मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 201, कुल 804 में से
संदर्भ में पढ़ें२२ ] प्रथमाध्याये द्वितीयपादः १४९ खादिरत्वादिविशिष्टस्यैव नियोजनस्यातिदेशात्साधनानाकाङ्क्षस्य परार्थे विहितसाधनान्तर- ग्राहकत्वन्न युक्तम् । अन्यतराकाङ्क्षाहेतुकस्य सम्बन्धस्येतराकाङ्क्षोत्थापनपूर्वकत्वाद्विधि- मन्तरेणाकाङ्क्षोत्थापनायोगात् । ननु प्रकृतः पशुयागः साक्षादयोग्योऽप्यङ्गभूतयूपद्वारेणाश्रयो भविष्यत्यत आह— न चेति । एवं कल्प्यत इति प्रधानादवतीर्य तदङ्गाश्रयत्वेन कल्प्यत इत्यर्थः । वचनव्यक्त्य- न्तरमित्यौदुम्बरत्वेनोर्गवरोधं भावयेदितिवचनव्यक्त्यपेक्षयौदुम्बरत्वेन यूपं भावयेदित्यभि- प्रेतम् । न चावतरणमिति अचोदकाश्च संस्काराः (जै० सू० २-२-१८) इति वक्तुशब्दार्थे चशब्दः । न त्ववतरणं सम्भवतीत्यर्थः । यद्वा तेनाभ्युपगम्यावतरणं होमसाधनत्वेन साक्षादङ्गभूतायां जुह्वां सम्भवद्यूपे न सम्भवतीत्युच्यते । अस्मिन्व्याख्याने सम्मतं यूपे यदवतरणम्, तन्न सम्भवति-न सिध्यतीति सम्मतवचनः सम्भवशब्दः । अनेकार्थत्वान्निपातनोपसर्गाणां सम्यगर्थस्य वा संशब्दस्य लक्षणयात्र सम्मतवचनत्वमेष्टव्यम् । यूपानवतरणे च यूपशब्दानर्थक्यप्रसङ्गो दोषः । ननु प्रकृताश्रयालाभेऽपि वाक्येनाश्रयलाभो भविष्यत्यत आह—न चानेनैवेति । न केवलमनेकार्थविधिलक्षणो वाक्यभेदः, किं तु वैरूप्यलक्षणोऽपीत्याह—युगपच्चेति । यूपस्याश्रयभूतस्यौदुम्बरतोपकारित्वेन गुणभूततयोपादेयत्वात्तं प्रत्युदुम्बरताया उद्देश्यत्वा- दिति भावः । नन्वाश्रयस्यापि साध्यत्वेन प्रधानतयोद्देश्यत्वाद्वैरूप्यं स्यादत आह—अथेति । एवं सत्युद्देश्ययोः फलयूपयोर्गुणभूतौदुम्बरतावशीकाराभावेनान्योन्यनियमायोगादाश्रयाला- भस्तदवस्थ एवेति भावः । प्रत्युद्देश्यं वाक्यसमाप्तेर्वाक्यभेदोऽपि चशब्देन सूचितः । एवं पर्णमयीन्यायेन स्तुत्युपयुक्तस्य परावृत्त्य फलपरत्वायोगादूर्गुदुम्बर इत्यादेः फलपरत्वे प्ररोचनार्थत्वाभावाद्विध्युद्देशातिगौरवमपरिहार्यमिति प्रकृतोपयोगः । ननु समभिव्याहारादेव फलसाधनत्वावगतौ सत्यां विधिमन्तरेणेच्छयैव प्रवृत्तेर्न प्ररोचनया कार्यमत आह—यत्त्विति । साधनत्वप्रतिपत्तौ विधिव्यापारानभ्युपगमे भावना- या भाव्यापेक्षायामप्यौदुम्बरो भवतीत्यौदुम्बरत्वस्यैव भवनकर्तृत्वेन सन्निधावुपात्तस्य साध्यांशे निवेशापत्तेरूर्जोऽवरुध्या इति चतुर्थी व्यवधावुदात्तस्याप्यूर्गवरोधस्य तदवरुद्धायां भावनायां निवेशायोगद्यूूपविशेषणत्वापत्तेरपुरुषार्थोपयिकत्वान्नोदुम्बरत्वमावनायां बुद्धिपूर्व- कारी कश्चित्प्रवर्त्तेतेत्यर्थः । नन्वौदुम्बरो यूपो भवतीत्युत्पत्तिविधेः फलसाधनत्वबोधे व्यापाराभावादप्रसक्तत्वेऽपि प्रयोगवचनात्प्रवृत्तिः सेत्स्यतीत्युक्तम्, अत आह—यत्त्विति । संयोगपृथक्त्वभावात्पुरुषार्थत्वे सति क्रत्वर्थत्वायोगादिति भावः । पञ्चमलकारत्वस्य चाडागमादिचिह्नाभावेनानिश्चया- त्कल्पस्योत्पत्तिविधेर्विनियोगवत्प्रयोगेऽपि व्यापारो न युक्त इत्याह — पञ्चमेति । फलसङ्की- र्त्तनस्यालम्बनं दर्शयन् सिद्धान्तमुपसंहरति—तस्मादिति । एतदधिकरणव्युत्पाद्यं विधि-