मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 220, कुल 804 में से
संदर्भ में पढ़ें१६८ मीमांसादर्शनम् [ सू० नुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य तच्छ्रुतेरेवानुवाद- त्वात् उपलक्षणार्थं शूर्पग्रहणम्, तेन शूर्पेणान्येन वा होमे कर्तव्य इत्यर्थः । ननु शूर्पेण जुहोतीति श्रुतं विधिं परित्यज्य शूर्पश्रुतेः उपलक्षणार्थत्वं चाश्रित्य तेन ह्यन्नमिति हेतुनिर्देशान्यथानुपपत्त्या अश्रुतविधिकल्पने किं प्रयो- जनमिति पृच्छति--किमिति । उत्तरं - अन्यदपीति । शास्त्रस्य महाविषयत्वं तेन च यस्य कस्यचिदन्नकरणस्य सर्वदा लाभात् पुरुषस्यानुष्ठानसौकर्यं प्रयोजनमिति भावः । ननु शूर्पश्रुतेरुपलक्षणार्थत्वेऽपि तेनेति साधकतमार्थया तृतीया कथं दर्व्या- दीनां करणत्वप्राप्तिस्तेषामसाधकतमत्वादिति चोदयति-कुत इति । अर्थवत्त्व- पदव्याख्यानेन परिहरति-तस्यापीति । दर्व्यादेरप्यन्नक्रियायामुपयोगमात्रमस्त्ये- वेत्यर्थः । तथापि तेनेति तृतीयोक्तसाधकतमत्वासिद्धिरित्याशङ्क्योपपत्तिपदं व्याचष्टे-शक्यते चेति । नात्र तेनेति साधकतमत्वमभिप्रेतम्, किन्तु लाङ्गलाद्य- पेक्षया दर्व्यादीनामन्तरङ्गसाधनत्वं तावन्मात्रेण तृतीयोपपत्तिरिति भावः । यद्वा पूर्वभाष्य एवार्थवत्त्वपदेनापेक्षितं करणत्वं तृतीयालम्बनमभिधाय क्रियत इति वर्तमानान्नक्रियतापदिष्टस्य कथं होमसंबन्धे हेतुत्वमुच्यते, एकस्य युगपत् क्रियाद्वयायोगादित्याशङ्क्योपपत्तिपदं व्याचष्टे-शक्यते चेति । अत्र क्रियत इति करोतिना तच्छक्तिमुपलक्ष्य तस्यावर्तमानत्वमभिधीयते । अथवा लटा भूतभविष्यद्वाचिनोः लुङ्लिटोरर्थः क्रियायामेव लक्ष्यते, उभयथापि तेनान्नं क्रियते=कर्तुं शक्यत इति श्रुत्यर्थोपपत्तिशब्देनोक्तमित्यर्थः । ननु करोत्यादेर्मुख्यार्थपरित्यागेन लाक्षणिकार्थत्वं कस्मादाश्रीयते तत्राह- एतद्धीति । कर्तुं शक्यत्वं तत्र हेतुर्नहीति यस्मान्न वर्तमानक्रियाकालः कश्चि- द्दर्व्यादिहोमसाधनमस्ति यस्यार्थस्यायं क्रियत इति प्रतिनिर्देशो व्यपदेशः । तस्माल्लक्षणाश्रयणमिति योजना । यदा तु वर्तमानः काल इति पाठः तदा न हि वर्तमानः कालोऽन्नक्रियाया अस्मिन् प्रयोगे सम्भवति, होमसाधनत्वानुपपत्तेः यस्य क्रियत इति प्रतिनिर्देश इति योज्यम्, एवमर्थवत्त्वोपपत्तिभ्यां इति व्याख्या- यार्थवत्त्वमन्यथा व्याचष्टे-हेतौ चेति । शब्दः=हि शब्दः स्तुताविति सर्वजना- भिमतेनान्नकरणत्वेन प्रशस्त्यं लक्ष्यत इत्यर्थः । ननु त्वत्पक्षेऽपि साधकतमार्थंतृतीयायापेक्षितसाधनत्वस्य कृञादिशक्तिवर्त- मानत्वस्य लटा वा भूतभविष्यत्वयोर्लक्षणयापद्येतेत्याशङ्क्य सिद्धान्तेऽपि शूर्प- विषये सा तुल्येति वक्तुं व्यर्थे स्तुतिरिति सूत्रं तस्यार्थं सकलपूर्वपक्षसङ्कलना- यात्रैवाह-यदि चेति । व्यर्थे तस्मिन्निति दर्व्यादिस्साधकतमत्वाद्यभावेनार्थशून्ये