मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 192, कुल 804 में से
संदर्भ में पढ़ें१४० मीमांसादर्शनम् [ सू० समभिव्याहारमात्रेण साध्यसाधनसंबन्धावगतिसम्भवान्न विधिना कश्चिदुपयोग इति भावः । समभिव्याहारमात्रात्साधनत्वावगमेऽपि पुरुषप्रवृत्तिसिद्धयर्थं विध्यपेक्षा भविष्यतीत्या- शङ्कते-पुरुषमिति । साधनत्वावगतौ सत्यामिच्छयैव प्रवृत्तिसिद्धेस्तदर्थमपि न विध्य- पेक्षेति परिहरति-स चेति । यद्वा यूपानुवादेन विधीयमानस्यौदुम्बरत्वस्य यूपद्वारेण क्रत्वर्थत्वावगमात्तत्प्रयोग- वचनेनैवानुष्ठानसिद्धेर्न तदर्थमिह विध्यपेक्षेत्याह-अथ वेति । क्रत्वर्थस्यापि समभि- व्याहारावगतं फलार्थत्वमपि दध्यादिवदविरुद्धमिति भावः । उत्पत्तिविधIREवाऽगत्या अनुष्ठापको भविष्यतीत्याह-पञ्चमी वेति । अर्थवादाद्वा प्रवृत्तिसिद्धेर्न तदर्थं विध्यपेक्षे- त्याह- अर्थवादेति । ऊर्ज्र्जॊऽवरुद्ध्या इत्यस्य पूर्वपक्षे विध्युद्देशान्तर्गतमभ्युपगमात्सिद्धान्ता- भिपायेणैकदेशग्रहणम् । विधिनिरपेक्षस्यार्थवादस्य प्रवर्त्तकत्वानुपपत्तिमाशङ्कय प्रत्ययो- त्खातिवादिमतेनैतदुक्तमिति दर्शयितुमुक्तमेवेत्युक्तम् । सूत्रं व्याख्याय विधिवन्निगदेष्वित्यादिभाष्यं तात्पर्यतो व्याचष्टे - तस्मादिति । यस्मा- द्विध्यभावेऽपि समभिव्याहारमात्रेण साध्यसाधनसम्बन्धबोधः सम्भवति, तस्मात्तस्मिन् फले औदुम्बरतायाः साधनतया विधिरज्ञातज्ञापनमित्यर्थः । प्रायेणैवङ्कामशब्देन फलसमर्प- णात्, अपि चेत्यादिभाष्योक्तं चतुर्थ्या फलसमर्पणमयुक्तमाशङ्कयोर्जोऽवरुद्ध्यै इत्याद्युक्तम् । फलविधिरित्यत्र विधिशब्दस्य शौण्डादिष्वपाठात्सप्तमीसमासानुपपत्तेः, षष्ठीसमास एवायं स्यादित्याशङ्क्याह-नन्विति । विवक्षितार्थलाभायान्यथापि कल्पनं युक्तमिति भावः । भावार्थाधिकरणे फलविध्यनिपेक्षात् भावस्य भावनाख्यस्यार्थः प्रयोजनं फलं विधेयं, न वेति यत्र चिन्त्यते । लिप्सासूत्रस्याद्यवर्णके तद्भावार्थाधिकरणमिहोक्तम् । नन्वस्य फल- परत्वे स्तुत्यभावाद्भिधिरवसीदेत आह-ऊर्गदुम्बर इति । पूर्वाधिकरणे लाक्षणिकस्तु- त्युपयोगाभिधानादिहानर्थक्याभिधानमयुक्तमाशङ्क्याह- तस्मादिति । साध्यसाधनभाव- प्रतिपादनस्य प्रवृत्तिविशेषकरत्वेनार्थवत्तरत्वातदपेक्षया स्तुत्यानर्थक्यमिति भावः । यस्मादुक्तप्रकारेणौदुम्बरतायाः फले विधिः सम्भवति, तस्मादित्यर्थः । अनेन च वादमात्रं ह्यानर्थकमित्यस्य स्तुतिवादस्य निष्प्रयोजनत्वाभिधानप्रतिपादनपरत्वप्रतिपादनार्थमितरथेति भाष्यम्, मुख्यार्थरहितत्वप्रतिपादनार्थं च न चेति भाष्यं तन्त्रेण व्याख्यातम् ॥ १९ ॥ भा० प्र०-पूर्वं के अधिकरण से अर्थ वाक्यों का प्रामाण्य प्रतिष्ठापित किया गया है । प्रकृत में जो अर्थवाद विधि के समान प्रतीत होते हैं, किन्तु विधि नहीं है उन उदाहरणों को प्रस्तुत कर विषय को स्पष्ट किया जा रहा है । इस सूत्र में पूर्वपक्षी के मत का प्रदर्शन है । 'उदुम्बरो यूषो भवति, उर्ग॒ वा उदुम्बर उर्क॒ पशव ऊर्ज्जेवास्मा उर्जं पशूनाप्नोति उज्ज्र्जॊऽवरुद्धयं' (तै० सं० २।१।१) उदुम्बर से निर्मित उदुम्बर होना चाहिए, उर्क॒ अर्थात् अन्न या अन्न का अमृतस्वरूप सूक्ष्म रस ही उदुम्बर होता है, पशु अन्न है