मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 184, कुल 804 में से
संदर्भ में पढ़ें१३२ मीमांसादर्शनम् [ सू० द्यधिकरणेषु, परकृतिपुराकल्पद्वारेणान्ये षष्ठे, यहचा स्तुवत इत्यादयोऽर्थैकत्वादि- कल्प इति नवमे, जर्तिलगवीधुकविधिरूपा दशमे, अतश्च न पुनरुक्तता महान् दोष इत्येव वक्तव्यम् । अथ वैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इति पुनरारम्भः । स्पष्टं वा विषयनानात्वमेवं वर्णनीयम् । सर्वविधिसरूपाणां केवलं विधित्वनिराकरणे- नार्थवादत्वमिह सिद्धम् । यस्तु चतुर्थे पुनरारम्भः सोऽर्थवादकल्पिते विधौ फलाकाङ्क्षावेलायामन्यार्थोपात्तमपि क्रतुप्रयागवचनात्तदेव सन्निहिततरं क्लृप्त- संबन्धस्य च विशेषमात्रं सुकरम् । इतरथा संबन्धस्तद्विशेषश्चोपकारकत्वं कल्पनीयमिति रात्रिसत्त्रप्रतिष्ठादिवत्फलविधित्वमपीति पूर्वपक्षाभिप्रायः । कथ- ञ्चित्प्रयोजनान्तरे लभ्यमाने नैकस्यानेकार्थता युक्ता । तस्मादर्थवादत्वमेवेति सिद्धान्तः । एतेन निवीताद्यधिकरणानि व्याख्यातानि । अथ वोदुम्बराधिकरणपूर्वपक्षं कृत्वा चिन्तास्ता प्रत्येत्तव्याः । विधित्वाभ्युप- गमेन हि कस्य शेषः क्रतोः पुरुषस्य वेत्यादि विचार्येह सिद्धेनार्थवादत्वेनोप- संहारः । तथा परकृतिपुराकल्पयोः किं तद्गोत्राणामुत सर्वपुंसामिति चिन्ति- तम् । एवमूहबाधमसङ्गेन नवमदशमगता चिन्ता । तत्सिद्धिसूत्रे तु गुणवाद- निमित्तमात्रकथनम् । अथ वा फलविधावेव यत्र भेदेन स्तुतिफलपदानि भवन्ति, तदिहोदाहरणम् । यथाऽत्रैवौर्गदुम्बर ऊर्क, पशव इत्येतैरेव स्तुतिः, ऊर्जोऽवरुद्ध्यै इत्यनेन फलमिति । यत्र पुनस्तावन्मात्रेणैव फलं वा स्तुतिर्वा वक्तव्येति भवति ते चतुर्थं इति । अथ वा तत्र परार्थत्वादिति हेतुव्यपदेशात् प्रसिद्धेन च हेतुना व्यवहाराद्ये विज्ञातपारार्थ्यास्त उदाहरणम् । यथा 'यस्य पर्णमयी जुहूर्वि'ति । अत्र ह्यवश्यं जुह्वनुवादेन पर्णमयीत्वं विधातव्यम्, स्वातन्त्र्येण फलसम्बन्धाशक्तेः । सर्वत्र हि गुणः फलाय चोद्यमानः कश्चिदाश्रयमपेक्षते । न च प्रकरणमन्तरेणाऽऽश्रयप्राप्तिः । तदिह यदि पर्णमयीत्वेन फलं भावयेदिति वचनं व्यज्येत, किमाश्रितेनेत्यपेक्षायां किं संबध्यताम् ? जुहूरिति चेन्न । वाक्यभेदप्रसङ्गात् । साऽपि च प्राक्क्रिया- लाभान्नैव निराकाङ्क्षीभवति । न च क्रियासम्बन्धे प्रमाणमस्ति । तस्मादनिर्व- र्हणादेतद्वचनव्यक्तिपरित्यागेनेतराश्रयणम् । तत्र च जुह्वा जुहोतीत्यस्याः प्रकरणे निर्ज्ञातप्रयोजनत्वाद्विहितजातिविशेषायास्तदाकाङ्क्षायां सत्यां यावदेव पर्णत्व- जातिरुपनीता तावदविज्ञातप्रयोजनावस्थत्वादङ्गतां प्रतिपद्यते । ततश्च निरा- काङ्क्षीभूतायास्तस्मिन्नेव वाक्ये फलकल्पनानिमित्तं नास्तीति युक्तमर्थवादत्वम् ।