भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 200, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 200

१४८ मीमांसादर्शनम् [ सू० दधातेः करोत्यर्थवाचित्वादुत्पादनं विधिशब्देनाभिप्रेतम् । तेनायमर्थः-न तावद्यावच्छ्रुतस्य भवतीति वर्त्तमानापदेशस्य फलाकाङ्क्षा, तदन्यथानुपपत्त्या कल्पिते भावनाविधौ सत्यामपि फलाकाङ्क्षायामौदुम्बरत्वस्वरूपोत्पादनार्थं कल्पितस्य लिङादेः तन्मात्रोपमान्न साधनत्व- बोधे व्यापारोऽस्तीति । नन्वौदुम्बरत्वकर्त्तव्यतार्थं कल्पितस्य विधेः फलपर्यन्तत्वानभ्युपगमे फलाभावादव- सादः स्यात् । अत आह—प्रकरणञ्चेति । वैकृतस्याप्यौदुम्बरत्वस्य प्राकृतयूपारूपाख्याङ्ग- सम्बन्धित्वेनोत्पत्तेः पृषदाज्यादिवत्प्रकरणग्रहणाविरोधः, विधिरहितस्य समभिव्याहार- मात्रस्य फलप्रतिपादकत्वमाशङ्क्य वाचकादित्य उक्तम् । अवाचकमितिपाठे नास्तिवाचकं यस्योगंवरोधादिनः फलस्य तदिति बहुव्रीहिः । समभिव्याहारात्मना वाक्येन फलार्थत्वा वगमात् प्रकरणबाधमाशङ्कते – प्रकरणमिति । समभिव्याहारावगतस्य फलार्थत्वस्य वक्ष्य- माणनिराकरणाभिप्रायेण परिहरति—नेति । अवाधमेवोपसंहरति—तस्मादिति । कृत्स्नस्य च वाक्यशेषस्य फलपरत्वे विध्युद्देशस्यैव शक्तिद्वयकल्पनापत्तेर्गौरवं स्यादित्यर्था- न्तरन्यासेनाह—प्ररोचनापि चेति । न च तत्कल्पनं विना विधिपर्यवसानमित्याह— अन्यत्रेति । अत्र तु प्ररोचनाकल्पनमप्यतिकलेशेन निर्वोढव्यम्, विधेरपि कल्प्यत्वादित्याह- इह त्विति । विध्युद्देशातिगौरवपरिहारार्थं तर्हि प्ररोचनापि वाक्यशेषादेव भविष्यतीत्याशङ्क्य, तन्निराकरणार्थं पर्णमय्यधिकरणन्यायमुपन्यस्यति—न चेति । अस्ति प्रयोजनसिद्धिरित्यनेन पारार्थ्यं दर्शितम्, काष्ठविशेषपरिच्छेदकत्वेन चोदुम्बरजातेर्बहादपि पारार्थ्यमवसीयत इत्याह—जातिविशेषस्येति । ऐकान्तिककाष्ठाङ्गतयाऽक्रियारूपत्वेन फलार्थत्वयोग्यता निराकृता सत्यपि काष्ठाङ्गत्वे यूपाङ्गत्वं कथं सिद्धयतीत्यपेक्षायाम्, यूपशब्दोऽपि चेत्याद्युक्तम् । पारार्थ्यसाधनस्योपयोगमाह—अतश्चेति । यत्तु पौनरुक्त्यपरिहारावसरे पारार्थ्याभावान्न प्राकृतखादिरादित्वालाभान्नैराका- ङ्क्ष्यमुक्तम्, तदनुभाष्य दूषयति—यत्त्विति । यथा श्येनेत्यस्य शरमयं बर्हिरिति प्रत्यक्षो- पदिष्टैः शरैरतिदेशप्राप्तानां कुशानां बाधस्तद्वदत्रापीत्यर्थः । बाधप्रसङ्ग एव तर्हि दोषः, अत आह—न चेति । वरं क्रत्वर्थत्वे समानविषयत्वाद् बाधो युक्ततर इत्याह— एतावांस्त्विति । प्रकृताश्रयालाभादप्यत्र गुणफलसम्बन्धो न युक्त इत्याह—न चात्रेति । तमेवोपपादयति—यो हीति । पशुविशेषणयागस्य सौमापौष्णं त्रैतमालभतेति त्रिवर्णपशु- द्रव्यकत्वेनोदुम्बरवृक्षद्रव्यसाध्यत्वायोग्यतोपपादनार्थम् । न चाप्रकृतस्यापि नियोजनस्याति- देशप्राप्तस्याश्रयत्वं शङ्कनीयम् । प्रकृतौ हि प्रत्यक्षोपदिष्टस्य होमप्रणयनादेः पश्चाद्धाना- पेक्षायां पयश्चमसादिवत्फलार्थस्यापि दधिगोदोहनादेराश्रयभूतसाध्यापेक्षादर्शनादुभया- काङ्क्षावशात्साधनत्वमवसीयते । न चैतावताऽङ्गत्वप्रसङ्गः, तादर्थ्येन विधानाभावात् । अत एव गुणकामप्रयोगे प्रासङ्गिकोपकारिणा गोदोहनादिना सिद्धौ चमसादेरनङ्गत्वेन तदभावे वैगुण्याभावादनादरः । विकृतौ त्वखण्डकरणोपकारमुखेन कॢप्तोपकारप्राकृत-