मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 197, कुल 804 में से
संदर्भ में पढ़ें२२ ] प्रथमाध्याये द्वितीयपादः १४५ 'न'=नहीं । इस प्रकार की आशङ्का या उक्ति सङ्गत नहीं है । 'पूर्वत्वात्' क्योंकि लौकिक उक्ति पूर्वं अर्थात् प्रत्यक्ष आदि अन्य प्रमाणों से अवगत या अवगत होने की योग्यता से सम्पन्न है ॥ २१ ॥ उक्तं तु वाक्यशेषत्वम् ॥ १.२.२२ ॥ शा० भा०—उक्तमस्माभिर्वाक्यशेषत्वं—विधिना त्वेकवाक्यत्वादिति । नतूक्तं—फलवचनमिह गम्यते, न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य यूपस्य । न चाविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् । स्तुतिवचनः शब्दो नास्तीति चेत् ? इह फलवचनेन फलवत्ता प्रतीयते, फलवांश्च प्रशस्त इति । तत्र फलवत्तायामानर्थक्यमिति, यो द्वितीयोऽर्थः प्रशंसा नाम, स गम्यते । लक्षणेति चेत् । लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणाऽपि हि लौकिकी । नतूक्तमसंवादो वेदे, न ह्य ृगुंदुम्बर इति । गुणवादेन परोचनार्थतां ब्रूमहे । गौण- त्वात्संवादः । किं सादृश्यम् । यथाऽन्नं प्रीतेः साधनमेवमिदमपि प्रीतिसाधनशक्ति- युक्तं प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते । शक्यते हि तत्पक्वफलसम्बन्धा- दूर्गिति वक्तुम् ॥ २२ ॥ भा० वि०—यदुक्तं ह्यानर्थकमिति तत्राह—उक्तं तु वाक्यशेषत्वम् । तु शब्दः पक्षव्यावर्तकः, विधिना त्वेकवाक्यत्वादिति सूत्रेणार्थवादानां स्तुतिद्वारक- परोचनया विधिवाक्यशेषत्वस्यास्माभिरुक्तत्वात्, नानर्थक्यमिति सूत्रं योजयति— उक्तमस्माभिरिति । एवं स्तुतिद्वारा विध्यङ्गत्वप्रतिपादनेन अपूर्वत्वहेतोराद्यं व्याख्यानं दूषयित्वेदानीं स्तुतिद्वारविध्यङ्गत्वं युक्तं फलस्य श्रूयमाणत्वादिति व्याख्यान्तरमनुवदति—नतूक्तमिति । गम्यमानमपि फलवचनमानर्थक्यभयादन्य- विषयं वक्तव्यमिति दूषयति—यदिहेति । ततः किमत आह—न चेति । पशु- यागाङ्गतया विहितयूपशेषत्वादौदुम्बरस्य यूपस्य नासावविहितोऽस्तीत्यर्थः । ननु तर्हि विहितस्यौदुम्बरस्य यूपस्योर्गविरोधः फलं भविष्यतीत्यत्राह— तत्रेति । प्रकरणादेव यागोपकारप्रयोजनलाभात् फलान्तरोक्तिरनर्थिकैवेत्यर्थः । यदि वा न चेत्यादेरयमर्थः—औदुम्बरो यूपो भवतीति वर्तमानापदेशत्वादर्थ- वादेन विधिर्नेयः, अनर्थवादत्वे त्वविहितत्वान्नास्त्येव यूपः तथा सति फल- वचनमेवानर्थकमिति । ननु स्तुतिरित्यश्रूयमाणत्वादनादेयेति शङ्कते—स्तुतीति । वाचकशब्दा- भावेऽपि स्तुत्यवगतिं दर्शयन् फलवचनसिद्धमर्थं कथयति—इहेति । फलवत्ता औदुम्बरयूपस्य प्रशस्ता इति प्रतीयत इत्यनुषङ्गः । १०