मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 191, कुल 804 में से
संदर्भ में पढ़ें१९ ] प्रथमाध्याये द्वितीयपादः १३९ यामुपयोगित्यर्थवादाधिकरणसिद्धान्ताक्षेपेणैतदधिकरणपूर्वपक्षोत्थानाद्विध्युद्देशचिन्तात्वेऽपि तत्सङ्गत्युपपत्तिः । यद्यर्थवादानां धर्मप्रयोगे प्रतिपादिते कोऽर्थवादः, को वा नेति कोष्ठशोधनिकार्थत्वे- नाधिकरणद्वयस्यार्थवादाधिकरणशेषत्वाभ्युपगमाद्विध्युद्देशचिन्तात्वेऽपि तदसम्भवाशङ्केयम् । अधिकरणद्वयेन सर्वार्थवादाव्याप्तेः कथं कोष्ठशोधनिकेति चेत् ? उच्यते आद्ये विध्येक- वाक्यत्वेन स्तुत्यर्थत्वेऽभिहिते, सिद्धैकान्तिकविध्येकवाक्यत्वानामपि येषां साध्यसाधनांशा- भिधानाद्विध्युद्देशान्तर्गतिराभाति, तेषां तन्निराकरणेन स्तुत्यर्थतेह स्थाप्यते । हेत्वर्था- करणेऽपि अन्वयवाक्यकल्पनेन दर्व्यादिसाधनांशाभिधानाद्विध्युद्देशान्तर्गत्या शङ्कैव निरा- क्रियते । पृथग्विधित्वाशङ्कानिराकरणमधिकरणान्तरेषु भविष्यति । तस्मादधिकरणान्तर- निराकृतपृथग्विधित्वाशङ्कानां सम्भवद्विध्येकवाक्यत्वानामसम्भवाद्दिध्युद्देशान्तर्गतानां सर्वे- षामर्थवादत्वमिहैव स्थापितं भवति । प्रकृतार्थवादत्वसिद्धयर्थत्वाद्विध्युद्देशचिन्ताप्यत्र नासङ्गतेति परिहरति—नैष इति। विध्युद्देशचिन्तावशेन प्रकृतार्थवादत्वरूपार्थपरि- च्छेदादित्यर्थः । एतदेव विवृणोति—यदि हीति । साधनांशे विचार्यमाण इत्यत्र प्रकृतः साधनांशोऽसा- विति सर्वनाम्ना परामृश्यते । एतदधिकरणपूर्वपक्षे च विध्युपयोगानभ्युपगमात्१, अज्ञात- ज्ञापनाभिप्रायं विधीयमानतयेति व्याख्येयम् । तेन यद्यसौ साधनांशोऽज्ञातज्ञाप्यतयाऽपूर्वेण साधनांशप्रतिपादकेनौदुम्बरो यूपो भवतीत्यनेन वाक्यभावनावगतः, ततोऽपेक्षावशेनोज्ज्र्को अवरुध्या इत्यस्य फलसमर्पकत्वान्नार्थवादत्वमित्यर्थः । पूर्वपक्षमाह—तत्रेति । ननूर्जोऽवरुध्या इति तादर्थ्यचतुर्थ्या साध्यावगमेऽप्यपाप- श्लोकश्रवणादेः साध्यत्वावगमभावाद्दूर्जोऽवरुध्या इत्यस्यापि च तैत्तिरीयादिशाखास्व- श्रवणात्कथं साध्यसन्निधान इत्युक्तम् । उच्यते औदुम्बरत्वादेः प्राप्त्यभावाद्दिध्येकवाक्यत्वं च विनार्थवादत्वायोगादर्थवादाच्च विधिकल्पनेऽन्योन्याश्रयत्वापत्तेरवश्यविधेयत्वाद्विधेश्च भावनैकगोचरत्वाद्यूपोद्देश्यौदुम्बरत्वादिभवनस्य पुंव्यापाराधीनत्वात्पुंव्यापाराधीनकत्र्तव्य- त्वप्रतिपादकपदकल्पनेन भवतिशब्दस्यैव वाऽन्तर्णीतप्रयोजकव्यापारवचनस्य पञ्चमलकार- कल्पनेन भावनाविधिप्रतीतेः । भावनायाश्च भव्यनिष्ठत्वाद्योग्यत्वेनोर्गवरोधापापश्लोक- श्रवणादेः साध्यत्वावगतेः साध्यसन्निधानाभिधानं विध्यभावाभिधानं२ चौदुम्बरत्वाद्यु- त्पत्तिविधानाथं कल्पितस्य प्रत्ययस्यान्यत्र व्यापारासम्भवेन साधनत्वबोधकारणत्वा- भावाभिप्रायम् । ननु तृतीयां विनाऽपि योगस्य विधिसामर्थ्यात्साधनत्वं युक्तम् । इह तु तदश्रवणात्, उत्पत्तिसिद्धयर्थञ्च कल्पितस्य विधेरत्राव्यापारात्कथं साधनत्वावगतिरत आह—तत्रेति । १. उत्पत्तिविध्युपयोगानभ्युपपगमादित्यर्थः । २. ताद्रूप्येणानुपामत्तिमित्यत्रार्थाद्विध्यभावाभिधानम् ।