मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 205, कुल 804 में से
संदर्भ में पढ़ें२३ ] प्रथमाध्याये द्वितीयपादः १५३ ननु वेतसग्रहणेनोपलक्षितत्वादवकानामग्निविकर्षणसाधनत्वेन विहितानां स्तुत्यर्थं भवतु नाम भाष्येऽद्भिः सम्बन्धकथनम्, शमयित्रीत्वविशेषणत्वमपां किमर्थम् अत आह— तावता त्विति । यद्यपि स एवैनं योनौ प्रतिष्ठापयति इत्यप्सुजे वेतसेऽश्वचयने कृते प्रकृति- विकारयोरभेदोपचारेण वेतसप्रकृतिभूतास्वप्सु चयनात्स्वयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिः प्रतीयते, तथापि स्वयोनिप्रतिष्ठापनमात्रेण परोचनाऽनुपपत्तेर्वैतसशाख्यावकाभि- श्चाग्निं विकर्षति, आपो वै शान्ताः, शान्ताभिरेवास्य शुचं शमयतीति वाक्यान्तरगतार्थ- वादाभिहितमपां शमयित्रीत्वं यजमानकष्टशमनसाधनत्वोपपादनाथं भाष्यकृतोक्तम् । अवकानां त्वप्सुजो वेतस इत्यनेन सहचरणलक्षणयाऽद्भिः सम्बन्धनाभिधानेऽपि अत्राविधानादनपेक्षित- स्तुत्यप्रतीतेर्वाक्यान्तरगतार्थवादेनापां शमयित्रीत्वेऽभिहितेऽप्यग्निविकर्षणसाधनत्वेन विहि- तयोर्वैतसावकयोः स्तुत्यप्रतीतेस्तत्प्रशंसोपपादनार्थमद्भिः सम्बन्धो भाष्यकृता कथितः । अर्थवादान्तरापेक्षाप्रवृत्तानामित्यश्वविषयेऽर्थवादान्तरस्यापेक्षया प्रवृत्तानामिति षष्ठीसमासग- र्भस्तृतीयासमासः । अवकाविषये त्वर्थवादान्तरेणेति तृतीयासमासगर्भः । अर्थवादान्तरमुदाहरति-आप इति । कथमस्यार्थवादान्तरस्याप्सुयोनिर्वा अश्व इत्यनेनापेक्षा, कथञ्चानेनार्थवादान्तरेणाप्सुजो वेतस इत्यस्यापेक्षा इत्याशङ्क्याह- अनेन हीति । अश्ववेतसामिजनभूतानामपां शमयित्रीत्वेन प्राशस्त्याभिधानेन तदभिजातयोरश्व- वेतसयोः प्राशस्त्यावगमात् तदर्थमपेक्षेत्यश्वविषये अर्थः । अवकाविषये त्वविधेयानामपां शमयित्रीत्वेन प्राशस्त्यमुच्यते, न विधेययोर्वैतसावकयोरिति तत्प्राशस्त्यावगमायाऽप्सुजत्वा- भिधानापेक्षेति व्याख्येयम् । कीदृशीं स्तुतिं दर्शयतीत्यपेक्षायामाह- तत्रेति । कस्यचित्प्र- सिद्धाप्सम्बन्धस्य वेतसावकस्याप्सुजो वेतस इत्यप्सम्बन्धमात्रकीर्त्तनादेवापो वै शान्ता इत्यर्थवादप्रतिपाद्या स्तुतिः सिद्ध्यति । अन्येषां त्वप्रसिद्धाप्सम्बन्धानामनश्वादीनां वस्तुतोऽ- सन्नप्यप्सम्बन्धः प्राशस्त्यज्ञानार्थं कीर्त्यते । कीदृशं प्राशस्त्यमित्यपेक्षिते प्रसिद्धेत्याद्युक्तम् । प्रसिद्धः शान्तत्वेन सह सम्बन्धो यासामपां तास्तथोक्ता इति व्याख्येयम् । भाष्यमेवं योज्यम् । अश्वस्यावकानां चेति चकारेणं वेतसग्रहणम् । तत्राश्वविषये अश्वस्य वेतसस्य च शमयित्रीभिरद्भिश्चशान्ताभिरेवास्य शुचं शमयतीति सहयोगतृतीयान्त- पदनिर्दिष्टामिः सह सम्बन्धोऽस्य शब्दनिर्दिष्टस्य यजमानस्य शुकशब्दवाच्यं कष्टं शमय- तीत्यर्थः । अवकाविषयत्वेऽवकानां वेतसस्य चाद्भिः सम्बन्ध इत्यर्थः । स्वयमुदाहृतेष्वर्थवादान्तरेषु स्तुतिस्वरूपमाह-एवमिति । तत्सामान्यादिति सूत्रा- वयवव्याख्यानार्थं तथोतभाष्यं व्याचष्टे-इति स्तुतित्वे इति । अनेन यावत्स्वर्थवादेषु अप्सु योन्याद्यर्थवादसमानप्रकारत्वम्, तावत्सु स्तुतित्वमिति व्याख्यातम् ॥ २३ ॥ भा० प्र०-पूर्वपक्षी के कथन का अभिप्राय यह है कि स्वतन्त्र रूप में अर्थवाद प्रमाण नहीं हो सकते हैं, उनके प्रमाण्य की स्थापना के लिए ही वाक्यार्थ में लक्षणा मानकर विधिवाक्य के साथ एक वाक्यता माननी पड़ती है । किन्तु, अर्थवाद को विधि के अर्थ