मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 186, कुल 804 में से
संदर्भ में पढ़ें१३४ मीमांसादर्शनम् [ सू० न्या० सू०—विषयविवेकार्थमिहेतिभाष्यं व्याख्यातुमाह—एवमिति । आनर्थक्यम्, उपाख्यानम् । आदिशब्दोपात्तं चादृष्टार्थत्वं प्रतियोगि = विरोधि येषां तेष्वित्यर्थः । एतच्च पूर्वेणाध्यायषट्केन प्रत्यक्षविदितधर्मकेषु दर्शपूर्णमासादिषु व्याख्यातेषु इदानीमविहितेति- कर्तव्यताकेष्वैन्द्राग्नादिषु चिन्तयितुमिष्यत इतिसप्तमाध्यायभाष्यवत्सर्वेष्वर्थवादेष्वा- नर्थक्यादिप्रतियोगित्वेन व्याख्यातेषु यथासम्भवं केषुचिद्विधिप्रतियोगितेदानीं विचार्यत इति विशेषणपरं व्याख्येयम् । पूर्णाहुत्याद्यर्थवादानां विधिवन्निगदार्थवादानामपि व्याख्यातत्वात्किमस्येति सन्देहभाष्यं पूर्वपक्षासम्भवेनाक्षिपति—कुत इति । सन्देहसमर्थं चतुर्द्धा पूर्वपक्षं सम्भावयति—पूर्वत्र हीति । श्रौतत्वमनेन विधित्वाङ्गीकरणे कारणमुक्तम् । अनन्यलभ्यत्वाच्च विधिरित्याह— विध्यंशश्चेति । इत्युक्तमिति । विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्याम इत्यत्रेत्यर्थः । प्रथा- नत्वादपि विधिरित्याह—अपि चेति । विशेषणशब्देनाङ्गमुक्तम् । प्रधाने, विशेषणे च यत्सम्भवति, तस्येत्यर्थः । प्राथम्यादपीत्याह—समासे चेति । फलरूपश्चात्र भावनांशो विधेयोऽभिप्रेतः, तस्य च सर्वादौ निवेशः प्रथमाकाङ्क्षणादितरयोस्तु तादर्थ्येन तस्यैव प्राधान्यादित्याह—विशेषेण त्विति । आसामुपपत्तीनां सूत्रकाराभिमतत्वं दर्शयितुमाह— इत्यादीति । श्रौतस्यार्थान्तरपूर्वत्वाभावादनन्यलभ्यस्य चानन्यकारणकत्वात्प्रधानस्य विधेयान्तरापेक्षाभावादपूर्वशब्दे न लक्षणा । प्राथम्यं तु न विद्यतेऽस्मात्पूर्वमिति बहु- व्रीहिणा बोध्यते । आदिशब्देन त्वर्थान्तरपूर्वत्वाभाव एवोच्यते । ननु स्तुतेरपि पूर्वाधिकरणे अर्थवत्त्वोपपादनादानर्थक्याभिधानमयुक्तमत आह—तदपेक्ष- येति । पौनरुक्त्यमाशङ्कते—ननु चेति । एकस्यार्थस्याद्विरुक्तत्वानर्थक्येऽप्यस्य प्राथम्यादपुनरुक्ततेत्येकेषां समाधानमाह— तत्रेति । अस्याधिकरणस्य पौनरुक्त्याभावेऽप्यानर्थक्यापरिहारेऽप्याकुलीभावेन श्रोतॄणा- मर्थानवधारणापत्तेर्विलम्बोऽनुचित इत्येतत्समाधानं दूषयति—सत्यमेवमिति । श्रोतृचित्त- समाधानायापौनरुक्त्ये परिहार्ये प्राप्ते चतुरः प्रकारानुपन्यस्य दूषयति — तत्र । इत्यादिना पूर्वाधिकरणेनैवेत्यनेन फलविधिसुरूपाणामपि पूर्वाधिकरणविषयत्वं दर्शितम्—तथा च । इत्यनेनैतदेवं पूर्वाधिकरणोदाहृतफलविधिसरूपार्थवादनिदर्शनेन स्फारितं पूर्वोक्तस्याप्यर्थ- वादत्वस्य विसम्वादेनेहासम्भवादानर्थक्यपरिहाराय पर्णमय्यधिकरणनिराकृतस्य फलविधि- त्वस्य प्रतिप्रसवशङ्कां निराकर्तुमेतदधिकरणमिति प्रकारान्तरमुपन्यस्य निराचष्टे— केचिदिति । शरीरस्येन्द्रियाधिष्ठानत्वेन प्राधान्यादुपचारात्प्राधान्येनाधिकरणप्रतिपाद्यं शरीरशब्देनोक्तम् । तत्र पर्णमय्यधिकरणशरीरादभिन्नमित्यर्थः । अभ्युच्चयहेतुत्वे कारणम्— विसम्वादोऽपि च । इत्यनेनोक्तम् । सर्वविधिसरूपविषयत्वादस्य फलविधिसरूपमात्रविष- येण पर्णमय्यधिकरणेनापौनरुक्त्यमिति । प्रकारान्तरमाशङ्कते — तस्मादिति । निरस्य-