भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 224, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 224

१७२ मीमांसादर्शनम् [ सू० अस्मत्पक्षे तु एष परशब्दः परत्र वर्तते । यथा लोके बलवान्देवदत्तो यज्ञ- दत्तादीन्प्रसहत इति । प्रकृष्टबलेऽपि बलवच्छब्दो वर्तमानो न सिंहं शार्दूलं वाऽपेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलाः, तानपेक्ष्य भवति । एवं तेन ह्यन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः शूर्पस्य, निकृष्टान्यन्यान्यन्नकरणान्यपेक्ष्य भविष्यति ॥ २९ ॥ भा० वि०—सूत्रेण परिहरति--अर्थस्त्विति । तुशब्दश्शङ्काव्यावर्तकः, अर्थशब्दं व्याचष्टे—अस्मत्पक्ष इति । अर्थोऽन्नकरणत्वादिरूपः कुत इत्याशङ्क्य विधिशेषत्वादिति व्याचष्टे—वाक्येति । तेन व्रीह्यादिस्सर्वनाम्ना परामृष्टः सत्यपि विधिशेषत्वे कथमर्थसत्तेत्याशङ्केत्यत आह—सांवदश्चेति । विधिशेषतया स्तुति- वचनत्वे चानुवादत्वेन भवितव्यम् अनुवादश्च मानान्तरसिद्धस्यैवेत्यर्थः, तथापि किमित्याशङ्क्य यथालोक इति व्याचष्टे--तेनेति । शूर्पेण क्रियत इति श्रुत्या सङ्कीर्त्यत इति अवगम्यत इत्यर्थः, एवमुपयोगित्वमात्रं करणविभक्त्यर्थमभिधाय वर्तमानान्नक्रियात्वाभिधानमुपपादयति--तथा१ चेति । तथा अवर्तमानमप्यन्न- क्रियायोगित्वं शूर्पं स्तोतुं वर्तमानं व्यपदिशति श्रुतिरित्यर्थः, अर्थस्तु विधिशेष- त्वादित्यस्य व्यतिरेकं दर्शयन् परपक्षे दोषमाह—त्वत्पक्ष एष इति । मुख्यत्वाद्य- ग्रह इति । तत्रापि कथं तदग्रहो दोषस्तत्राह--यस्येति । विधिः अज्ञातज्ञापनं हेतुविधिवादत्वात् तवेत्यर्थः, विधित्वेऽपि कुतो दोषापत्तिरित्यत आह--विधौ हीति । न परस्य=अन्यस्य शब्दस्यार्थः प्रयोजनं तया प्रतीयत इत्यर्थः, लक्षणायां हि परशब्दार्थः प्रयोजनं भवति, विधिपक्षे त्वपूर्वाविषयत्वान्न लक्षणा युक्तेत्या- शयः, भवतु तर्हि मुख्यार्थत्वमत आह--न हीति । वर्तमानान्नक्रियं साधकतमं चोपदिशन्र वेद इत्यर्थः एकक्रियाविशिष्टस्य शूर्पादेस्तदैव क्रियान्तरायोगात् साधकतमेन च पाकादिना होतुमशक्यत्वादिति भावः । ननु त्वत्पक्षेऽपि मुख्यार्थाभ्युपगमे विरोधः, लक्षणाभ्युपगमे तु स एव दोषः, इत्याशङ्क्य लाक्षणिक एवार्थः स्वीकर्तव्यः, विधिशेषत्वेनानुवादतया प्रमाणा- न्तरानुसारितया लक्षणाया अप्यदोषत्वादित्यभिप्रेत्य सूत्रयोजनं मत्वाह—अस्मत्पक्ष इति । तत्रापि यथालोक इति व्याचष्टे--यथालोक इति । बलवच्छब्दः प्रकृष्टबले वर्तमानोऽपि इति सम्बन्धः, यद्यपि भूम्नो अतिशायनस्य च मतुबर्थत्वाद्विशेषा- भिधानाच्च सर्वेभ्यः प्रकृष्टबलत्वं शब्दशक्त्या प्रतीयते, तथापि सिंहादीनाम- धिकबलानपेक्ष्याधिकबले देवदत्ते स्तुत्यर्थलक्षणया प्रयुक्त इत्यर्थः । दाष्टन्तिंक- माह—एवमिति । शूर्पस्यापि लाङ्गलाद्यपेक्षया प्रकृष्टस्यैवात्यन्तप्रकृष्टत्वेन स्तुति- स्तेनेत्यादिना क्रियत इत्यर्थः ॥ २९ ॥ १. तदा चेति मु० पु० पाठः ।