मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 199, कुल 804 में से
संदर्भ में पढ़ें२२ ] प्रथमाध्याये द्वितीयपादः १४७ विशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धम्, न फलार्थता । यूपशब्दोऽपि च कर्मा- विष्टकाष्ठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश्च प्रसिद्धे पारार्थ्येऽर्थवादता । यत्तु यूपे निराकाङ्क्षो जातिं प्रतीति शरवद्बाधो भविष्यति । न चाबाधप्रकारोऽस्ति, काम्यपक्षेऽपि तदभ्युपगमात् । एतावांस्तु विशेषः । तव पुरुषार्थत्वाद्विन्नविषयेण सता कथञ्चित्प्रसङ्गलभ्यसमानाश्रयत्वेन, मम तूभयोः क्रत्वर्थत्वात्समानविषयेणेति । न चात्र जातौ फलाय विधीयमानायां दध्न इव होम आश्रयो मनसि विपरिवर्तते । यो हि पशुयागः प्रकृतः स तावदयोग्यः । पशु- नियोजनं च यूपद्वारेण योग्यं तदपि सह यूपेनाप्रकृतम् । न चानर्थक्यात्तदङ्गेषु इति प्रधानादवतीर्य तदङ्गमाश्रीयते । यो हि प्रधानोपकारित्वेन श्रूयते, स तद- ङ्गेऽपि स्थित उपकरोतीत्येवं कल्प्यते, न त्विह तथा । अत्र हि प्राधान्यांशभाजा गुणेनाश्रयः प्रार्थ्यते । तत्र प्रधानं सन्निहितं तद्यदि न योग्यं ततो वचनव्यक्त्य- न्तरमाश्रीयताम्, न चावतरणं सम्भवति । न चानेनैव वाक्येनाऽश्रयो दीयते वाक्यभेदप्रसङ्गात् । द्वौ हि सम्बन्धौ तदा स्यातां गुणफलसम्बन्धस्तदाश्रयसम्बन्ध- श्चेति । युगपच्चौदुम्बरताफलयूपो प्रत्युपादीयमानोद्दिश्यमाना विरूपा स्यात् । अथोभयोद्देशेन विधीयते, तथाऽपि फलाननुरक्ता यूपेन सम्बध्येत यूपाननुरक्ता च फलेन । यत्तु विनैव विधायकात्स्वेच्छयैव प्रवर्तिष्यामह इति स्वच्छन्देन सह नास्ति विधिवादः । पुरुषार्थफलत्वं तु न प्राग्विधेः सिध्यति सन्निहिततरोदुम्बर- त्वादिसाध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु तस्य शक्तिः । असंयुक्तं प्रकरणादिति (जै. सू. ३.३.४) वक्ष्यति । यदि तु तेन विधीयते, सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्तमानापदेशेन सन्दिग्धम् । तस्माद्वर्त- मानफलाभिधायित्वाच्चतुर्थे चैवं कामशब्दरहितस्य फलविधित्वनिराकरणा- त्प्रधानफलमेवेदं परोचनायै संकीर्त्यत इति युक्तम् । सर्वत्र च स्तुतिपरत्वात्तदु- पायेषु सत्यासत्यान्वेषणं व्यर्थम् । ज्ञानमात्रौपयिकत्वात् । गुणवादेन च संवादात् । साधनत्वेऽपि च प्रीतिसाधनत्वेन, तृप्तिहेतुत्वेन वा संवादः ॥ २२ ॥ न्या० सु०—अत्र भाष्यकृता वाक्यशेषत्वे विध्येकवाक्यत्वं हेतुमनुवदता शेषशब्दः स्तुतिद्वाराङ्गत्वाभिप्रायो व्याख्यातः । तत्रोर्जं पशूनाप्नोतीत्येतदन्तेन स्तुतिसिद्धेरूर्जो ऽवरुद्ध्या इत्यस्य फलपरत्वमविरुद्धमित्याशङ्कयाह - ऊर्गुदुम्बर इति । उभयसम्भवे, तर्हि फलपरतैव कस्मान्नेष्यते अत आह—तत्रेति । यद्यप्यौदुम्बरो यूपो भवेदिति लिङ्गादि स्यात्, तथाप्यूर्गुदुम्बर इत्यादि कृत्स्नवाक्यशेषमर्थवादतयैव गृह्णीयान्न फलपरतयेति सावधारणं द्रष्टव्यम् । लिङादेर्विधायकत्वेनार्थवादापेक्षत्वात्सुतरामित्युक्तम् । फलाकाङ्क्षा- निवृत्तिस्तु प्रकरणात् क्रत्वर्थत्वावगतेः सेत्स्यतीति वक्ष्यमाणोऽभिप्रायः । भवतीति तु वर्त्तमानापदेशो न फलपरतया वाक्यशेषं ग्रहीतुं शक्त इत्याह—किमुतेति । विपूर्वस्य