मात्रमेवोत्तरं भविष्यति । तस्माद्विधिर्वा स्यादित्य- विशेषोपादानाच्चतुर्थे च फलश्रुतिग्रहणादिहाशेषद्रव्यगुणक्रियादिविधिसरूपाः तत्र फलविधिसरूपा एवोदाहरणमित्यपरे । तथा च विधिश्चानर्थकः क्वचित्प्रकरणे च संभवन्निति चाप्सुयोनिर्वा अश्वोऽप्सुजो वेतशो यो विदग्ध इति चोदाह्रियते । अन्यथा फलविधिमात्रो- पन्यासे तदसंबद्धमेव स्यात् । इहापि तस्य तावद्विशेषविषयत्वादिदमगतार्थं भवेत् । अनेन तु सामान्यतः सर्वविषयावरोधिना तत्पुनरुक्तमेवेति व्यवस्थया केचिदुदाहरन्ति अत्र द्रव्यादिविधीनेव तत्र फलविधीनेव, भाष्यकारोदाहरणम- तन्त्रीकृत्योदाहरणान्तरं दातव्यमिति । अस्मिन् विषये वार्तिकमतम् अत्र वदामः । किमधिकरणद्वयमवश्यारब्धव्यम्, येनैवमुदाहरणव्यवस्थाऽऽ- श्रीयते । न ह्युदाहरणभेदादधिकरणं भिद्यते । मा भूद्यथाव्यवस्थितेऽपि खादिरो- दुम्बरत्वभेदादपौनरुक्त्यम् । न्यायविषयत्वेन त्वधिकरणानां तद्भेदे एवापौनरुक्त्ये हेतुः । द्रव्यादिविधयोऽपि न सर्वे विचारिताः । केचित्तत्सिद्धिसूत्रे' केचिन्निन्वीता-

१३२ मीमांसादर्शनम् [ सू० द्यधिकरणेषु, परकृतिपुराकल्पद्वारेणान्ये षष्ठे, यहचा स्तुवत इत्यादयोऽर्थैकत्वादि- कल्प इति नवमे, जर्तिलगवीधुकविधिरूपा दशमे, अतश्च न पुनरुक्तता महान् दोष इत्येव वक्तव्यम् । अथ वैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इति पुनरारम्भः । स्पष्टं वा विषयनानात्वमेवं वर्णनीयम् । सर्वविधिसरूपाणां केवलं विधित्वनिराकरणे- नार्थवादत्वमिह सिद्धम् । यस्तु चतुर्थे पुनरारम्भः सोऽर्थवादकल्पिते विधौ फलाकाङ्क्षावेलायामन्यार्थोपात्तमपि क्रतुप्रयागवचनात्तदेव सन्निहिततरं क्लृप्त- संबन्धस्य च विशेषमात्रं सुकरम् । इतरथा संबन्धस्तद्विशेषश्चोपकारकत्वं कल्पनीयमिति रात्रिसत्त्रप्रतिष्ठादिवत्फलविधित्वमपीति पूर्वपक्षाभिप्रायः । कथ- ञ्चित्प्रयोजनान्तरे लभ्यमाने नैकस्यानेकार्थता युक्ता । तस्मादर्थवादत्वमेवेति सिद्धान्तः । एतेन निवीताद्यधिकरणानि व्याख्यातानि । अथ वोदुम्बराधिकरणपूर्वपक्षं कृत्वा चिन्तास्ता प्रत्येत्तव्याः । विधित्वाभ्युप- गमेन हि कस्य शेषः क्रतोः पुरुषस्य वेत्यादि विचार्येह सिद्धेनार्थवादत्वेनोप- संहारः । तथा परकृतिपुराकल्पयोः किं तद्गोत्राणामुत सर्वपुंसामिति चिन्ति- तम् । एवमूहबाधमसङ्गेन नवमदशमगता चिन्ता । तत्सिद्धिसूत्रे तु गुणवाद- निमित्तमात्रकथनम् । अथ वा फलविधावेव यत्र भेदेन स्तुतिफलपदानि भवन्ति, तदिहोदाहरणम् । यथाऽत्रैवौर्गदुम्बर ऊर्क, पशव इत्येतैरेव स्तुतिः, ऊर्जोऽवरुद्ध्यै इत्यनेन फलमिति । यत्र पुनस्तावन्मात्रेणैव फलं वा स्तुतिर्वा वक्तव्येति भवति ते चतुर्थं इति । अथ वा तत्र परार्थत्वादिति हेतुव्यपदेशात् प्रसिद्धेन च हेतुना व्यवहाराद्ये विज्ञातपारार्थ्यास्त उदाहरणम् । यथा 'यस्य पर्णमयी जुहूर्वि'ति । अत्र ह्यवश्यं जुह्वनुवादेन पर्णमयीत्वं विधातव्यम्, स्वातन्त्र्येण फलसम्बन्धाशक्तेः । सर्वत्र हि गुणः फलाय चोद्यमानः कश्चिदाश्रयमपेक्षते । न च प्रकरणमन्तरेणाऽऽश्रयप्राप्तिः । तदिह यदि पर्णमयीत्वेन फलं भावयेदिति वचनं व्यज्येत, किमाश्रितेनेत्यपेक्षायां किं संबध्यताम् ? जुहूरिति चेन्न । वाक्यभेदप्रसङ्गात् । साऽपि च प्राक्क्रिया- लाभान्नैव निराकाङ्क्षीभवति । न च क्रियासम्बन्धे प्रमाणमस्ति । तस्मादनिर्व- र्हणादेतद्वचनव्यक्तिपरित्यागेनेतराश्रयणम् । तत्र च जुह्वा जुहोतीत्यस्याः प्रकरणे निर्ज्ञातप्रयोजनत्वाद्विहितजातिविशेषायास्तदाकाङ्क्षायां सत्यां यावदेव पर्णत्व- जातिरुपनीता तावदविज्ञातप्रयोजनावस्थत्वादङ्गतां प्रतिपद्यते । ततश्च निरा- काङ्क्षीभूतायास्तस्मिन्नेव वाक्ये फलकल्पनानिमित्तं नास्तीति युक्तमर्थवादत्वम् ।

. १९ ] प्रथमाध्याये द्वितीयपादः १३३ इह पुनर्वैकृतपशू प्रकरणे श्रूयमाणमौदुम्बरत्वमुदाह्रियते । न च तस्य प्रसिद्धं पारार्थ्यम्, येन चतुर्थाधिकरणविषयता भवेत् । कथम् ? अत्र हि न तावदप्राप्ते यूपे जातिविधानं शक्यम् । तत्प्राप्तिश्चेदवश्यं कॢप्तोपकारप्रकृतत्वादिनैव निरा- काङ्क्षेण भवितव्यम् । तत्कुतो जात्यन्तरस्य तादर्थ्येन विधिः, अतः फले विधानम् । याऽपि चाऽऽश्रयापेक्षा, साऽपि प्राकृतकर्मसंबन्धिचोदकप्राप्तयूपग्रह- णान्निवर्तत इत्यविघातः । तेन प्रागेव पारार्थ्यात्फलसंबन्धप्रसक्तिरवश्यं न्याया- न्तरेण निराकर्तव्येत्येतदधिकरणारम्भः । इदमपरं मतम् । औदुम्बरवाक्यं जुह्वादिवाक्यं चोभयमुभयत्रोदाहरणम् । कथम् ? भावनांशान्तरविचारादपौनरुक्त्यम् । साध्यसाधनसंबन्धस्तावद् द्वयोरपि योग्यत्वेनोपात्तयोरवकल्पते, नान्यथा । तत्र चतुर्थे साधनांशयोग्यविचारमना- हृत्याभ्युपेत्य वा केवलसाध्यांशविचारः । किमीदृशेन कामशब्दोपबन्धरहितेन वर्तमानफलसंबन्धाभिधायिना फलत्वं शक्यते गमयितुम्, न वेति विचारः । इह पुनः साध्यांशमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः । किमीदृशेन विधि- विभक्तिरहितेन द्रव्यगुणक्रियाः कंचित्प्रति साधनत्वेन प्रतिपाद्यन्ते नेति । यच्च यदात्मना प्रतिपादितं भवति, तत्प्रतियोगिविशेषापेक्षं सत्पदान्तराद्युपात्तेन तेन संबध्यते । तत्र साध्यमित्यवधृते परिशेषादवशिष्टं साधनं गम्यते । एवं साधना- वधारणेऽपीति द्वावप्यंशौ स्वरूपेण निरूपयितव्यौ । तदिह साधनांशे विचार्यमाणे यो नाम फलांशस्य संस्पर्शः, स चतुर्थे सिद्धः प्रसङ्गाद्धेतुत्वेनेति मन्तव्यः । तथा यस्तत्र साधनांशपरामर्शः, स इह सिद्धस्तत्र प्रसङ्गादित्यपुनरुक्तम् । नन्वेवं सति विध्युद्देशचिन्तेयमित्यर्थवादाधिकरणेन न संबध्यते । नैष दोषः । तद्देशेनैवार्थपरिच्छेदात् । यदि ह्यसौ विधीयमानतया पूर्वेणावगतः, ततो नार्थवादत्वमथ स्तुत्यर्थतया ततोऽर्थवादत्वमिति । तत्र पूर्वपक्षाभिप्रायः । सर्वथा साध्यसंनिधाने यदुच्चरितम्, तदाकाङ्क्षावशेन तद्रूप्येणानुपात्तमपि साधनं भवति । यथैव यागेनेत्यनुदितं संबध्यते, तथैवौदुम्बरेणेति । तत्र विधिः किं कुर्यात्पुरुषं प्रवर्तयेत् । स च फलार्थितयैव प्रवृत्त इति किं विधिना । अथ वा प्रयोगवचनविहितस्य फलसंबन्धमात्रमनेन क्रियते । पञ्चमो वा लकारो विधास्यति । अर्थवादैकदेशो वेत्युक्तमेव । तस्मादूर्जोऽवरुद्ध्या इति तादर्थ्यचतुर्थ्यैवैनं कामशब्दादपि स्फुटतरं फलमुपात्तमिति तस्मिन्नौदुम्बरता- विधिः । न तु फलस्य विधानमिति ग्रहीतव्यम्, भावार्थाधिकरणे फलविधिनिषेधात् । ऊर्गुदुम्बर इत्यतः स्तुतिरित्यविरोधः । तस्मान्मुख्यविधिसंभवे लक्षणया न स्तुतिः प्रतिपत्तव्येति ॥ १९ ॥

१३४ मीमांसादर्शनम् [ सू० न्या० सू०—विषयविवेकार्थमिहेतिभाष्यं व्याख्यातुमाह—एवमिति । आनर्थक्यम्, उपाख्यानम् । आदिशब्दोपात्तं चादृष्टार्थत्वं प्रतियोगि = विरोधि येषां तेष्वित्यर्थः । एतच्च पूर्वेणाध्यायषट्केन प्रत्यक्षविदितधर्मकेषु दर्शपूर्णमासादिषु व्याख्यातेषु इदानीमविहितेति- कर्तव्यताकेष्वैन्द्राग्नादिषु चिन्तयितुमिष्यत इतिसप्तमाध्यायभाष्यवत्सर्वेष्वर्थवादेष्वा- नर्थक्यादिप्रतियोगित्वेन व्याख्यातेषु यथासम्भवं केषुचिद्विधिप्रतियोगितेदानीं विचार्यत इति विशेषणपरं व्याख्येयम् । पूर्णाहुत्याद्यर्थवादानां विधिवन्निगदार्थवादानामपि व्याख्यातत्वात्किमस्येति सन्देहभाष्यं पूर्वपक्षासम्भवेनाक्षिपति—कुत इति । सन्देहसमर्थं चतुर्द्धा पूर्वपक्षं सम्भावयति—पूर्वत्र हीति । श्रौतत्वमनेन विधित्वाङ्गीकरणे कारणमुक्तम् । अनन्यलभ्यत्वाच्च विधिरित्याह— विध्यंशश्चेति । इत्युक्तमिति । विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्याम इत्यत्रेत्यर्थः । प्रथा- नत्वादपि विधिरित्याह—अपि चेति । विशेषणशब्देनाङ्गमुक्तम् । प्रधाने, विशेषणे च यत्सम्भवति, तस्येत्यर्थः । प्राथम्यादपीत्याह—समासे चेति । फलरूपश्चात्र भावनांशो विधेयोऽभिप्रेतः, तस्य च सर्वादौ निवेशः प्रथमाकाङ्क्षणादितरयोस्तु तादर्थ्येन तस्यैव प्राधान्यादित्याह—विशेषेण त्विति । आसामुपपत्तीनां सूत्रकाराभिमतत्वं दर्शयितुमाह— इत्यादीति । श्रौतस्यार्थान्तरपूर्वत्वाभावादनन्यलभ्यस्य चानन्यकारणकत्वात्प्रधानस्य विधेयान्तरापेक्षाभावादपूर्वशब्दे न लक्षणा । प्राथम्यं तु न विद्यतेऽस्मात्पूर्वमिति बहु- व्रीहिणा बोध्यते । आदिशब्देन त्वर्थान्तरपूर्वत्वाभाव एवोच्यते । ननु स्तुतेरपि पूर्वाधिकरणे अर्थवत्त्वोपपादनादानर्थक्याभिधानमयुक्तमत आह—तदपेक्ष- येति । पौनरुक्त्यमाशङ्कते—ननु चेति । एकस्यार्थस्याद्विरुक्तत्वानर्थक्येऽप्यस्य प्राथम्यादपुनरुक्ततेत्येकेषां समाधानमाह— तत्रेति । अस्याधिकरणस्य पौनरुक्त्याभावेऽप्यानर्थक्यापरिहारेऽप्याकुलीभावेन श्रोतॄणा- मर्थानवधारणापत्तेर्विलम्बोऽनुचित इत्येतत्समाधानं दूषयति—सत्यमेवमिति । श्रोतृचित्त- समाधानायापौनरुक्त्ये परिहार्ये प्राप्ते चतुरः प्रकारानुपन्यस्य दूषयति — तत्र । इत्यादिना पूर्वाधिकरणेनैवेत्यनेन फलविधिसुरूपाणामपि पूर्वाधिकरणविषयत्वं दर्शितम्—तथा च । इत्यनेनैतदेवं पूर्वाधिकरणोदाहृतफलविधिसरूपार्थवादनिदर्शनेन स्फारितं पूर्वोक्तस्याप्यर्थ- वादत्वस्य विसम्वादेनेहासम्भवादानर्थक्यपरिहाराय पर्णमय्यधिकरणनिराकृतस्य फलविधि- त्वस्य प्रतिप्रसवशङ्कां निराकर्तुमेतदधिकरणमिति प्रकारान्तरमुपन्यस्य निराचष्टे— केचिदिति । शरीरस्येन्द्रियाधिष्ठानत्वेन प्राधान्यादुपचारात्प्राधान्येनाधिकरणप्रतिपाद्यं शरीरशब्देनोक्तम् । तत्र पर्णमय्यधिकरणशरीरादभिन्नमित्यर्थः । अभ्युच्चयहेतुत्वे कारणम्— विसम्वादोऽपि च । इत्यनेनोक्तम् । सर्वविधिसरूपविषयत्वादस्य फलविधिसरूपमात्रविष- येण पर्णमय्यधिकरणेनापौनरुक्त्यमिति । प्रकारान्तरमाशङ्कते — तस्मादिति । निरस्य-

१९ ] प्रथमाध्याये द्वितीयपादः १३५ तोहापीति । फलविधिसरूपांशेनास्यापि तेन गतार्थत्वमपरिहार्यमिति तावच्छब्देन सूचितम् : एतद्दोषपरिहारार्थं फलविधिसरूपव्यतिरिक्तानामेवात्रोदाहरणत्वमिति प्रकारान्तरमाशङ्कते- इति व्यवस्थयेति । हेतावितिकरणत्वं निरस्यति - अत्र वदाम इति । ननूदाहरणभेदस्याधिकरणभेदाक्षेप- कत्वाद्वारभ्यमेवाधिकरणद्वयमित्यत आह-न हीति । किं तर्ह्यधिकरणभेदाक्षेपकमत आह- न्यायेति । न चास्य फलविधिसरूपव्यतिरिक्तसर्वविधिसरूपविषयतास्तीत्याह - द्रव्यादि- विधयोऽपीति । कुत्र विचारिता इत्यपेक्षायामाह - केचिदिति । एवं पौनरुक्त्येनाधि- करणारेम्भे दूषिते पौनरुक्त्यं परिहर्तुमशक्नुवतां मतेनारम्भं तावत्समाधत्ते - अतश्चेति । यथैव चतुर्थे 'सह शाखया प्रस्तरं प्रहरतीति' शाखाप्रहरणस्य प्रतिपत्त्यर्थकर्मत्वसन्देहे तृतीयाया अर्थकर्मत्वे प्राप्ते, सहयोगनिमित्तवात्तृतीयायां द्वितीयावगतप्राधान्यप्रस्तरसाह- चर्याच्छाखाया अपि प्राधान्यावगतेः प्रतिपत्तित्वे सिद्धान्तिते द्वितीयायाः प्राधान्यव्यभि- चारशङ्कापरिहारार्थयोरर्थेऽपीति चेन्न, तस्यानधिकारात् । फलस्याधिकृतत्वादितिसूत्रयोः सक्त्वधिकरणगताभ्यां सूत्राभ्यां द्रव्योपदेश इति चेन्न । तदर्थत्वाल्लोकवत्त्स्य च शेषभू- तत्वाद्दिति' सूत्राभ्यां पौनरुक्त्यमाशङ्क्य नातीव पुनरुक्तता महान् दोषः। बहुकृत्वोऽपि पथ्यं वदितव्यमिति परिहारं भाष्यकारो वक्ष्यति । तथैवात्रापि वक्तव्यमित्यर्थः । वार्तिकमतेन पौनरुक्त्यपरिहारः स्वयमिदानीं चतुरः पौनरुक्त्यपरिहारप्रकारानाह-अथ वेति । एकस्यैव साध्यसाधन- सम्बन्धाभावप्रतिपादनन्यायस्यात्र साधनांशः, तत्र साध्यांशः साध्यत इत्यर्थः । द्वितीयं प्रकारमाह-स्पष्टं चेति । सर्वविधिसरूपाणामिति । फलविधिसरूपाणां पर्णोदुम्बराद्यर्थ- वादानाम्, 'यजमानः प्रस्तर' इत्यादीनां च द्रव्यविधिसरूपाणाम्, विदग्धादीनां च गुणविधि- सरूपाणाम्, माषपाकादिविषयाणां च क्रियाविधिसरूपाणाम् 'आग्नेयो वै ब्राह्मण' इत्यादीनां देवताविधिरूपाणां केवलार्थवादनिरपेक्षविधिनिराकरणेनेत्यर्थः । फलादिसम्बन्धोत्तरकालमर्थवादान्वयात्पर्णोदुम्बरतादावार्थवादिकफलकल्पनमशक्यं पूर्वपक्षयितुमित्याशङ्कयार्थवादकल्पिते विधावित्युक्तं क्लृपू सामर्थ्यं इति धातोर्घञन्तात्कृपो रो ल (पा० सू० ८।२।१८) इति लादेशे कृते तत्करोति तदाचष्टइति समर्थं करोतीत्यस्मि- न्नर्थे णिचमुत्पाद्य निष्ठायां कल्पित इति रूपम् । तेनार्थवादेनाङ्गभूतेन विधौ प्रवृत्त्युत्पादन- समर्थे कृते विधिसामर्थ्येनायँवादान्वयात्प्रागेवाकाङ्क्षस्य फलस्यानिर्द्धारितविशेषस्य विशेषा- काङ्क्षावेलायामित्यर्थः । यथाय्यनभावनायां फलाश्रवणेऽपि विधिसामर्थ्यात्किञ्चित्समीहितं फलं भावयेदित्यनिर्द्धारितविशेषफलान्वयेऽवधारिते वेदाध्ययनरूपकरणान्वयोत्तरकालं योग्य- तयार्थज्ञानरूपफलविशेषनिर्द्धारणमविरुद्धम् । तथात्रापीति भावः । अन्यार्थेति । विहितपर्णो- दुम्बरतास्तुत्यर्थमित्यर्थः । फलविधित्वमपीत्यपिशब्देनोदुम्बराधिकरणसिद्धार्थवादत्वाङ्गी-

१३६ मीमांसादर्शनम् [ सू० करणेन तदाक्षिप्तफलविधिप्रतिपादनाद्विध्यर्थवादसमुच्चयेन पर्णमय्यधिकरणपूर्वपक्ष इत्यु- क्तम्--अर्थवादत्वमेवेति । केवलार्थवादत्वेन सिद्धान्तो दर्शितः । निवीताद्यर्थवादानामपि सिद्धवत्कीर्त्तनान्यथानुपपत्त्या विध्याक्षेपकत्वात्समुच्चयेन पूर्वपक्षं कृत्वा, विक्षेपे प्रकरणादुत्कर्षापत्तेः । तस्य च केवलार्थवादत्वेन प्रकरणानिवेश- सम्भवोपपत्तेः । केवलार्थवादत्वेन सिद्धान्तो निवीताद्यधिकरणेषु करिष्यत इत्याह-- एतेनेति । कृत्वा चिन्तात्वेन वा तेषां पुनरारम्भ इत्याह--अथ वेति । परकृतिपुराकल्पाधि- करणमपि कृत्वा चिन्तेत्याह--तथेति । इति ह स्माह वटुकुर्वाष्णिर्माषान्मे पचत न ह वा एतेषांऽहविगृ॑ह्णन्तीत्येककर्त्तृ॑कमुपाख्यानं परकृत्याख्यम् । उल्मुकैर्हस्मपूर्वे समाजग्मुस्तान- सुरा रक्षांऽसि निज्ज॑घ्नुरिति चानेककर्त्तृ॑कमुपाख्यानं पुराकल्पाख्यमुदाहृत्य किमिमौ माषपाकोल्मुकसंयोगविधी उतारण्याशनगृहपत्यग्निर्वापस्तुत्यर्थौ निन्दार्थवादाविति सन्दिह्यार्थवत्त्वाद्विधी इति पूर्वपक्षमङ्गीकृत्य परकृत्युदाहरणे किं सर्वेषामेव दर्शपूर्णमास- याजिनाम्मौपवसथ्याहे माषभोजनं विधीयते वृष्णिगोत्राणामेव वेति चिन्तयिष्यते । तत्र वार्ष्णिशब्देन वृष्णिगोत्रविशेषसम्बन्धितया भोजनार्थं माषपाककीर्त्तनात्तदन्यथानुपपत्त्या विधिः कल्प्यमानो न सर्वविषयः कल्पयितुं शक्यत इति । पश्चाद्वत्तद्व्यवस्थेति प्राप्ते, विशिष्टपुरुषाचरितत्वेन माषस्तुत्यर्थतया वार्ष्णिसम्बन्धकीर्त्तनोपपत्तेर्विशेषविधित्सायां वार्ष्णिवद्व्यतिरिक्तानां वृष्णिगोत्राणामपि विधानापत्तेः सर्वेषामेव दर्शपूर्णमासयाजिना- मारण्यभोजनादिना सह वैकल्पिकं माषभोजनं विधीयत इति पक्षान्तरमुक्त्वा 'तस्मादारण्य- मेवाश्नीयादिति विध्यन्तरैकवाक्यत्वेनारण्यान्नस्य प्रशस्ततरत्वद्योतनार्थं जर्त्तिलयवाग्वादि- वन्निन्द्यानामपि माषाणां स्तुतिरिति सिद्धान्तयिष्यते । पुराकल्पोदाहरणेऽपि गृहपतेरेवाग्निषु निर्मन्ध्य निर्वपेरन्निति विध्यन्तरैकवाक्यत्वेन निर्मन्थिताग्निसंसर्गस्तुत्यर्थमुल्मुकसंसर्गे निन्दोपपत्तेर्न निन्दाकल्पनिषेधबलेन प्रापकविधि- कल्पनं पूर्वमहर्ष्याचरितत्वेन वा पृथग्विधिकल्पनं युक्तमिति सिद्धान्तः करिष्यते । यद्यदा- चरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायात् । पूर्वाचरितोपन्यासेन विधिकल्पनमित्येवंविध- पूर्वपक्षसाम्यमात्रेणानयोर्दाहरणयोः साहचर्यम्, न तु पुराकल्पोदाहरणे कृत्वा चिन्ता का चिदस्ति । तस्मात्परकृतिपुराकल्पयोर्मध्ये एकस्मिन्परकृत्युदाहरणे कृत्वा चिन्तेति निर्द्धा- रणे सप्तमी व्याख्येया । अर्थैकत्वजर्तिलाधिकरणयोः कथं निवेशोऽत आह—एवमिति । सापि कृत्वा चिन्तेत्यर्थः । चिन्तान्तरस्य तत्राभावात्, कृत्वा चिन्तानुपपत्तिमाशङ्क्याह— बाधप्रसङ्गेनेत्युक्तम् । यद्यपि तत्र चिन्तान्तरं न कृतम्; तथापि सामोहोपोद्घातप्रसक्तानुप्रसक्त्या यदृचा स्तुवत. इति विधिरर्थवादो वेति चिन्तायाः करिष्यमाणत्वात्तदुपयोगितया विधिपक्षे किमति- देशप्राप्तस्तुतिसाधनसामाधारतृचबाधेनैकगर्गाधारत्वं विधीयते उताप्रगीतर्गैकत्वम् । तत्र पूर्वं- पक्षे योन्युत्पन्नस्य साम्न उत्तरयोरगानादूहाप्राप्तेरितरस्मिन् पक्षे साम्नस्तृचाश्रितत्वाबाधा- दूहोपपत्तेरिति चिन्तान्तरं कल्प्यम् ।

पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित-

१९ ] प्रथमाध्याये द्वितीयपादः १३७ जर्तिलचिन्ताथ बाधप्रसङ्गेन करिष्यमाणत्वादथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेति अस्य निषेधार्थत्वेऽपि किं जर्तिलगवीधुकानामनुकल्पत्वद्योतनार्थोऽयं निषेधे विकल्पार्थो वेतिचिन्तान्तरम् । अनुकल्पकत्वपक्षे बाधानापादकत्वाद्विकल्पपक्षो तदा- पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित- मप्यर्थवादत्वमुदाहरणविशेषेष्वाक्षिप्य समाधानाय सा चिन्तेत्येवं ग्रन्थो व्याख्येयः । अस्मिन् व्याख्याने पाष्ठस्यापि पुराकल्पोदाहरणविषयस्य विचारस्यानेनैव न्यायेन कृत्वा चिन्तात्वाभावेऽपि पौनरुक्त्यं परिहृतं भवति । एवंशब्दश्च यथाधिकार- प्रसङ्गेन पष्ठगता चिन्ता एवमेपापीत्येवन्नेया । तत्सिद्धिसूत्रस्थाप्यपौनरुक्त्यमाह— तत्सिद्धिसूत्रे त्विति । मीमांसाप्रक्रियामात्रेण विध्यर्थवादचिन्तेति भावः । सर्वविधि- सरूपाणामौदुम्बराधिकरणेनैवार्थवादत्वसिद्धौ पुराकल्पाद्युदाहरणेषु कृत्वा चिन्तानुपन्या- सादाक्षेपहेतुत्वाभावाच्च पौनरुक्त्यापरिहारेण परिहारतोषात्प्रकारान्तरमाह—अथ वेति । पृथक् फलपदसद्भावेऽपि फलविधौ निराकृते तदभावे फलविध्याशङ्काया दूर- निरस्तत्वेनाऽत्रापि अपरितोषाच्चतुर्थं प्रकारमाह—अथ वेति । परार्थविज्ञाने कारणमाह— अत्र हीति । स्वातन्त्र्येणेति जुहूसम्बन्धनिरपेक्ष्येणेत्यर्थः । एतदेवोपपादयितुं सामान्य- न्यायान्तावदाह— सर्वत्र हीति । प्रकृते योजयति—तदिहेति । किं सम्बध्यतामित्यनार- भ्याधीतत्वेन पर्णमयीत्वस्य प्रकृताश्रयालाभादिति भावः । वाक्येनाश्रयदानमाशङ्क्य निरस्यति—जुहूरिति । अभ्युपगम्यापि जुहूसम्बन्धं नैराकाङ्क्ष्यास्तीत्याह—सापि चेति । अतः फले पर्णमयीत्वविध्ययोगाज्जुह्वर्थत्वेन सिद्धो विधिरित्युपसंहरति— तस्मादिति । पर्णमयीत्वेन जुहूं भावयेदिति वचनव्यक्तिरितरशब्देनोक्ता । जुह्वनुवादेन पर्ण- मयीत्वस्य विधौ सिद्धे यथापारार्थ्यनिर्ज्ञातं भवति तथा दर्शयति । तत्र चेति । एवं निर्ज्ञातपारार्थ्यस्यापि पर्णमयीत्वस्यापापश्लोकश्रवणात्मकफलश्रुतेः फलार्थतापि दध्यादि- वदस्त्विति पर्णमय्यधिकरणे पूर्वपक्षं कृत्वा सकृच्छ्रुतया पर्णत्वजातेर्जुह्वङ्गत्वेन निरा- काङ्क्षीकृताया द्व्यर्थत्वायोगात्फलश्रुतिरर्थवादमात्रमिति सिद्धान्तः करिष्यत इत्याह—ततश्चेति । औदुम्बरत्वस्य तु सोमा पौष्णं त्रैतमालभेत पशुकाम इति विकृतपशुप्रकरणे श्रुतस्यातिदेशप्राप्तनिर्ज्ञातजातिविशेषयूपार्थत्वेन विध्ययोगात्पारार्थ्यान्वगतेः पर्णमय्य- धिकरणविषयत्वन्नास्तीत्याह—इह पुनरिति । एतदेव प्रश्नपूर्वकमपपादयति—कथमिति । नन्वाश्रयालाभात्कथमस्य फलविधिराराङ्क्येत अत आह—यापि चेति । प्रकृतावग्नीषोमीये पशुनियोजनाव्यकर्मसम्बन्धितया विहितस्य यूपस्यात्र चोदकप्राप्तस्यौदुम्बरजात्याश्रयत्वेन ग्रहणादित्यर्थः । कर्मसम्बन्धाभिधानत्वमाश्रययोग्यताप्रदर्शना्थम् । अतः सिद्धं पर्णमय्यधि- करणेनापौनरुक्त्यमौदुम्बराधिकरणस्येत्याह—तेनेति ।

१३८ मीमांसादर्शनम् [ सू० कः पुनरेतेषां चतुर्णां पौनरुक्त्यपरिहारप्रकाराणां मध्ये अभिमत इत्यपेक्षिते प्रथमो- पन्यस्तस्यैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इत्यस्यैवाभिमतत्वमाह- इदमिति । न विद्यते परमुत्कृष्टमस्मादित्यर्थः । उदुम्बरत्वजातेरपि प्रकृताश्रयत्वाभावाच्चोदकप्राप्तस्य निर्ज्ञातसाधनत्वेन नैराकाङ्क्ष्यात्तदर्थविहितसाधनान्तराग्राहकत्वाद् गुणफलसम्बन्धायोगे- नौदुम्बरत्वेन यूपं भावयेदितिवचनव्यक्त्याश्रयणात्पारार्थ्याविगतेः पर्णमयीन्यायविषयत्वा- च्चतुर्थोऽपि प्रकारो न युक्त इति भावः । किं तदित्यपेक्षिते विवेचयितुमारभते-- औदुम्बर- वाक्यमिति । उदाहरणभेदे कथमपौनरुक्त्यमित्यपेक्षिते प्रश्नपूर्वकं परिहरति-- कथमिति । ननु साध्यसाधनांशयोरन्योन्याविनाभावादेकसिद्ध्यावेतरसिद्धेरंशद्वयविचारोऽनर्थकः, अत आह-- साध्येति । अस्यार्थस्य सार्वत्रिकत्वसूचनार्थस्तावच्छब्दः सर्वत्रैव तावदेवमित्यर्थः । कः पुनरंशः क्व विचार्यत इत्यपेक्षायामाह-- तत्रेति । ननु यदि द्वयोर्योग्यपदोपादानं विना साध्यसाधनसम्बन्धो न युज्यत तर्ह्येकनिराकरणे- नैवेतरनिराकरणसिद्धेरंशद्वयनिराकरणमनर्थकमत आह-- यच्चेति । अनिराकृतांशो प्रतिषिद्धमनुमतं भवतीत्यनेन न्यायेनाङ्गीकृतः स्यादिति भवतिशब्देनोक्तम् । तेनायमर्थः यत्साध्यं साधनं वा यदात्मना साध्यत्वेन साधनत्वेन वा निराकरणाभावात्प्रतिपादितं भवति तत्पदान्तरेणादिशब्दोपात्तेन सामर्थ्येन वोपात्तेन प्रतियोगिविशेषण साधनेन साध्येन वा सम्बध्यत इति । एतदेव विभज्य कथयति- तत्रेति । औदुम्बराधिकरणे हि ऊर्जावरोधापापश्लोकश्रवणाद्यनिराकृतत्वात्साध्यमित्यवधृते तत्सन्निधौ श्रुतमौदुम्बरपर्णतादिश्रुतशब्दाङ्गयोग्यत्वेऽपि अर्थापत्त्या योग्यशब्दान्तरकल्पनया साधनं गम्यते, एवं पर्णमय्यधिकरणे निराकरणाभावादुदुम्बरपर्णतादिसाधनावधारणेऽपि तत्साध्यं गम्यत इति शेषः । एतदेवोपसंहरति-- इति द्वावपीति । साधनस्य विधि- विषयत्वं स्वरूपम्; साध्यस्य च ? कमिषदोपात्तत्वमिति द्वयोरपि साध्यसाधनांशयोः स्वरूपन्निरूपयितव्यमित्यर्थः । नन्वस्याधिकरणस्य साधनांशमात्रनिराकरणार्थत्वे विधौ वाक्यभेदः स्यादिति साध्यांशनिराकरणं पर्णमय्यधिकरणस्य च साध्यांशमात्रनिराकरणार्थत्वे सत्युत्पत्तेश्चा- तत्प्रधानत्वादिति साधनांशनिराकरणमयुक्तं स्यादात आह-- तद्विहेति । भिन्नांशविषयत्वेन पौनरुक्त्ये परिहृते प्रकरणसङ्गतिमाक्षिपति- नन्विति । हेत्वधिकरणेऽर्थवादविचाराद- समाप्तमर्थवादाधिकरणम्, न चास्य विचारस्य विध्यभावे श्रेयः साधनत्वबोधः सम्भवति, उत नेत्येवं रूपत्वात्तेन¹ सङ्गतिर्युक्तेत्यर्थः । अर्थवादाधिकरणेनेत्यधिकरणशब्देनाधिकारः प्रस्तावः प्रकरणमुक्तं विधिशेषत्वेनार्थवादानां धर्म्मप्रमोपयोगे प्रतिपादिते विध्यभावेऽपि श्रेयः साधनत्वबोधसम्भवाद्धिरेव धर्मोपयोगित्वाभावात्कथं तद्द्वारेणार्थवादाना- १. अर्थवादाधिकरणेन सङ्गतिर्न च युक्तेत्यन्वयः ।

१९ ] प्रथमाध्याये द्वितीयपादः १३९ यामुपयोगित्यर्थवादाधिकरणसिद्धान्ताक्षेपेणैतदधिकरणपूर्वपक्षोत्थानाद्विध्युद्देशचिन्तात्वेऽपि तत्सङ्गत्युपपत्तिः । यद्यर्थवादानां धर्मप्रयोगे प्रतिपादिते कोऽर्थवादः, को वा नेति कोष्ठशोधनिकार्थत्वे- नाधिकरणद्वयस्यार्थवादाधिकरणशेषत्वाभ्युपगमाद्विध्युद्देशचिन्तात्वेऽपि तदसम्भवाशङ्केयम् । अधिकरणद्वयेन सर्वार्थवादाव्याप्तेः कथं कोष्ठशोधनिकेति चेत् ? उच्यते आद्ये विध्येक- वाक्यत्वेन स्तुत्यर्थत्वेऽभिहिते, सिद्धैकान्तिकविध्येकवाक्यत्वानामपि येषां साध्यसाधनांशा- भिधानाद्विध्युद्देशान्तर्गतिराभाति, तेषां तन्निराकरणेन स्तुत्यर्थतेह स्थाप्यते । हेत्वर्था- करणेऽपि अन्वयवाक्यकल्पनेन दर्व्यादिसाधनांशाभिधानाद्विध्युद्देशान्तर्गत्या शङ्कैव निरा- क्रियते । पृथग्विधित्वाशङ्कानिराकरणमधिकरणान्तरेषु भविष्यति । तस्मादधिकरणान्तर- निराकृतपृथग्विधित्वाशङ्कानां सम्भवद्विध्येकवाक्यत्वानामसम्भवाद्दिध्युद्देशान्तर्गतानां सर्वे- षामर्थवादत्वमिहैव स्थापितं भवति । प्रकृतार्थवादत्वसिद्धयर्थत्वाद्विध्युद्देशचिन्ताप्यत्र नासङ्गतेति परिहरति—नैष इति। विध्युद्देशचिन्तावशेन प्रकृतार्थवादत्वरूपार्थपरि- च्छेदादित्यर्थः । एतदेव विवृणोति—यदि हीति । साधनांशे विचार्यमाण इत्यत्र प्रकृतः साधनांशोऽसा- विति सर्वनाम्ना परामृश्यते । एतदधिकरणपूर्वपक्षे च विध्युपयोगानभ्युपगमात्१, अज्ञात- ज्ञापनाभिप्रायं विधीयमानतयेति व्याख्येयम् । तेन यद्यसौ साधनांशोऽज्ञातज्ञाप्यतयाऽपूर्वेण साधनांशप्रतिपादकेनौदुम्बरो यूपो भवतीत्यनेन वाक्यभावनावगतः, ततोऽपेक्षावशेनोज्ज्र्को अवरुध्या इत्यस्य फलसमर्पकत्वान्नार्थवादत्वमित्यर्थः । पूर्वपक्षमाह—तत्रेति । ननूर्जोऽवरुध्या इति तादर्थ्यचतुर्थ्या साध्यावगमेऽप्यपाप- श्लोकश्रवणादेः साध्यत्वावगमभावाद्दूर्जोऽवरुध्या इत्यस्यापि च तैत्तिरीयादिशाखास्व- श्रवणात्कथं साध्यसन्निधान इत्युक्तम् । उच्यते औदुम्बरत्वादेः प्राप्त्यभावाद्दिध्येकवाक्यत्वं च विनार्थवादत्वायोगादर्थवादाच्च विधिकल्पनेऽन्योन्याश्रयत्वापत्तेरवश्यविधेयत्वाद्विधेश्च भावनैकगोचरत्वाद्यूपोद्देश्यौदुम्बरत्वादिभवनस्य पुंव्यापाराधीनत्वात्पुंव्यापाराधीनकत्र्तव्य- त्वप्रतिपादकपदकल्पनेन भवतिशब्दस्यैव वाऽन्तर्णीतप्रयोजकव्यापारवचनस्य पञ्चमलकार- कल्पनेन भावनाविधिप्रतीतेः । भावनायाश्च भव्यनिष्ठत्वाद्योग्यत्वेनोर्गवरोधापापश्लोक- श्रवणादेः साध्यत्वावगतेः साध्यसन्निधानाभिधानं विध्यभावाभिधानं२ चौदुम्बरत्वाद्यु- त्पत्तिविधानाथं कल्पितस्य प्रत्ययस्यान्यत्र व्यापारासम्भवेन साधनत्वबोधकारणत्वा- भावाभिप्रायम् । ननु तृतीयां विनाऽपि योगस्य विधिसामर्थ्यात्साधनत्वं युक्तम् । इह तु तदश्रवणात्, उत्पत्तिसिद्धयर्थञ्च कल्पितस्य विधेरत्राव्यापारात्कथं साधनत्वावगतिरत आह—तत्रेति । १. उत्पत्तिविध्युपयोगानभ्युपपगमादित्यर्थः । २. ताद्रूप्येणानुपामत्तिमित्यत्रार्थाद्विध्यभावाभिधानम् ।

१४० मीमांसादर्शनम् [ सू० समभिव्याहारमात्रेण साध्यसाधनसंबन्धावगतिसम्भवान्न विधिना कश्चिदुपयोग इति भावः । समभिव्याहारमात्रात्साधनत्वावगमेऽपि पुरुषप्रवृत्तिसिद्धयर्थं विध्यपेक्षा भविष्यतीत्या- शङ्कते-पुरुषमिति । साधनत्वावगतौ सत्यामिच्छयैव प्रवृत्तिसिद्धेस्तदर्थमपि न विध्य- पेक्षेति परिहरति-स चेति । यद्वा यूपानुवादेन विधीयमानस्यौदुम्बरत्वस्य यूपद्वारेण क्रत्वर्थत्वावगमात्तत्प्रयोग- वचनेनैवानुष्ठानसिद्धेर्न तदर्थमिह विध्यपेक्षेत्याह-अथ वेति । क्रत्वर्थस्यापि समभि- व्याहारावगतं फलार्थत्वमपि दध्यादिवदविरुद्धमिति भावः । उत्पत्तिविधIREवाऽगत्या अनुष्ठापको भविष्यतीत्याह-पञ्चमी वेति । अर्थवादाद्वा प्रवृत्तिसिद्धेर्न तदर्थं विध्यपेक्षे- त्याह- अर्थवादेति । ऊर्ज्र्जॊऽवरुद्ध्या इत्यस्य पूर्वपक्षे विध्युद्देशान्तर्गतमभ्युपगमात्सिद्धान्ता- भिपायेणैकदेशग्रहणम् । विधिनिरपेक्षस्यार्थवादस्य प्रवर्त्तकत्वानुपपत्तिमाशङ्कय प्रत्ययो- त्खातिवादिमतेनैतदुक्तमिति दर्शयितुमुक्तमेवेत्युक्तम् । सूत्रं व्याख्याय विधिवन्निगदेष्वित्यादिभाष्यं तात्पर्यतो व्याचष्टे - तस्मादिति । यस्मा- द्विध्यभावेऽपि समभिव्याहारमात्रेण साध्यसाधनसम्बन्धबोधः सम्भवति, तस्मात्तस्मिन् फले औदुम्बरतायाः साधनतया विधिरज्ञातज्ञापनमित्यर्थः । प्रायेणैवङ्कामशब्देन फलसमर्प- णात्, अपि चेत्यादिभाष्योक्तं चतुर्थ्या फलसमर्पणमयुक्तमाशङ्कयोर्जोऽवरुद्ध्यै इत्याद्युक्तम् । फलविधिरित्यत्र विधिशब्दस्य शौण्डादिष्वपाठात्सप्तमीसमासानुपपत्तेः, षष्ठीसमास एवायं स्यादित्याशङ्क्याह-नन्विति । विवक्षितार्थलाभायान्यथापि कल्पनं युक्तमिति भावः । भावार्थाधिकरणे फलविध्यनिपेक्षात् भावस्य भावनाख्यस्यार्थः प्रयोजनं फलं विधेयं, न वेति यत्र चिन्त्यते । लिप्सासूत्रस्याद्यवर्णके तद्भावार्थाधिकरणमिहोक्तम् । नन्वस्य फल- परत्वे स्तुत्यभावाद्भिधिरवसीदेत आह-ऊर्गदुम्बर इति । पूर्वाधिकरणे लाक्षणिकस्तु- त्युपयोगाभिधानादिहानर्थक्याभिधानमयुक्तमाशङ्क्याह- तस्मादिति । साध्यसाधनभाव- प्रतिपादनस्य प्रवृत्तिविशेषकरत्वेनार्थवत्तरत्वातदपेक्षया स्तुत्यानर्थक्यमिति भावः । यस्मादुक्तप्रकारेणौदुम्बरतायाः फले विधिः सम्भवति, तस्मादित्यर्थः । अनेन च वादमात्रं ह्यानर्थकमित्यस्य स्तुतिवादस्य निष्प्रयोजनत्वाभिधानप्रतिपादनपरत्वप्रतिपादनार्थमितरथेति भाष्यम्, मुख्यार्थरहितत्वप्रतिपादनार्थं च न चेति भाष्यं तन्त्रेण व्याख्यातम् ॥ १९ ॥ भा० प्र०-पूर्वं के अधिकरण से अर्थ वाक्यों का प्रामाण्य प्रतिष्ठापित किया गया है । प्रकृत में जो अर्थवाद विधि के समान प्रतीत होते हैं, किन्तु विधि नहीं है उन उदाहरणों को प्रस्तुत कर विषय को स्पष्ट किया जा रहा है । इस सूत्र में पूर्वपक्षी के मत का प्रदर्शन है । 'उदुम्बरो यूषो भवति, उर्ग॒ वा उदुम्बर उर्क॒ पशव ऊर्ज्जेवास्मा उर्जं पशूनाप्नोति उज्ज्र्जॊऽवरुद्धयं' (तै० सं० २।१।१) उदुम्बर से निर्मित उदुम्बर होना चाहिए, उर्क॒ अर्थात् अन्न या अन्न का अमृतस्वरूप सूक्ष्म रस ही उदुम्बर होता है, पशु अन्न है

२० ] प्रथमाध्याये द्वितीयपादः १४१ और उदुम्बर स्वरूप ऊर्क् है अर्थात् अन्न के द्वारा अध्वर्यु यजमान के लिए पशुरूप अन्न प्राप्त करता है—यज्ञ के फल के रूप में लाभ करता है । अतः उदुम्बर निर्मित यूप अन्न की अवरुद्धि अर्थात् अवरोध या संस्थान या सम्पादन का कारण होता है । यह वेदवाक्य के अर्थ में संशय होता है कि इससे किसी का विधान है या किसी की प्रशंसा की जाती है । अर्थात् यह विधि है या अर्थवाद । पूर्वपक्षी इसके उत्तर में कहता है— यह विधि है, यह अर्थवाद नहीं हो सकता है । "अपूर्वत्वात्" प्रकृत में उदुम्बरस्वरूप गुण एवं अन्नसम्पादनरूप फल अपूर्वं अर्थात् अप्राप्त अर्थात् प्रमाणान्तर से अज्ञात है । "धनलाभाय राजसेवा" इत्यादि स्थल में तादर्थ्य में चतुर्थी होती है, यहाँ भी "ऊर्जोऽ- वरुद्ध्यै" में तादर्थ्य में चतुर्थी है । राजसेवा जिस प्रकार धन लाभ का साधन है, वैसे ही यूप का उदुम्बरस्वरूप गुण भी ऊर्ज की अवरुद्धि के अर्थात् अन्न सम्पादनरूप फल का हेतु है । यद्यपि यहाँ विधिविभक्ति नहीं है, तथापि विधिजन्य प्रवृत्ति होती है, कारण, ऐसे स्थलों में यह फल है, यह इसका साधन है—इस प्रकार का ज्ञान होने से ही प्रवृत्ति होती है । यदि इसको विधि न कहा जाय तो वाक्य अनर्थक हो जायेगा, क्योंकि, अर्थवाद स्वार्थ का प्रतिपादक न होने से वाक्य अनर्थक होगा, कारण, अर्थवाद स्वार्थ का प्रतिपादक होने पर अन्य की प्रशंसा कर चरितार्थ होता है । किन्तु यहाँ किसी प्रकार की प्रशंसा नहीं है । (पूर्वपक्ष) 'विधिः' = विधि, 'वा' अवश्य, 'स्यात्' होगी, अपूर्वत्वात् अपूर्व अर्थात् अप्राप्त होने से 'वादमात्रं' केवल अर्थवाद, 'हि' = क्योंकि "अनर्थकम्"=अनर्थक अर्थात् निष्प्रयोजन है । क्योंकि विधि सम्पर्क शून्य केवल अर्थवाद अनर्थक होता है, इसलिए ऊर्ग॒ या उदुम्बरः इत्यादि स्थल में विधि ही मानना होगा ॥ १९ ॥ लोकवदिति चेत् ॥ १.२.२० ॥ शा० भा०—इति चेत्पश्यसि—स्तुतिरनर्थिका, न च शब्देनावगम्यत इति । लौकिकानि वाक्यानि भवन्तो विदाङ्कुर्वन्तु । यद्यथेयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति । क्रेतव्येत्यप्युक्ते गुणाभिधाना- त्प्रवर्तन्तेतरां क्रेतारः । बहुक्षीरेति च गुणाभिधानमवगम्यते । तद्वद् वेदेऽपि भविष्यति ॥ २० ॥ भा० वि०—यदुक्तं वादमात्रमनर्थकमिति तत्र चोदयति—लोकवदिति । स्तुतेरर्थवत्त्वं प्रतिजानान इति चेदिति व्याचष्टे—इति चेदिति । इति शब्दार्थ- माह—दृश्यत इत्यादिना । ऊर्जोऽवरुध्या इत्यादिना शब्देन या स्तुतिर्गम्यते, सानार्थिकेति, ⋯न⋯ दृश्यते युज्यते अर्थवत्येव युक्तेत्यर्थः, कुत इत्याशङ्क्य लोक- वदिति भागं व्याचष्टे—लौकिकानीति । विदाङ्कुर्वन्तु—विचारयन्तु । कानि

१४२ मीमांसादर्शनम् [ सू० तानीत्यपेक्षायां विधेयस्तावकतया सार्थकं लौकिकं वाक्यमुदाहरति - तद्यथेति । लौकिकस्यापि स्तुतिपदस्यानर्थक्यात् साध्यविकलो दृष्टान्तमाह—क्रेतव्येति । क्रेतव्येत्युक्ते प्रवर्तमानाः क्रेतारो गुणाभिधानात् प्रवर्तन्तेतरां प्रवृत्त्यतिशयवन्तो दृश्यन्त इत्यर्थः, गुणाभिधानं चेह स्फुटमित्याह—बहुक्षीरेति । अतः प्रवृत्त्यति- शयाय वेदेऽपि स्तुतिरर्थवतीत्याह—तद्वदिति ॥ २० ॥ त० वा०—लोके तावद् बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां प्रयुञ्जते । तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेष- निमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः । एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥ न्या० सु०—लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाशङ्क्याह— लोके तावदिति । क्रेतव्येति भाष्यं व्याचष्टे—तत्र चेति । अस्यापि फलपरत्वाददृष्टान्त- त्वमाशङ्क्याह—न चेति । तद्वदिति भाष्यं व्याचष्टे—एवमिति । लक्षणादोषं परिहरति— श्रुतीति ॥२०॥ भा० प्र०—स्तुति को अनर्थक कहना ठीक नहीं है । लौकिक वाक्यों के विचार से ही उसकी सार्थकता के अनुसार इसकी भी सार्थकता सिद्ध होती है । गाय बेचने वाला गाय के सम्बन्ध में कहता है कि—यह गाय खरीदो, इसको अधिक दूध होता है, बछियावाली भी है और प्रतिवर्ष प्रसव करती है, तो सरलता से खरीदने में प्रवृत्ति होती है । वैसे ही 'उदम्बरो यूपो भवति' यहाँ औदुम्बरत्वरूप गुण विहित होता है, ऊर्क और अदुम्बर वाक्य उसी के स्तावक है । लोकवत्=लौकिक उक्ति के समान । इति चेत्=यदि कहा जाय । अर्थात् अर्थवाद की सार्थकता प्रदान की जाय तो किसी तरह अनर्थकत्व नहीं रह सकता है ॥ २० ॥ न पूर्वत्वात् ॥ १.२.२१ ॥ शा० भा०—नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन्पूर्व- वचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोच्यन्ते, नतरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधि- शब्देन प्ररोचितः, किमर्थवादशब्देन, अपि च वेदे व्यक्तमसंवादः, ऊर्गोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम्, ऊर्ध्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः तस्मात्तन्मयो यूपः कर्तव्य इत्यूर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परि- कल्प्येत ॥ २१ ॥

२१ ] प्रथमाध्याये द्वितीयपादः १४३ भा० वि०—न पूर्वत्वादित्यत्र नञर्थं दर्शयन् दृष्टान्तवैषम्यं प्रतिजानीते— नैतदिति । वैषम्यं दर्शयन् पूर्वत्वादिति व्याचष्टे—लोक इति । मानान्तरा- वगताथर्त्वेन बहुक्षीरादिवाक्यानामप्रमापकत्वात् प्रशंसार्थता युक्तेत्यर्थः, वेदे त्वविदितवादत्वादूर्जोवरुध्या इत्यादेर्न प्रशंसार्थतेत्याह—अविदितेति । पूर्व- वचनादिव—वैदिकविध्युद्देशादिवेत्यर्थः । न च वसन्तादिवाक्ये विध्युद्देशादेव स्तुतेरङ्गीकारात् कथमश्रद्धेति वाच्यम् । तत्रापि कल्पितेनैव स्तुतिपदेन प्ररोच- नाङ्गीकारादिति भावः । विदितत्वाद्बहुक्षीरादयः प्ररोचयन्त इत्येतदुपपादयति— विदितत्वादेवेति । नोक्तिमात्रेण, तथा सति विसंवादेऽपि प्ररोचनाप्रसङ्गा- दिति भावः । ननु वेदेऽपि विधितः प्रवृत्त्यवगमात् तत्समभिव्याहृतानामर्थवादानां ताद- र्थ्येन विधिसंभवादेव प्ररोचनार्थत्वं संभवतीत्यत आह—वैदिकेष्विति । न तरा- मर्थवादेन प्ररोचयिष्यत इत्यत्र हेतुमाह—जाताशङ्को हीति । यो हि साक्षात्प्र- वर्तकं विधिमुल्लङ्घ्यार्थवादं प्रवृत्त्यङ्गतया प्रार्थयते । स कथं विधावविस्रब्धोऽ- र्थवादे प्रत्ययं कुर्यादिति भावः । यदि विधेरेव प्रवर्तकत्वसिद्धये प्ररोचकत्व- मपीष्यते तत्राह—अथेति । एवमविदितपूर्वत्वादूर्गवरोधादीनां न प्रशंसार्थत्व- मिति सूत्रं व्याख्यायान्यथाविदितपूर्वादपि न तदर्थतेति व्याचष्टे—अपि चेति । संवादविरुद्धोऽसंवादः विसंवाद इति यावत् । विसंवादमुपपादयति—ऊर्जोवरुध्या इति । अप्रसिद्धत्वं योग्यानुपलब्धिविषयत्वम्, वर्तमानेनोर्गवरोधेन हि स्तुतिः, तस्य चानुपलब्धेः अनुपलब्धिविरोध इति भावः । स्तुतिवाक्ये विसंवादमुक्त्वा हेतुवाक्येऽपि तमाह-ऊर्ग् वा उदुम्बर इतीति । न ह्यूर्क् च्छन्दाभिधेयमन्नत्वमभक्ष्ये वृक्षे पक्षधर्मत्वेन प्रसिद्धम्, नापि यत्रान्नत्वम् तत्र यूपत्वमिति अन्वयप्रसिद्धिः, तेन हेतुत्वाप्रसिद्धिरित्यर्थः, हेत्वसिद्ध्या साध्यासिद्धिमाह—यस्मादिति । ऊर्गदुम्बर इत्यनृतवचनाद्यदन्यत् साध्यं यस्मादूर्गुदुम्बरस्तस्मात्तन्मय उदुम्बरमयो यूपः कर्तव्य इति । तदप्यनृतं परिकल्प्येतेति योजना ॥ २१ ॥ त० वा०—नायं दृष्टान्तः । स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाल्लोके तत्संभ- वादुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक एव यद्यविदितं कश्चिद्वदेत्तदा नैव श्रद्दधीरन् । पूर्ववचनादिवेति । विध्युद्देशादिव । अथ वा वैधर्म्योपमा । यथाऽधिगतपूर्ववचने श्रद्दधते नैवमविदितवादे । न चोक्तिमात्रेणैते बहुक्षीरादयः प्ररोचयन्ते । किं तर्हि । विदितत्वादेव । वेदे त्वर्थवादासत्यत्वेन विधौ जाताशङ्को न प्रवर्तेत । अथ वा यो विधिमुत्क्रम्यार्थवादं प्रार्थयते नूनमस्य विधावविश्रम्भः । तत्र चेदनाश्वासोऽर्थवादे कुतः प्रत्यय इति । अपि च व्यक्तमसंवादो वर्तमाने । नोर्जोऽ-

१४४ मीमांसादर्शनम् [ सू० वरोधनेनेयं स्तुतिर्न च तदस्ति। तत्राविद्यमानबहुक्षीरसंकीर्तनवदेतत्स्यात् स्व- रूपतस्तावदुदुम्बरेऽन्नत्वं पक्षधर्मेणाप्रसिद्धम्। अन्वयाप्रसिद्धेश्च हेतुत्वाप्रसिद्धिः ! न हि यद्यदन्नम्, स स यूप इति लोके वेदे वा प्रसिद्धमित्यसंबद्धम्। तस्मादसंवा- दाद्वरं विधिरेव, किं स्तुत्या संवादापेक्षिण्येति ॥ २१ ॥ न्या० सु०—नैतदेवमिति भाष्यं व्याचष्टे—नायमिति। लोके इति भाष्यं व्याचष्टे— स्तुतेरिति। अविदित इति भाष्यं द्वेधा व्याचष्टे—वेदे स्थित्विति। पूर्ववचनादिवेति। भाष्यं पूर्ववदेव द्वेधा व्याचष्टे—पूर्वेति। विदितत्वादेवेति भाष्यं व्याचष्टे—न चेति। वैदिकेष्विति भाष्यं जाताशङ्कत्वं द्विधोपपादयन् व्याचष्टे—वेदे स्थित्विति। न लौकिकी स्तुतिर्विरुद्धा, प्रमाणान्तरेणास्याविदितपूर्वत्वादिति, वैदिकायाः स्तुतेः दार्ष्टान्तिकत्वनिरा- करणपरतया सूत्रव्याख्यानार्थमपि चेति भाष्यं व्याचष्टे—अपि चेति। अधर्मशब्दवद्वि- रुद्धवचनेनासंवादशब्देन विसंवादोऽभिप्रेतः। विसंवादोपपादनाथंमुज्जॉवरुद्ध्या इति भाष्यं व्याचष्टे—वर्त्तमानेनेति। स्तुतौ स्वार्थसत्यत्वानादरत्वस्योक्तत्वादिसंवादेऽपि स्तुतिनिर्वाहमाशङ्क्य विदितत्वादित्येतद्भाष्योक्तलौकिकस्तुतिविषयस्वार्थसत्यत्वादर- न्यायेनात्रापि पूर्वपक्षे स्थित्वा तदादरमाह—तत्रेति। ऊगुंदुम्बर इति भाष्यं व्याचष्टे—स्वरूपत इति। ऊक्शब्दाभिधेयमन्नत्वं भवत्पक्षे पक्षधर्मत्वेनाप्रसिद्धम्। तस्य चाप्रसिद्ध्या यूपप्रकृतित्वेनौदुम्बरो यूपो भवतीत्यप्रसिद्धम्। अन्वयाप्रसिद्धिमेवोपपादयति—न हीति। पक्षधर्मत्वसूचितहेतुत्वान्यथानुपपत्तिकल्पितं यद्यदन्नं स स यूप इत्यन्वयवाक्यमङ्गीकृत्यैतदुक्तम्। हेतुत्वाप्रसिद्ध्या साध्याप्रसिद्धिप्रति- पादनार्थं तस्मादिति भाष्यम्। ऊर्गुदुम्बर इत्यनुतवचनादन्यदप्यस्य तत्साध्यं यस्मादूर्गु- दुम्बरः, तस्मात्तन्मयो यूपः कर्त्तव्य इति, तदप्यमृतमिति सुयोजत्वान्न व्याख्यातं विसंवा- दाभिधानस्य प्रकृतोपयोगमाह—तस्मादिति ॥२१॥ भा० प्र०—लौकिक वचन प्रत्यक्ष आदि प्रमाणों से गम्य रहने पर ही उसमें विश्वास किया जाता है। विक्रय योग्य गौ आदि के प्रशंसा-सूचक-वाक्य वक्ता एवं क्रेता को पूर्व से ही विदित रहता है। जाने हुए का ज्ञान निरर्थक है। इसीलिए उसकी प्रशंसा की जाती है। किन्तु वेदवाक्य का वचन अन्य प्रमाण से प्रमाणयुक्त नहीं है अर्थात् गम्य नहीं है और प्रमाणान्तर विरुद्ध होने पर भी प्रमाण नहीं होगा। इस स्थल में उदुम्बर का अन्न-सम्पादकत्व प्रमाणान्तरगम्य नहीं है। इसी प्रकार ऊर्ग्व वा (वै) उदुम्बरः। इस स्थल में 'वै' शब्द के द्वारा उदुम्बर की अन्न के प्रति हेतुता भी जो कही गई है, वह प्रमाणान्तर से गम्य नहीं है। अतः, उसका अब्याहत प्रामाण्य मानने के लिए उसको विधि ही मानना होगा, क्योंकि, विधि ही स्वार्थ में प्रमाण है अर्थवाद स्वार्थ में तात्पर्य- रहित रहता है, इसीलिए, स्वार्थ में प्रमाणविहीन होने से अर्थवाद नहीं हो सकता है।