मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 203, कुल 804 में से
संदर्भ में पढ़ें२३६] प्रथमाध्याये द्वितीयपादः १५१ विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् ॥१. २. २३॥ शा० भा०-अप्सुयोनिर्वा अश्वो अप्सुजो वेतसः (तै. सं. ५।३।१२) इति अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्त्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्प- यितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च सम्बन्धो यजमानस्य कष्टं शमय- तीति । तत्सामान्यादितरेषु तथात्वम् । तथेतियावत् तावत्तथात्वमिति । किं तत्सामान्यम् । विध्यसम्भवः, स्तुतिसम्भवश्च ॥ २३ ॥ भा० वि०-सम्भद्विध्येकवाक्यत्वानामपि पृथग्विधित्वमभ्युपगमे तुल्यन्या- यतयान्यत्रापि प्राप्तिमभिप्रेत्याह-विधिश्चेति । क्वचिदित्युक्तं विषयं दर्शयन् विधिश्चेति व्याचष्टे-अप्सित्वत्यादिना । अश्वस्य प्रयत्ननिष्पाद्यत्वात् तद्विधेर- शक्यत्वं वेतसादेस्तु स्वभावसिद्धत्वादिति मन्तव्यम् । तथा किमित्याशङ्क्य तस्मादित्यादि व्याचष्टे-तत्रेति । आनर्थक्यमेवास्त्वित्याशङ्क्य तन्निरासाया- वश्यमित्युक्तम् । स्तुतिमभिनयति-शमयित्रीभिरिति । अवकानां चेति चशब्दो वेतसविषयः, तेनैवमन्वयः अश्वस्य वेतसानां च शमयित्रीभिरद्भिः सम्बन्धो यजमानस्य कष्टं शमयत्यवकानां वेतसानां च ताभिस्सम्बन्धो यजमानकष्टं शमय- तीति स्तुतिः कल्पयितव्येति । यद्यप्यवकानां नोदाहरणे श्रवणमस्ति, तथाप्य- ब्योनित्वाविशेषाद्वेतसपदेनैव उपलक्षिताः । न च स्व एवैनं योनौ प्रतिष्ठापयती- त्यनेनाप्सु जाते वेतसेऽश्वस्य चयने कृते प्रकृतिविकारयोरभेदोपचारेण वेतस- प्रकृतिभूतास्वप्सु चयनात् स्वेयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिप्रतीयते । शमयित्रीत्वस्य चापामश्रवणात् कथं तद्द्वारा स्तुतिरिति वाच्यम्, स्वयोनि- प्रतिष्ठापनमात्रोक्त्या परोचनानुपपत्तेः 'वेतसशाखया वल्काभिश्चाग्निं विकर्षति' आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति' इति वाक्यान्तरगतार्थवाद- भणितशमयित्रीत्वस्य यजमानकष्टशमनसाधनत्वोपपादनार्थत्वेनोपादानात् । न च वेतसवाक्येन सहचारादुपलक्षितानामप्यवकानामविधेयत्वान्न स्तुत्यपेक्षेति वेदि- तव्यम् अत्रार्थवादान्तरेणापां शमयितृत्वे गदिते तत्राग्निविकर्षणसाधनत्वेन विहितयोः वेतसावकयोः स्तुत्यभावशङ्कानिरासायावकानाम् अद्भिरस्सम्बन्धेन स्तुतिप्रदर्शनोपपत्तेरिति द्रष्टव्यम् । तत्सामान्यादित्यादिसूत्रावयवमादाय व्याचष्टे- तथेति । यावत्सु फलविधि- सरूपेषु अर्थवादेषु तथेति अप्सु योन्याद्यर्थवादसमानाकारता तावत्सु तथात्वं स्तुतित्वमित्यर्थः प्रश्नपूर्वकं तत्सामान्यादिति व्याकुर्वन् तथेत्युक्तं प्रपञ्चयति- किमित्यादिना ॥ २३ ॥