मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 221, कुल 804 में से
संदर्भ में पढ़ें२७ ] प्रथमाध्याये द्वितीयपादः १६९ तस्मिन् हेतौ शूर्पेऽपि तदभावेन स्तुतिरनर्थिका स्यादित्यर्थः, एतदेव विवृणोति- शूर्पमपीति । तेन साधकतमत्त्वादिना विनेत्यर्थः । तत्र तुशब्दार्थमाह-एतदिति । हेतुपरत्वम्, शब्दपूर्वत्वादिति व्याचष्टे- शब्देति । अन्नकरणत्वस्य होमे हेतुताया मानान्तरागोचरत्वादिति भावः । ततः किमित्यत आह-शब्दश्चेति । शूर्पहोमे=शूर्पेण होमे कर्तव्ये इत्यर्थः । शूर्पेणेति तृतीयाश्रुत्या शूर्पस्य होमकरणत्वावगमात् आनुमानिकदर्व्याद्यप्राप्तेः होमस्य च शूर्पेण निराकाङ्क्षत्वाच्छूर्पहोम एव हेतुत्वमित्यर्थः, तथाप्यन्नकरणत्वस्य शूर्पहोमसंबंधे हेतुत्वमेवेत्याशङ्क्य शूर्पेण जुहोतीति विधिसिद्धत्वेन हेत्व- नपेक्षत्वात् स्तुतित्वमेवेति स्तुतिरिति । सूत्रावयवो योज्यः । निगमनतया सूत्र- शेषं योजयति-तेनेति । यस्माच्छब्दपूर्वकं शूर्पस्य करणत्वम्, यस्माच्च हेत्व- पदेशस्य स्तुतित्वेनोपपत्तिः तस्माच्छूर्पश्रुतिविरोधाद्धेत्वपदेशानुपपत्त्यभावाच्च न दर्विपिठरादेः होमसाधनत्वचोदना तदनुमानमित्यर्थः । न च शूर्पश्रुतिः अव्युत्पत्यानुवादत्वादान्न होमकारणत्वपरेति वाच्यम्, विध्युद्देशपातिन्यास्तस्यास्तद- पेक्षितहोमकरणसमर्पकत्वे संभवत्यनुवादत्वकल्पनानुपत्तेरिति द्रष्टव्यम् ॥२७॥ त० वा०-शूर्पेणेति तावत्करणविभक्तिश्रुत्यैवावरुद्धो होमो नानुमानिकैर्द्द- र्विपिठरादिभिः सह बाधविकल्पसमुच्चयान्प्रतिपद्यते । होमश्च तेन निराकाङ्क्षी- भूतो नान्यत्प्रार्थयते । अनुत्थितायामेव दर्विपिठारादिश्रुतौ शूर्पं प्राप्नुवच्छ्रुत्यनुमानं प्रतिबध्नाति । तेन ब्रवीति अचोदना च तस्येति । हेत्वपदेशश्च स्तुत्यैवोपपद्य- मानः सन्नाश्रुतदृष्टान्तकल्पनायै प्रभवति । शूर्पश्रुतिश्च विध्युद्देशपातिन्यनन्य- प्रयोजना विस्पष्टा च सती परित्यक्तुं न युज्यते । तस्माद्यद्वाऽन्नकरणत्वादित्येष कर्तव्य इत्यनेनापेक्षितत्वाल्लक्षणयैतत्प्रतिपादयति प्रशस्तत्वादिति । अथ वाऽन्नकरणत्वादिति श्रुतिवृत्तमेव । तत्र यथाश्रुतं विध्युद्देशे हेतुताम- प्रतिपद्यमानं तदनन्तराकाङ्क्षितार्थाविप्लुतहेत्वपेक्षप्राशस्त्यहेतुरवधार्यते, अन्न- करणत्वात्पशस्त इति । कल्पनाद्वयेऽपि च लोकप्रसिद्धदृष्टान्तलाभान्नाश्रुततद्वा- क्यानुमानप्रसङ्गो भविष्यति । सिद्धं हि प्रशस्तानां कर्तव्यत्वमन्नकरणानां च प्रशस्तत्वमिति । अचोदना च तस्येति व्याख्यान्तरम् । तव हि यद्यन्नकरणम्, तच्चोद्यते । न च दर्विपिठरादीनां करणता, साधकतमस्य पाकादेः करणत्वात् । एवं चोत्तर- सूत्रमापतति ॥२७॥ न्या० सु०-अत्र भाष्यकृताऽन्नकरणताया हेतुत्वस्य प्रमाणान्तरानवसेयत्वेन शब्दैक- समधिगम्यत्वाच्छब्देन च शूर्पेण होमकत्तव्येऽन्नकरणत्वस्य हेतुत्वाभिधानात्तस्य च