मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 182, कुल 804 में से
संदर्भ में पढ़ें१३० मीमांसादर्शनम् [ सू० संभवे किमिति स्तुत्यर्थत्वेनार्थवत्त्वमाश्रीयत इत्याशङ्क्यार्थवादत्वमेवानेन स्थिरीक्रियत इति सङ्गतिं मत्वा विषयं विविच्य दर्शयति— इहेत्यादिना । ये विधिवन्निगद्यन्ते अर्थवादाश्च ते तथा चिन्ताप्रयोजनं तु फलविधिसरूपाणां स्तुत्यर्थत्वेनार्थवादत्वसिद्धिरत्रापूर्वत्वैकवाक्यत्वाभ्यां संशयमाह—किमिति । अस्येति जातावेकवचनम् । अथवास्योदाहरणस्य विधिरज्ञातज्ञापनम्-अस्यापीति । वायुर्वे क्षेपिष्ठेत्यादि- वदित्यर्थः, कतरदत्र युक्तिमदिति जिज्ञासमानं प्रति पूर्वपक्षसूत्रमादत्ते—किमित्या- दिना । विधिः स्यादिति सामान्यनिर्देशेन फलविधिसरूपाणां सर्वेषामप्युदाहरण- त्वमभिमतमिति सूचयन् व्याचष्टे—विधिवदिति । अवधारणार्थेन वाशब्देन सूचितं हेतुमाह-फलं हीति । यथा हि गम्यमानत्वात् स्तुतेस्तत्परत्वमर्थवादानाम्, तथा फलस्यापि गम्यमानत्वात् तादर्थ्यमेवैतेषामित्यर्थः । ननु फलस्य गम्यमानत्वं स्तुत्यर्थतयापि स्यात् इत्याशङ्क्याह—पूर्वत्वा- दिति । व्याचष्टे - तथेति । तथा सति पूर्वं प्रमाणान्तरमस्य न विद्यते इत्यपूर्व- मनन्यलभ्यमर्थं विधास्यति=प्रतिपादयिष्यति । स्तुतेर्विध्युद्देशादप्याक्षेपात् फलस्य चानन्यलभ्यत्वात् तद्विधित्व एव प्रमाणान्तरापूर्वार्थत्वमित्यर्थः स्तुतिश्च सिद्धार्थ- कथन रूपत्वाद्वादमात्रम्, नाज्ञातज्ञापकं तच्चानर्थकमित्यर्थः, आनर्थक्ये हि शब्द- सूचितं हेतुं व्याचष्टे—स्तुतिश्चेति । न हि पर्णमयीत्यादौ स्तुतत्वेन स्तुतित्व- मभ्युपगच्छताऽपूर्वार्थत्वमपि नेष्यत इत्याशङ्क्य प…………कश्चिदतिशयोऽस्तु तत्त्वेन वा निष्कर्षो दृश्यते, तेन प्रवृत्तावपि न विशेष इति भावः । अपूर्वत्वादिति सूत्रावयवं प्रकारान्तरेण व्याकुर्वन् हेत्वन्तरमाह—अपि चेति । एवं कामपदा- भावेऽपि तादर्थ्यं चतुर्थ्या स्फुटं फलावगमादित्यर्थः । ननु वायुर्वा इत्यादौ प्रशस्तोऽयमिति पदाभावेऽपि स्तुतिस्तद्वत् किं न स्यादत आह—लक्षणयेति । इह च श्रुत्यर्थसंभवान्न लक्षणा युक्तेत्याह—श्रुति- श्चेति । अनेन लक्ष्यमाणस्तुतेर्वाच्यार्थपूर्वकत्वाद्वाच्यार्थस्य फलस्यानन्यपूर्वत्वाद- पूर्वशब्देन पूर्वमर्थान्तरमस्य न विद्यते इति श्रौतार्थलाभोऽभिसंहित इति सूत्रं व्याख्यातम् ॥ १९ ॥ त० वा०—एवमानर्थक्योपाख्यानादिप्रतियोगिष्वर्थवादेषु व्याख्यातेष्विदानीं विधिप्रतियोगिनो विचार्यन्ते । कुतः संशयः ? पूर्वत्र हि स्वार्थानुपयोगित्वेन दूरलक्षितस्तुतिग्रहणमङ्गीकृतम् । तत्संभवे तु स्तुतिरप्यनर्थकतुल्याऽऽपद्यते । विध्यंशश्च न कथंचनान्यस्मात्सिध्यति । प्ररोचना पुनः कथंचिद्विध्युद्देशादप्युप- पद्यत इत्युक्तं पुरस्तात् । अपि च प्रधानं विधिः, अङ्गं स्तुतिः, तत्र प्रधानविशे- षणसंभविनस्तद्गामित्वमेव युक्तम् । समाप्ते च विध्युद्देशे, अर्थवादः प्रवर्तते,