भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 204, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 204

१५२ मीमांसादर्शनम् [ सू० त० वा०—यदि चैवंजातीयका विधयो भवेयुः, ततः पूर्वोदाहृताः सर्व एव द्रव्यगुणक्रिया विधयो भवेयुः । वायुः क्षेपिष्ठा देवता कर्तव्याः, अप्सुयोनिरश्वः कर्तव्यः, अप्सुजो वेतसोऽवकाश्च कर्तव्यः, आपः शान्ताः ऊर्गुदुम्बर इत्यादि । तत्र यद्यपि के चित्क्रियादिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः स्वभावसिद्धेः प्रयत्नेनापि चानिष्पत्तेः वायुवेतसावकादिषु स्वभावसिद्धिः । अश्वादुम्बरादीनाम- शक्यता । कीदृशी स्तुतिस्तां दर्शयति—शमयित्रीभिरद्भिरित्यादि । तत्रासंगतो ग्रन्थ इति व्याख्यातारः समर्थयन्ते । यस्मादिहावकातत्सम्बन्धयोः शमयितृत्वस्य च नैवोपन्यासः कृतो वेतस उपन्यस्तः सोऽपि स्तुतिवेलायां न प्रदर्शित इति । तत्र त्वियं गमनिका । वेतसोदाहरणेनैव तुल्यत्वादवकादीन्यप्यु- दाहृतानि । न चायमश्वावकयोः परस्परेण सम्बन्धः कथ्यते । केन तर्हि ? अद्भिः । तावता तु न स्तुतिः काचिदुन्मीलितेत्यर्थवादान्तरापेक्षाप्रवृत्तां तां दर्शयति—आपो वै शान्ता (तै० सं० ५.२.४) इति । अनेन हि विधित्वात्प्रच्युते- नापां प्राशस्त्यमुच्यते । तत्र कस्यचित्प्रसिद्धाप्सम्बन्धस्य तन्मात्रसंकीर्तनादेव स्तुतिर्भवति । अन्येषां तु सम्बन्धिसम्बन्धात्सम्बन्धः कीर्त्यते । प्रसिद्धशान्तत्व- सम्बन्धाभिरद्भिः सम्बन्धादश्वादिरपि शान्तात्मकस्तत्सम्बद्धेन च कर्मणा यज- मानस्य कष्टं शाम्यतीत्येवंविधप्राशस्त्यज्ञापनार्थम् । एवं क्षिप्रदैवतेन शीघ्रं फलप्राप्तिरन्नमयेन च यूपेनान्नप्राप्तिरिति स्तुतित्वे सिद्धे तत्समानन्यायानामप्येव- मात्मकत्वम् ॥ २३ ॥ न्या० सु०—अत्र भाष्यकृतऽप्सु योनिर्वा अश्व इत्यादीनामानर्थक्यापत्तेर्विधित्वं न सम्भवतीत्युक्तम् । तदयुक्तम् । फलविधिसरूपाणामेव पूर्वपक्षिणा विधित्वस्योक्तत्वादित्या- शङ्कयाह—यदि चेति । विध्यन्तरैकवाक्यभूतानामपि विधिपरत्वाङ्गीकारे तुल्यन्याया- त्सर्वत्राप्यापाद्य दूषणमुच्यत इत्यर्थः । सर्वग्रहणं वायुक्षेपिष्ठादीनामपि तर्हि कस्मान्न विधित्व- मापद्यत इत्याशङ्कानिवृत्त्यर्थं क्वचिद्ग्रहणम् । तर्हि सूत्रे किम् ? अत आह—तत्रेति । के- चिदिति । निवीतं मनुष्याणामित्यादय इत्यर्थः । शमयित्रीभिरित्यादिभाष्यं स्तुतिरूपप्रदर्श- नार्थत्वेन व्याचष्टे—कीदृशीति । आक्षिपति—तत्रेति । अग्रन्थः प्रतिभातीति मत्वा समर्थ- यन्तऽत्यर्थः । अग्रन्थत्वमेव वा समर्थयन्त इति । स्वयं समर्थयते—तत्र त्वियमिति । पूर्वव्याख्यायां समर्थनं दर्शयतीत्यवतारणीयम् । तत्रावकाशमयित्रीत्वानुपन्यासं तावत्प्रत्याचष्टे—वेतसेति । अश्वावकयोः सम्बन्धस्य तु भाष्यकारेणाकथितत्वादनुपन्यासो न दोषायेत्याह—न चायमिति । इह च वैतसे कटे अश्वं चिनोति, अप्सुयोनिर्वा अश्वोऽप्सुजो वेतसः स वैनं योनौ प्रतिष्ठापयतीत्येतावकानामह्निः सम्बन्धाश्रवणेऽपि, वेतसशाखयावकाभिश्चाग्निं विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीत्यत्र वेतसवत्तासामप्यद्भिः सम्बन्धस्य स्तुतिसिद्धयर्थं वाच्यत्वादप्सुजो वेतस इति अप्सुजत्वाभिधानमवकानाम्प्सुजार्थसाहचर्यादुपलक्षणमित्यभिप्रेत्यावकाग्रहणम् ।