भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 183, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 183

१९ ] प्रथमाध्याये द्वितीयपादः १३१ तत्प्रक्रमावस्थायामेव तु भावनांशाः संनिपतन्ति । विशेषेण तु फलं प्राथम्य- प्राधान्याभ्यामित्यादि मन्वानोऽपूर्णत्वादिति वदति । तदपेक्षया च स्तुतिमात्र- मनर्थकं मन्यते । ननु चैवं जातीयकः फलविधिरुतार्थवाद इति विचारश्चतुर्थेऽपि 'द्रव्यसंस्कार- कर्मसु' (जै० ४।३।१) इति भविष्यति । अतो नेह प्रस्तोतव्यः । तत्र केचिदाहुः अनेन गतार्थत्वात्तत्रैवैष पर्यनुयोगो युज्यते, न त्विदं पुनरुक्त- मिति । सत्यमेवम्, यदि तु तत्कालप्रतीक्षणात्किचित्परिहारान्तरं लभ्यते अतस्त- त्रान्विच्छेम । अथ पुनरिहैव शक्यते वक्तुम्, तथा संतीदानीमप्युच्यमाने मन्दो दोष इति । अत्रापरे वदन्ति तेन फलविधित्वनिराकरणमात्रपरमेव प्रष्टव्यम् । तदयुक्तम् । यतस्तेन फलविधित्वात्प्रच्यावितानामानर्थक्यप्रसक्तौ पूर्वाधिकरणेनैव स्तुत्यर्थता साधिता । तथा च दर्शितं शोभतेऽस्य मुखमित्यादिषु । केचित्पुनराहुः युक्तं 'वायुर्वे क्षेपिष्ठेत्यादोनाम्' स्तुतित्वम् । ऊर्जोऽवरुद्ध्यै इति पुनर्यथा फलविधित्वात्प्रच्याव्यते, तथैव विसंवादेन स्तुतित्वादपीति कामं विधिर्भवतु, येन कालान्तरभावित्वेन कथञ्चिद्विसंवादो निवर्त्तत इत्यारम्भः । तदप्ययुक्तम् । अपि च वेदे व्यक्तमसंवाद इति ह्यभ्युच्चयहेतुरपुनरुक्तः स्यात् । अधिकरणशरीरं तु तदेव । विसंवादोऽपि च गुणवादस्त्वित्यनेन न कश्चिद- परिहृतः । पुनरपि च तावन्मात्रमेवोत्तरं भविष्यति । तस्माद्विधिर्वा स्यादित्य- विशेषोपादानाच्चतुर्थे च फलश्रुतिग्रहणादिहाशेषद्रव्यगुणक्रियादिविधिसरूपाः तत्र फलविधिसरूपा एवोदाहरणमित्यपरे । तथा च विधिश्चानर्थकः क्वचित्प्रकरणे च संभवन्निति चाप्सुयोनिर्वा अश्वोऽप्सुजो वेतशो यो विदग्ध इति चोदाह्रियते । अन्यथा फलविधिमात्रो- पन्यासे तदसंबद्धमेव स्यात् । इहापि तस्य तावद्विशेषविषयत्वादिदमगतार्थं भवेत् । अनेन तु सामान्यतः सर्वविषयावरोधिना तत्पुनरुक्तमेवेति व्यवस्थया केचिदुदाहरन्ति अत्र द्रव्यादिविधीनेव तत्र फलविधीनेव, भाष्यकारोदाहरणम- तन्त्रीकृत्योदाहरणान्तरं दातव्यमिति । अस्मिन् विषये वार्तिकमतम् अत्र वदामः । किमधिकरणद्वयमवश्यारब्धव्यम्, येनैवमुदाहरणव्यवस्थाऽऽ- श्रीयते । न ह्युदाहरणभेदादधिकरणं भिद्यते । मा भूद्यथाव्यवस्थितेऽपि खादिरो- दुम्बरत्वभेदादपौनरुक्त्यम् । न्यायविषयत्वेन त्वधिकरणानां तद्भेदे एवापौनरुक्त्ये हेतुः । द्रव्यादिविधयोऽपि न सर्वे विचारिताः । केचित्तत्सिद्धिसूत्रे' केचिन्निन्वीता-